स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १०३

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


अध्याय १०३

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल एरण्डीसङ्गमं परम् ।
यच्छ्रुतं वै मया राजञ्छिवस्य वदतः पुरा ॥ १०३.१ ॥
एतदेव पुरा प्रश्नं गौर्या पृष्टस्तु शङ्करः ।
प्रोवाच नृपशार्दूल गुह्याद्गुह्यतरं शुभम् ॥ १०३.२ ॥

ईश्वर उवाच -
शृणु देवि परं गुह्यं नाख्यातं कस्यचिन्मया ।
रेवायाश्चोत्तरे कूले तीर्थं परमशोभनम् ।
भ्रूणहत्याहरं देवि कामदं पुत्रवर्धनम् ॥ १०३.३ ॥

पार्वत्युवाच -
कथयस्व महादेव तीर्थं परमशोभनम् ।
भ्रूणहत्याहरं कस्मात्कामदं स्वर्गदर्शनम् ॥ १०३.४ ॥

ईश्वर उवाच -
अत्रिर्नाम महादेवि मानसो ब्रह्मणः सुतः ।
अग्निहोत्ररतो नित्यं देवतातिथिपूजकः ॥ १०३.५ ॥
सोमसंस्थाश्च सप्तैव कृता विप्रेण पार्वति ।
अनसूयेति विख्याता भार्या तस्य गुणान्विता ॥ १०३.६ ॥
पतिव्रता पतिप्राणा पत्युः कार्यहिते रता ।
एवं याति ततः काले न पुत्रा न च पुत्रिका ॥ १०३.७ ॥
अपराह्णे महादेवि सुखासीनौ तु सुन्दरि ।
वदन्तौ सुखदुःखानि पूर्ववृत्तानि यानि च ॥ १०३.८ ॥

अत्रिरुवाच -
सौम्ये शुभे प्रिये कान्ते चारुसर्वाङ्गसुन्दरि ।
विद्याविनयसम्पन्ने पद्मपत्रनिभेक्षणे ॥ १०३.९ ॥
पूर्णचन्द्रनिभाकारे पृथुश्रोणिभरालसे ।
न त्वया सदृशी नारी त्रैलोक्ये सचराचरे ॥ १०३.१० ॥
रतिपुत्रफला नारी पठ्यते वेदवादिभिः ।
पुत्रहीनस्य यत्सौख्यं तत्सौख्यं मम सुन्दरि ॥ १०३.११ ॥
यथाहं न तथा पुत्रः समर्थः सर्वकर्मसु ।
पुन्नामनरकाद्भद्रे जातमात्रेण सुन्दरि ॥ १०३.१२ ॥
पतन्तं रक्षयेद्देवि महापातकिनं यदि ।
महाघोरे गता वापि दुष्टकर्मपितामहाः ॥ १०३.१३ ॥
तद्धरन्ति सुपुत्राश्च वैतरण्यां गतानपि ।
पुत्रेण लोकाञ्जयति पौत्रेण परमा गतिः ॥ १०३.१४ ॥
अथ पुत्रस्य पौत्रेण प्रगच्छेद्ब्रह्म शाश्वतम् ।
नास्ति पुत्रसमो बन्धुरिह लोके परत्र च ॥ १०३.१५ ॥
अहश्च मध्यरात्रे च चिन्तयानस्य सर्वदा ।
शुष्यन्ति मम गात्राणि ग्रीष्मे नद्युदकं यथा ॥ १०३.१६ ॥

अनसूयोवाच -
यत्त्वया शोचितं विप्र तत्सर्वं शोचयाम्यहम् ।
तवोद्वेगकरं यच्च तन्मे दहति चेतसि ॥ १०३.१७ ॥
येन पुत्रा भविष्यन्ति आयुष्मन्तो गुणान्विताः ।
तत्कार्यं च समीक्षस्व येन तुष्येत्प्रजापतिः ॥ १०३.१८ ॥

अत्रिरुवाच -
तपस्तप्तं मया भद्रे जातमात्रेण दुष्करम् ।
व्रतोपवासनियमैः शाकाहारेण सुन्दरि ॥ १०३.१९ ॥
क्षीणदेहस्तु तिष्ठामि ह्यशक्तोऽहं महाव्रते ।
तेन शोचामि चात्मानं रहस्यं कथितं मया ॥ १०३.२० ॥

अनसूयोवाच -
भर्तुः पतिव्रता नारी रतिपुत्रविवर्धिनी ।
त्रिवर्गसाधना सा च श्लाघ्या च विदुषां जने ॥ १०३.२१ ॥
जपस्तपस्तीर्थयात्रा मृडेज्यामन्त्रसाधनम् ।
देवताराधनं चैव स्त्रीशूद्रपतनानि षट् ॥ १०३.२२ ॥
ईदृशं तु महादोषं स्त्रीणां तु व्रतसाधने ।
वदन्ति मुनयः सर्वे यथोक्तं वेदभाषितम् ॥ १०३.२३ ॥
अनुज्ञाता त्वया ब्रह्मंस्तपस्तप्स्यामि दुष्करम् ।
पुत्रार्थित्वं समुद्दिश्य तोषयामि सुरोत्तमान् ॥ १०३.२४ ॥

अत्रिरुवाच -
साधु साधु महाप्राज्ञे मम संतोषकारिणि ।
आज्ञाता त्वं मया भद्रे पुत्रार्थं तप आश्रय ॥ १०३.२५ ॥
देवतानां मनुष्याणां पित्ःणामनृणो भवे ।
न भार्यासदृशो बन्धुस्त्रिषु लोकेषु विद्यते ॥ १०३.२६ ॥
तेन देवाः प्रशंसन्ति न भार्यासदृशं सुखम् ।
सन्मुखे मन्मुखाः पुत्राः विलोमे तु पराङ्मुखाः ॥ १०३.२७ ॥
तेन भार्यां प्रशंसन्ति सदेवासुरमानुषाः ।
महाव्रते महाप्राज्ञे सत्त्ववति शुभेक्षणे ॥ १०३.२८ ॥
तपस्तपस्व शीघ्रं त्वं पुत्रार्थं तु ममाज्ञया ।
एतद्वाक्यावसाने तु साष्टाङ्गं प्रणताब्रवीत् ॥ १०३.२९ ॥
त्वत्प्रसादेन विप्रेन्द्र सर्वान्कामानवाप्नुयाम् ।
हंसलीलागतिः सा च मृगाक्षी वरवर्णिनी ॥ १०३.३० ॥
नियमस्था ततो भूत्वा सम्प्राप्ता नर्मदां नदीम् ।
शिवस्वेदोद्भवां देवीं सर्वपापप्रणाशनीम् ॥ १०३.३१ ॥
यस्या दर्शनमात्रेण नश्यते पापसञ्चयः ।
स्नानमात्रेण वै यस्या अश्वमेधफलं लभेत् ॥ १०३.३२ ॥
ये पिबन्ति महादेवि श्रद्दधानाः पयः शुभम् ।
सोमपानेन तत्तुल्यं नात्र कार्या विचारणा ॥ १०३.३३ ॥
ये स्मरन्ति दिवा रात्रौ योजनानां शतैरपि ।
मुच्यन्ते सर्वपापेभ्यो रुद्रलोकं प्रयान्ति ते ॥ १०३.३४ ॥
नर्मदायाः समीपे तु तावुभौ योजनद्वये ।
न पश्यन्ति यमं तत्र ये मृता वरवर्णिनि ॥ १०३.३५ ॥
ततस्तदुत्तरे कूले एरण्ड्याः सङ्गमे शुभे ।
नियमस्था विशालाक्षी शाकाहारेण सुन्दरि ॥ १०३.३६ ॥
तोषयन्ती त्रींश्च देवाञ्छुभैः स्तोत्रैर्व्रतैस्तथा ।
ग्रीष्मेषु च महादेवि पञ्चाग्निं साधयेत्ततः ॥ १०३.३७ ॥
वर्षाकाले चार्द्रवासाश्चरेच्चान्द्रायणानि च ।
हेमन्ते तु ततः प्राप्ते तोयमध्ये वसेत्सदा ॥ १०३.३८ ॥
प्रातःस्नानं ततः सन्ध्यां कुर्याद्देवर्षितर्पणम् ।
देवानामर्चनं कृत्वा होमं कुर्याद्यथाविधि ॥ १०३.३९ ॥
यजते वैष्णवांल्लोकान् स्नानजाप्यहुतेन च ।
एवं वर्षशते प्राप्ते रुद्रविष्णुपितामहाः ॥ १०३.४० ॥
सम्प्राप्ता द्विजरूपैस्तु एरण्ड्याः सङ्गमे प्रिये ।
पुरतः संस्थितास्तस्या वेदमभ्युद्धरन्ति च ॥ १०३.४१ ॥
अनसूया जपं त्यक्त्वा निरीक्ष्य तान्मुहुर्मुहुः ।
उत्थिता सा विशालाक्षी अर्घं दत्त्वा यथाविधि ॥ १०३.४२ ॥
अद्य मे सफलं जन्म अद्य मे सफलं तपः ।
दर्शनेन तु विप्राणां सर्वपापैः प्रमुच्यते ॥ १०३.४३ ॥
प्रदक्षिणं ततः कृत्वा साष्टाङ्गं प्रणताब्रवीत् ।
कन्दमूलफलं शाकं नीवारानपि पावनान् ।
प्रयच्छाम्यहमद्यैव मुनीनां भावितात्मनाम् ॥ १०३.४४ ॥
विप्रा ऊचुः ।
तपसा तु विचित्रेण तपःसत्येन सुव्रते ।
तृप्ताः स्म सर्वकामैस्तु सुव्रते तव दर्शनात् ॥ १०३.४५ ॥
अस्माकं कौतुकं जातं तापसेन व्रतेन यत् ।
स्वर्गमोक्षसुतस्यार्थे तपस्तपसि दुष्करम् ॥ १०३.४६ ॥

अनसूयोवाच -
तपसा सिध्यते स्वर्गस्तपसा परमा गतिः ।
तपसा चार्थकामौ च तपसा गुणवान्सुतः ।
तप एव च मे विप्राः सर्वकामफलप्रदम् ॥ १०३.४७ ॥
विप्रा ऊचुः ।
तन्वी श्यामा विशालाक्षी स्निग्धाङ्गी रूपसंयुता ।
हंसलीलागतिगमा त्वं च सर्वाङ्गसुन्दरी ॥ १०३.४८ ॥
किं च ते तपसा कार्यमात्मानं शोच्यसे कथम् ॥ १०३.४९ ॥

अनसूयोवाच -
यदि रुद्रश्च विष्णुश्च स्वयं साक्षात्पितामहः ।
गूढरूपधराः सर्वे तच्चिह्नमुपलक्षये ॥ १०३.५० ॥
तस्या वाक्यावसाने तु स्वरूपं दर्शयन्ति ते ।
स्वस्वरूपैः स्थिता देवाः सूर्यकोटिसमप्रभाः ॥ १०३.५१ ॥
चतुर्भुजो महादेवि शङ्खचक्रगदाधरः ।
अतसीपुष्पवर्णस्तु पीतवासा जनार्दनः ॥ १०३.५२ ॥
गरुत्मान्वाहनं यस्य श्रिया च सहितो हरिः ।
प्रसन्नवदनः श्रीमान्स्वयंरूपो व्यवस्थितः ॥ १०३.५३ ॥
पीतवासा महादेवि चतुर्वदनपङ्कजः ।
हंसोपरि समारूढो ह्यक्षमालाकरोद्यतः ॥ १०३.५४ ॥
आगतो नर्मदातीरे ब्रह्मा लोकपितामहः ।
योऽसौ सर्वजगद्व्यापी स्वयं साक्षान्महेश्वरः ॥ १०३.५५ ॥
वृषभं तु समारूढो दशबाहुसमन्वितः ।
भस्माङ्गरागशोभाढ्यः पञ्चवक्त्रस्त्रिलोचनः ॥ १०३.५६ ॥
जटामुकुटसंयुक्तः कृतचन्द्रार्द्धशेखरः ।
एवंरूपधरो देवः सर्वव्यापी महेश्वरः ॥ १०३.५७ ॥
अनसूया निरीक्ष्यैतद्देवानां दर्शनं परम् ।
वेपमाना ततः साध्वी सुरान्दृष्ट्वा मुहुर्मुहुः ॥ १०३.५८ ॥

अनसूयोवाच -
किं व्यापारस्वरूपास्तु विष्णुरुद्रपितामहाः ।
एतद्वै श्रोतुमिच्छामि ह्यशेषं कथयन्तु मे ॥ १०३.५९ ॥

ब्रह्मोवाच -
प्रावृट्कालो ह्यहं ब्रह्मा आपश्चैव प्रकीर्तिताः ।
मेघरूपो ह्यहं प्रोक्तो वर्षयामि च भूतले ॥ १०३.६० ॥
अहं सर्वाणि बीजानि प्राक्सन्ध्यासूदिते रवौ ।
एतद्वै कारणं सर्वं रहस्यं कथितं परम् ॥ १०३.६१ ॥

विष्णुरुवाच -
हेमन्तश्च भवेद्विष्णुर्विश्वरूपं चराचरम् ।
पालनाय जगत्सर्वं विष्णोर्माहात्म्यमुत्तमम् ॥ १०३.६२ ॥

रुद्र उवाच -
ग्रीष्मकालो ह्यहं प्रोक्तः सर्वभूतक्षयंकरः ।
कर्षयामि जगत्सर्वं रुद्ररूपस्तपस्विनि ॥ १०३.६३ ॥
एवं ब्रह्मा च विष्णुश्च रुद्रश्चैव महाव्रते ।
त्रयो देवास्त्रयः सन्ध्यास्त्रयः कालास्त्रयोऽग्नयः ॥ १०३.६४ ॥
तथा ब्रह्मा च विष्णुश्च रुद्रश्चैकात्मतां गतः ।
वरं दद्युश्च ते भद्रे यस्त्वया मनसीप्सितम् ॥ १०३.६५ ॥

अनसूयोवाच -
धन्या पुण्या ह्यहं लोके श्लाघ्या वन्द्या च सर्वदा ।
ब्रह्मा विष्णुश्च रुद्रश्च प्रसन्नवदनाः शुभाः ॥ १०३.६६ ॥
यदि तुष्टास्त्रयो देवा दयां कृत्वा ममोपरि ।
अस्मिंस्तीर्थे तु सांनिध्याद्वरदाः सन्तु मे सदा ॥ १०३.६७ ॥

रुद्र उवाच -
एवं भवतु ते वाक्यं यत्त्वया प्रार्थितं शुभे ।
प्रत्यक्षा वैष्णवी माया एरण्डीनाम नामतः ॥ १०३.६८ ॥
यस्या दर्शनमात्रेण नश्यते पापसञ्चयः ।
चैत्रमासे तु सम्प्राप्ते अहोरात्रोषितो भवेत् ॥ १०३.६९ ॥
एरण्ड्याः सङ्गमे स्नात्वा ब्रह्महत्यां व्यपोहति ।
रात्रौ जागरणं कुर्यात्प्रभाते भोजयेद्द्विजान् ॥ १०३.७० ॥
यथोक्तेन विधानेन पिण्डं दद्याद्यथाविधि ।
प्रदक्षिणां ततो दद्याद्धिरण्यं वस्त्रमेव च ॥ १०३.७१ ॥
रजतं च तथा गावो भूमिदानमथापि वा ।
सर्वं कोटिगुणं प्रोक्तमिति स्वायम्भुवोऽब्रवीत् ॥ १०३.७२ ॥
ये म्रियन्ति नरा देवि एरण्ड्याः सङ्गमे शुभे ।
यावद्युगसहस्रं तु रुद्रलोके वसन्ति ते ॥ १०३.७३ ॥
अहोरात्रोषितो भूत्वा जपेद्रुद्रांश्च वैदिकान् ।
एकादशैकसंज्ञांश्च स याति परमां गतिम् ॥ १०३.७४ ॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रांल्लभेत्कामान् यथेप्सितान् ॥ १०३.७५ ॥
एरण्ड्याः सङ्गमे स्नात्वा रेवाया विमले जले ।
महापातकिनो वापि ते यान्ति परमां गतिम् ॥ १०३.७६ ॥

अनसूयोवाच -
यदि तुष्टास्त्रयो देवा मम भक्तिप्रचोदिताः ।
मम पुत्रा भवन्त्वेव हरिरुद्रपितामहाः ॥ १०३.७७ ॥

विष्णुरुवाच -
पूज्या यत्पुत्रतां यान्ति न कदाचिच्छ्रुतं मया ।
शुभे ददामि पुत्रांस्ते देवतुल्यपराक्रमान् ।
रूपवन्तो गुणोपेतान्यज्विनश्च बहुश्रुतान् ॥ १०३.७८ ॥

अनसूयोवाच -
ईप्सितं तच्च दातव्यं यन्मया प्रार्थितं हरे ।
नान्यथा चैव कर्तव्या मम पुत्रैषणा तु या ॥ १०३.७९ ॥

विष्णुरुवाच -
पूर्वं तु भृगुसंवादे गर्भवास उपार्जितः ।
तस्याहं चैव पारं तु नैव पश्यामि शोभने ॥ १०३.८० ॥
स्मरमाणः पुरावृत्तं चिन्तयामि पुनःपुनः ।
एवं संचिन्त्य ते देवाः पितामहमहेश्वराः ॥ १०३.८१ ॥
अयोनिजा भविष्यामस्तव पुत्रा वरानने ।
योनिवासे महाप्राज्ञि देवा नैव व्रजन्ति च ॥ १०३.८२ ॥
सांनिध्यात्सङ्गमे देवि लोकानां तु वरप्रदाः ।
एरण्डी वैष्णवी माया प्रत्यक्षा त्वं भविष्यसि ॥ १०३.८३ ॥
त्रयो देवाः स्थिताः पाथ रेवाया उत्तरे तटे ।
वरप्राप्ता तु सा देवी गता माहेन्द्रपर्वतम् ॥ १०३.८४ ॥
क्षीणाङ्गी शुक्लदेहा च रूक्षकेशी सुदारुणा ।
कृतयज्ञोपवीता सा तपोनिष्ठा शुभेक्षणा ॥ १०३.८५ ॥
शिलातलनिविष्टोऽसौ दृष्टः कान्तो महायशाः ।
हृष्टचित्तोऽभवद्देवि उत्तिष्ठोत्तिष्ठ साब्रवीत् ॥ १०३.८६ ॥

अत्रिरुवाच -
साधु साधु महाप्राज्ञे ह्यनसूये महाव्रते ।
अचिन्त्यं गालवादीनां वरं प्राप्तासि दुर्लभम् ॥ १०३.८७ ॥

अनसूयोवाच -
त्वत्प्रसादेन देवर्षे वरं प्राप्तास्मि दुर्लभम् ।
तेन देवाः प्रशंसन्ति सिद्धाश्च ऋषयोऽमलाः ॥ १०३.८८ ॥
एवमुक्ता तु सा देवी हर्षेण महता युता ।
आलोकयेत्ततः कान्तं तेनापि शुभदर्शना ॥ १०३.८९ ॥
ईक्षणाच्चैव संजातं ललाटे मण्डलं शुभम् ।
नवयोजनसाहस्रं मण्डलं रश्मिभिर्वृतम् ॥ १०३.९० ॥
कदम्बगोलकाकारं त्रिगुणं परिमण्डलम् ।
तस्य मध्ये तु देवेशि पुरुषो दिव्यरूपधृक् ॥ १०३.९१ ॥
हेमवर्णोऽमृतमयः सूर्यकोटिसमप्रभः ।
आद्यः पुत्रोऽनसूयायाः स्वयं साक्षात्पितामहः ॥ १०३.९२ ॥
चन्द्रमा इति विख्यातः सोमरूपो नृपात्मज ।
इष्टापूर्ते च संपाति कलाषोडशकेन तु ॥ १०३.९३ ॥
प्रतिपच्च द्वितीया च तृतीया च महेश्वरि ।
चतुर्थी पञ्चमी चैव अव्यया षोडशी कला ॥ १०३.९४ ॥
चतुर्विधस्य लोकस्य सूक्ष्मो भूत्वा वरानने ।
आप्रीणाति जगत्सर्वं त्रैलोक्यं सचराचरम् ॥ १०३.९५ ॥
सर्वे ते ह्युपजीवन्ति हुतं दत्तं शशिस्थितम् ।
वनस्पतिगते सोमे धनवांश्च वरानने ॥ १०३.९६ ॥
भुञ्जन् परगृहे मूढो ददेदब्दकृतं शुभम् ।
वनस्पतिगते सोमे यस्तु छिन्द्याद्वनस्पतीन् ।
तेन पापेन देवेशि नरा यान्ति यमालयम् ॥ १०३.९७ ॥
वनस्पतिगते सोमे मैथुनं यो निषेवते ।
ब्रह्महत्यासमं पापं लभते नात्र संशयः ॥ १०३.९८ ॥
वनस्पतिगते सोमे मन्थानं योऽधिवाहयेत् ।
गावस्तस्य प्रणश्यन्ति याश्च वै पूर्वसंचिताः ॥ १०३.९९ ॥
वनस्पतिगते सोमे ह्यध्वानं योऽधिगच्छति ।
भवन्ति पितरस्तस्य तं मासं रेणुभोजनाः ॥ १०३.१०० ॥
अमावस्यां महादेवि यस्तु श्राद्धप्रदो भवेत् ।
अब्दमेकं विशालाक्षि तृप्तास्तत्पितरो ध्रुवम् ॥ १०३.१०१ ॥
हिरण्यं रजतं वस्त्रं यो ददाति द्विजातिषु ।
सर्वं लक्षगुणं देवि लभते नात्र संशयः ॥ १०३.१०२ ॥
एवं गुणविशिष्टोऽसौ सोमरूपः प्रजापतिः ।
संजातः प्रथमः पुत्रो ह्यनसूयासुनन्दनः ॥ १०३.१०३ ॥
द्वितीयस्तु महादेवि दुर्वासा नाम नामतः ।
सृष्टिसंहारकर्ता च स्वयं साक्षान्महेश्वरः ॥ १०३.१०४ ॥
ऋषिमध्यगतो देवि तपस्तपति दुष्करम् ।
सोऽपि रुद्रत्वमायाति सम्प्राप्ते भूतविप्लवे ॥ १०३.१०५ ॥
इन्द्रोऽपि शप्तस्तेनैव दुर्वाससा वरानने ।
द्वितीयस्य तु पुत्रस्य सम्भवः कथितो मया ॥ १०३.१०६ ॥
दत्तात्रेयस्वरूपेण भगवान्मधुसूदनः ।
जगद्व्यापी जगन्नाथः स्वयं साक्षाज्जनार्दनः ॥ १०३.१०७ ॥
एते देवास्त्रयः पुत्रा अनसूयाया महेश्वरि ।
वरदानेन ते देवा ह्यवतीर्णा महीतले ॥ १०३.१०८ ॥
पुत्रप्राप्तिकरं तीर्थं रेवायाश्चोत्तरे तटे ।
अनसूयाकृतं पार्थ सर्वपापक्षयं परम् ॥ १०३.१०९ ॥

श्रीमार्कण्डेय उवाच -
आश्चर्यभूतं लोकेऽस्मिन्नर्मदायां पुरातनम् ।
भ्रूणहत्या गता तत्र ब्राह्मणस्य नराधिप ॥ १०३.११० ॥

युधिष्ठिर उवाच -
इतिहासं द्विजश्रेष्ठ कथयस्व ममानघ ।
सर्वपापहरं लोके दुःखार्तस्य च कथ्यताम् ॥ १०३.१११ ॥

श्रीमार्कण्डेय उवाच -
सुवर्णशिलके ग्रामे गौतमान्वयसम्भवः ।
कृषीवलो महादेवि भार्यापुत्रसमन्वितः ॥ १०३.११२ ॥
वसते तत्र गोविन्दः संजातो विपुले कुले ।
पुत्रदारसमोपेतो गृहक्षेत्ररतः सदा ॥ १०३.११३ ॥
शकटं पूरयित्वा तु काष्ठानामगमद्गुहम् ।
प्रक्षिप्तानि च काष्ठानि ह्येकाकी क्षुधयान्वितः ॥ १०३.११४ ॥
रिङ्गमाणस्तदा पुत्रः पितुः शब्दात्समागतः ।
न दृष्टस्तेन वै पुत्रः काष्ठैः संछादितोऽवशः ॥ १०३.११५ ॥
आगतस्त्वरितो गेहे पिपासार्तो नराधिप ।
शकटं मोच्य तद्द्वारि सवृषं रज्जुसंयुतम् ॥ १०३.११६ ॥
भार्या तस्यैव या दृष्टा चित्तज्ञा वशवर्तिनी ।
दृष्ट्वा निपातितं पुत्रं काष्ठैर्निर्भिन्नमस्तकम् ॥ १०३.११७ ॥
अजल्पमानाकरुणं निक्षिप्तं ज्ञोलिकां शिशुम् ।
शुश्रूषणे रता साध्वी प्रियस्य च नराधिप ॥ १०३.११८ ॥
ततः स्नानादिकं कृत्वा भोजनाच्छयनं शुभम् ।
पुत्रं पुत्रवतां श्रेष्ठा ह्युत्थापयति शासनैः ॥ १०३.११९ ॥
यदा च नोत्थितः सुप्तः पुत्रः पञ्चत्वमागतः ।
तदा सा दीनवदना रुरोद च मुमोह च ॥ १०३.१२० ॥
तच्छ्रुत्वा रुदितं शब्दं गोविन्दस्त्रस्तमानसः ।
किमेतदिति चोक्त्वा तु पतितो धरणीतले ॥ १०३.१२१ ॥
द्वावेतौ मुक्तकेशौ तु भूमौ निपतितौ नृप ।
विलेपाते च राजेन्द्र निःश्वासोच्छ्वासितेन च ॥ १०३.१२२ ॥
कं पश्ये प्राङ्गणे पुत्रं दृष्ट्वा क्रीडन्तमातुरम् ।
संधारयिष्ये हृदयं स्फुटितं तव कारणे ॥ १०३.१२३ ॥
त्वज्जन्मान्तं यशो नित्यमक्षयां कुलसन्ततिम् ।
दृष्ट्वा किमनृणीभूतो यास्यामि परमां गतिम् ॥ १०३.१२४ ॥
मम वृद्धस्य दीनस्य गतिस्त्वं किल पुत्रक ।
एते मनोरथाः सर्वे चिन्तिता विफला गताः ॥ १०३.१२५ ॥
इमां तु विकलां दीनां विहीनां सुतबान्धवैः ।
रुदन्तीं पतितां पाहि मातरं धरणीतले ॥ १०३.१२६ ॥
पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः ।
तेन पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥ १०३.१२७ ॥
अपुत्रस्य गृहं शून्यं दिशः शून्या ह्यबान्धवाः ।
मूर्खस्य हृदयं शून्यं सर्वशून्यं दरिद्रता ॥ १०३.१२८ ॥
मृषायं वदते लोकश्चन्दनं किल शीतलम् ।
पुत्रगात्रपरिष्वङ्गश्चन्दनादपि शीतलः ॥ १०३.१२९ ॥
श्मश्रुग्रहणक्रीडन्तं धूलिधूसरिताननम् ।
पुण्यहीना न पश्यन्ति निजोत्सङ्गसमास्थितम् ॥ १०३.१३० ॥
दिगम्बरं गतव्रीडं जटिलं धूलिधूसरम् ।
पुण्यहीना न पश्यन्ति गङ्गाधरमिवात्मजम् ॥ १०३.१३१ ॥
वीणावाद्यस्वरो लोके सुस्वरः श्रूयते किल ।
रुदितं बालकस्यैव तस्मादाह्लादकारकम् ॥ १०३.१३२ ॥
मृगपक्षिषु काकेषु पशूनां स्वरयोनिषु ।
पुत्रं तेषु समस्तेषु वल्लभं ब्रुवते बुधाः ॥ १०३.१३३ ॥
मत्स्याश्वप्रकराश्चैव कूर्मग्राहादयोऽपि वा ।
पुत्रोत्पत्तौ च हृष्यन्ति विपत्तौ यान्ति दुःखिताम् ॥ १०३.१३४ ॥
देवगन्धर्वयक्षाश्च हृष्यन्ते पुत्रजन्मनि ।
पञ्चत्वे तेऽपि शोचन्ति मन्दभाग्योऽस्मि पुत्रक ॥ १०३.१३५ ॥
ऋषिमेलापकं चक्रे पुत्रार्थे राघवो नृप ।
इन्द्रस्थाने स्थितस्तस्य प्रोक्षते ह्यासनं यतः ॥ १०३.१३६ ॥
स्वर्गवासं सुताद्बाह्यं विद्यते न तु पाण्डव ।
चक्रे दशरथस्तस्मात्पुत्रार्थं यज्ञमुत्तमम् ॥ १०३.१३७ ॥
रामो लक्ष्मणशत्रुघ्नौ भरतस्तत्र सम्भवात् ।
कार्तवीर्यो जितो येन रामेणामिततेजसा ॥ १०३.१३८ ॥
स रामो रामचन्द्रेण अष्टवर्षेण निर्जितः ।
एकाकिना हतो वाली प्लवगः शत्रुदुर्जयः ॥ १०३.१३९ ॥
रावणो ब्रह्मपुत्रो यस्त्रैलोक्यं यस्य शङ्कते ।
हतः स रामचन्द्रेण सपुत्रः सहबान्धवः ॥ १०३.१४० ॥
एवं पुत्रं विना सौख्यं मर्त्यलोके न विद्यते ।
वंशार्थे मैथुनं यस्य स्वर्गार्थे यस्य भारती ॥ १०३.१४१ ॥
मृष्टान्नं ब्राह्मणस्यार्थे स्वर्गे वासं तु यान्ति ते ।
ब्रह्महत्याश्वमेधाभ्यां न परं पापपुण्ययोः ॥ १०३.१४२ ॥
पुत्रोत्पत्तिविपत्तिभ्यां न परं सुखदुःखयोः ।
किं ब्रवीमीति भो वत्स न तु सौख्यं सुतं विना ॥ १०३.१४३ ॥
एवं बहुविधं दुःखं प्रलपित्वा पुनःपुनः ।
जनैश्चाश्वासितो विप्रो बालं गृह्य बहिर्गतः ॥ १०३.१४४ ॥
ततः संस्कृत्य तं बालं विधिदृष्टेन कर्मणा ।
समवेतौ तु दुःखार्तावागतौ स्वगृहं पुनः ॥ १०३.१४५ ॥
एवं गृहागते विप्रे रात्रिर्जाता युधिष्ठिर ।
भूमौ प्रसुप्तो गोविन्दः पुत्रशोकेन पीडितः ॥ १०३.१४६ ॥
यावन्निरीक्षते भार्या भर्तारं दुःखपीडितम् ।
कृमिराशिगतं सर्वं गोविन्दं समपश्यत ॥ १०३.१४७ ॥
दुःखाद्दुःखतरे मग्ना दृष्ट्वा तं पातकान्वितम् ।
एवं दुःखनिमग्नायाः शर्वरी विगता तदा ॥ १०३.१४८ ॥
पशुपालस्तु महिषीमुक्त्वारण्येऽगमद्गृहात् ।
अरण्ये महिषीः सर्वा रक्षयित्वा गृहागतः ॥ १०३.१४९ ॥
विज्ञप्तः पशुपालेन गोविन्दो ब्राह्मणोत्तमः ।
यावद्भोक्ष्याम्यहं स्वामिन्महिषीस्त्वं च रक्षसे ॥ १०३.१५० ॥
ततः स त्वरितो विप्रो जगाम महिषीः प्रति ।
न तत्र महिषीः पश्येत्पश्चात्क्षेत्राभिसम्मुखम् ॥ १०३.१५१ ॥
धावमानश्च विप्रस्तु एरण्डीसङ्गमे गतः ।
ततः प्रविष्टस्तु जले रेवैरण्ड्योस्तु सङ्गमे ॥ १०३.१५२ ॥
तज्जलं पीतमात्रं तु त्वरया चातितर्षितः ।
अकामात्सलिलं पीत्वा प्रक्षाल्य नयने शुभे ॥ १०३.१५३ ॥
आजगाम ततः पश्चाद्भवनं दिवसक्षये ।
भुक्त्वा दुःखान्वितो रात्रौ गोविन्दः शयनं ययौ ॥ १०३.१५४ ॥
निद्राभिभूतः शोकेन श्रमेणैव तु खेदितः ।
पुनस्तच्चार्धरात्रे तु तस्य भार्या युधिष्ठिर ॥ १०३.१५५ ॥
कृमिभिर्वेष्टितं गान्त्रं क्वचित्पश्यत्यवेष्टितम् ।
पुनः सा विस्मयाविष्टा तस्य भार्या गुणान्विता ।
उवाच दुष्कृतं तस्य साध्वसाविष्टचेतसा ॥ १०३.१५६ ॥

भार्योवाच -
अतीते पञ्चमे चाह्नि त्विन्धनं क्षिपतस्तु ते ।
गृहपश्चाद्गतो बालो ह्यज्ञानाद्घातितस्त्वया ॥ १०३.१५७ ॥
मया तत्पातकं घोरं रहस्यं न प्रकाशितम् ।
तेन प्रच्छन्नपापेन दह्यमाना दिवानिशम् ॥ १०३.१५८ ॥
न सुखं तव गात्रस्य पश्यामि न हि चात्मनः ।
निद्रा मम शमं याता रतिश्चैव त्वया सह ॥ १०३.१५९ ॥
श्रूयते मानवे शास्त्रे श्लोको गीतो महर्षिभिः ।
स्मृत्वा स्मृत्वा तु तं चित्ते परितापो न शाम्यति ॥ १०३.१६० ॥
कीर्तनान्नश्यते धर्मो वर्धतेऽसौ निगूहनात् ।
इह लोके परे चैव पापस्याप्येवमेव च ॥ १०३.१६१ ॥
एवं संचित्यमानाहं स्थिता रात्रौ भयातुरा ।
कृमिराशिगतं त्वां हि कस्याहं कथयामि किम् ॥ १०३.१६२ ॥
पुनस्त्वं चाद्य मे दृष्टो भ्रूणहत्याकृमिश्रितः ।
क्वचिद्भिन्दन्ति ते गात्रं क्वचिन्नष्टाः समन्ततः ॥ १०३.१६३ ॥
एतत्संस्मृत्य संस्मृत्य विमृशामि पुनःपुनः ।
न जाने कारणं किंचित्पृच्छन्त्याः कथयस्व मे ॥ १०३.१६४ ॥
तडागं वा सरिद्वापि तीर्थं वा देवतार्चनम् ।
यं गतोऽसि प्रभावोऽयं तस्य नान्यस्य मे स्थितम् ॥ १०३.१६५ ॥
एवमुक्तस्तु विप्रोऽसौ कथयामास भारत ।
भार्याया यद्दिवा वृत्तं शङ्कमानो नृपोत्तम ॥ १०३.१६६ ॥
अद्याहं महिषीसार्थं एरण्डीसङ्गमं गतः ।
नाभिमात्रे जले गत्वा पीतवान्सलिलं बहु ॥ १०३.१६७ ॥
नान्यत्तीर्थं विजानामि सरितं सर एव वा ।
सत्यं सत्यं पुनः सत्यं कथितं तव भामिनि ॥ १०३.१६८ ॥
एवं ज्ञात्वा तु सा सर्वमुपवासकृतक्षणा ।
सपत्नीको गतस्तत्र सङ्गमे वरवर्णिनि ॥ १०३.१६९ ॥
स्नात्वा तत्र जले रम्ये नत्वा देवं तु भास्करम् ।
स्नापयामास देवेशं शङ्करं चोमया सह ॥ १०३.१७० ॥
पञ्चगव्यघृतक्षीरैर्दधिक्षौद्रघृतैर्जलैः ।
गन्धमाल्यादिधूपैश्च नैवेद्यैश्च सुशोभनैः ॥ १०३.१७१ ॥
पूज्य त्रयीमयं लिङ्गं देवीं कात्यायनीं शुभाम् ।
रात्रौ जागरणं कृत्वा पत्यासि पतिव्रता ॥ १०३.१७२ ॥
ततः प्रभाते विमले द्विजान्सम्पूज्य यत्नतः ।
गोदानेन हिरण्येन वस्त्रेणान्नेन भारत ॥ १०३.१७३ ॥
गोविन्दः पूजयामास स्वशक्त्या ब्राह्मणाञ्छुभान् ।
मुक्तपापो गृहायातः स्वभार्यासहितो नृप ॥ १०३.१७४ ॥
एवं यः शृणुते भक्त्या गोविन्दाख्यानमुत्तमम् ।
पठते परया भक्त्या भ्रूणहत्या प्रणश्यति ॥ १०३.१७५ ॥
क्रीडते शांकरे लोके यावदाभूतसम्प्लवम् ।
यश्चैवाश्वयुजे मासि चैत्रे वा नृपसत्तम ॥ १०३.१७६ ॥
सप्तम्यां च सिते पक्षे सोपवासो जितेन्द्रियः ।
सात्त्विकीं वासनां कृत्वा यो वसेच्छिवमन्दिरे ॥ १०३.१७७ ॥
ध्यायमानो विरूपाक्षं त्रिशूलकरसंस्थितम् ।
कंसासुरनिहन्तारं शङ्खचक्रगदाधरम् ॥ १०३.१७८ ॥
पक्षिराजसमारूढं त्रैलोक्यवरदायकम् ।
पितामहं ततो ध्यायेद्धंसस्थं चतुराननम् ॥ १०३.१७९ ॥
सर्गप्रदं समस्तस्य कमलाकरशोभितम् ।
यो ह्येवं वसते तत्र त्रियमे स्थान उत्तमे ॥ १०३.१८० ॥
ततः प्रभाते विमले ह्यष्टम्यां च नराधिप ।
ब्राह्मणान् पूजयेद्भक्त्या सर्वदोषविवर्जितान् ॥ १०३.१८१ ॥
सर्वावयवसम्पूर्णान्सर्वशास्त्रविशारदान् ।
वेदाभ्यासरतान्नित्यं स्वदारनिरतान्सदा ॥ १०३.१८२ ॥
श्राद्धे दाने व्रते योग्यान् ब्राह्मणान् पाण्डुनन्दन ।
प्रेतानां पूजनं तत्र देवपूर्वं समारभेत् ॥ १०३.१८३ ॥
प्रेतत्वान्मुच्यते शीघ्रमेरण्ड्यां पिण्डतर्पणैः ।
दानानि तत्र देयानि ह्यन्नमुख्यानि सर्वदा ॥ १०३.१८४ ॥
हिरण्यभूमिकन्याश्च धूर्वाहौ शुभलक्षणौ ।
सीरेण सहितौ पार्थ धान्यं द्रोणकसंख्यया ॥ १०३.१८५ ॥
अलंकृतां सवत्सां च क्षीरिणीं तरुणीं सिताम् ।
रक्तां वा कृष्णवर्णां वा पाटलां कपिलां तथा ॥ १०३.१८६ ॥
कांस्यदोहनसंयुक्तां रुक्मखुरविभूषणाम् ।
स्वर्णशृङ्गीं सवत्सां च ब्राह्मणायोपपादयेत् ॥ १०३.१८७ ॥
प्रीयतां मे जगन्नाथा हरकृष्णपितामहाः ।
संसाररक्षणी देवी सुरभी मां समुद्धरेत् ॥ १०३.१८८ ॥
पुत्रार्थं याः स्त्रियः पार्थ ह्येरण्डीसङ्गमे नृप ।
स्नाप्यन्ते रुद्रसूक्तैश्च चतुर्वेदोद्भवैस्तथा ॥ १०३.१८९ ॥
चतुर्भिर्ब्राह्मणैः शस्तं द्वाभ्यां योग्यैश्च कारयेत् ।
एकेन सार्द्रकुम्भेन दाम्पत्यमभिषेचयेत् ॥ १०३.१९० ॥
दैवज्ञेनैव चैकेन अथवा सामगेन वा ।
पञ्चरत्नसमायुक्तं कुम्भे तत्रैव कारयेत् ॥ १०३.१९१ ॥
गन्धतोयसमायुक्तं सर्वौषधिविमिश्रितम् ।
आम्रपल्लवसंयुक्तमश्वत्थमधुकं तथा ॥ १०३.१९२ ॥
गुण्ठितं सितवस्त्रेण सितचन्दनचर्चितम् ।
सितपुष्पैस्तु संछन्नं सिद्धार्थकृतमध्यमम् ॥ १०३.१९३ ॥
कांस्यपात्रे तु संस्थाप्य पुत्रार्थी देशिकोत्तमः ।
अङ्गलग्नं तु यद्वस्त्रं कटकाभरणं तथा ॥ १०३.१९४ ॥
तत्सर्वं मण्डले त्याज्यं सिद्ध्यर्थं चात्मनस्तदा ।
प्रणम्य भास्करं पश्चादाचार्यं रुद्ररूपिणम् ॥ १०३.१९५ ॥
मधुरं च ततोऽश्नीयाद्देव्या भुवन उत्तमे ।
फलदानं च विप्राय छत्रं ताम्बूलमेव च ॥ १०३.१९६ ॥
उपानहौ च यानं च स भवेद्दुःखवर्जितः ।
भास्करे क्रीडते लोके यावदाभूतसम्प्लवम् ॥ १०३.१९७ ॥
दानं कोटिगुणं सर्वं शुभं वा यदि वाशुभम् ।
यथा नदीनदाः सर्वे सागरे यान्ति संक्षयम् ॥ १०३.१९८ ॥
एवं पापानि नश्यन्ति ह्येरण्डीसङ्गमे नृणाम् ।
समन्ताच्छस्त्रपातेन ह्येरण्डीसङ्गमे नृप ॥ १०३.१९९ ॥
भ्रूणहत्यासमं पापं नश्यते शङ्करोऽब्रवीत् ।
प्राणत्यागं च यो भक्त्या जातवेदसि कारयेत् ॥ १०३.२०० ॥
अनाशकं नृपश्रेष्ठ जले वा तदनन्तरम् ।
पञ्चसाहस्रिकं मानं वर्षाणां जातवेदसि ॥ १०३.२०१ ॥
जले त्रीणि सहस्राण्यनाशके षष्टिं भुञ्जते ।
काका बकाः कपोताश्च ह्युलूकाः पशवस्तथा ॥ १०३.२०२ ॥
संगमोदकसंस्पृष्टास्ते यान्ति परमां गतिम् ।
वृक्षाश्च तत्पदं ज्ञात्वा यां गतिं यान्ति योगिनः ॥ १०३.२०३ ॥
एरण्डिका मया देवी दृष्टो मे मन्मथेश्वरः ।
किं समर्थो यमो रुष्टो भद्रो भद्राणि पश्यति ॥ १०३.२०४ ॥
मृत्तिकां सङ्गमोद्भूतां ये च गुण्ठन्ति नित्यशः ।
भ्रूणहत्यादिपापानि नश्यन्ते नात्र संशयः ॥ १०३.२०५ ॥
एरण्डीसङ्गमे मर्त्यो लुण्ठ्यमानो नराधिप ।
सर्वपापैर्विनिर्मुक्तः पदं गच्छत्यनामयम् ॥ १०३.२०६ ॥
एरण्ड्याः सङ्गमं मर्त्याः कीर्तयन्त्याश्रमस्थिताः ।
विमुक्तपापा जायन्ते सत्यं शङ्करभाषितम् ॥ १०३.२०७ ॥
एरण्डीपादपाग्रैस्तु दृष्टैः पापं व्यपोहति ॥ १०३.२०८ ॥
तीर्थाख्यानमिदं पुण्यं ये पठिष्यन्ति मानवाः ।
शृण्वन्ति चापरे भक्त्या मुक्तपापा भवन्ति ते ॥ १०३.२०९ ॥
एतत्ते सर्वमाख्यातमेरण्डीसङ्गमं नृप ।
भूयश्चान्यत्प्रवक्ष्यामि सर्वपापक्षयंकरम् ॥ १०३.२१० ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एरण्डीसङ्गमतीर्थफलमाहात्म्यवर्णनं नाम त्र्यधिकशततमोऽध्यायः ॥