स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १००

विकिस्रोतः तः


अध्याय १००

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल तीर्थं परमरोचनम् ।
मार्कण्डेशमिति ख्यातं नर्मदादक्षिणे तटे ॥ १००.१ ॥
उत्तमं सर्वतीर्थानां गीर्वाणैर्वन्दितं शिवम् ।
गुह्याद्गुह्यतरं पुत्र नाख्यातं कस्यचिन्मया ॥ १००.२ ॥
स्थापितं तु मया पूर्वं स्वर्गसोपानसंनिभम् ।
ज्ञानं तत्रैव मे जातं प्रसादाच्छङ्करस्य च ॥ १००.३ ॥
अन्यस्तत्रैव यो गत्वा द्रुपदामन्तर्जले जपेत् ।
स पातकैरशेषश्च मुच्यते पाण्डुनन्दन ॥ १००.४ ॥
वाचिकैर्मानसैश्च वा कर्मजैरपि पातकैः ।
पिण्डिकां चाप्यवष्टभ्य याम्यामाशां च संस्थितः ॥ १००.५ ॥
योजयेच्छूलिनं भक्त्या द्वात्रिंशद्बहुरूपिणम् ।
देहपाते शिवं गच्छेदिति मे निश्चयो नृप ॥ १००.६ ॥
आज्येन बोधयेद्दीपमष्टम्यां निशि भारत ।
स्वर्गलोकमवाप्नोति इत्येवं शङ्करोऽब्रवीत् ॥ १००.७ ॥
श्राद्धं तत्रैव यो भक्त्या कुर्वीत नृपनन्दन ।
पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम् ॥ १००.८ ॥
इङ्गुदैर्बदरैर्बिल्वैरक्षतेन जलेन वा ।
तर्पयेत्तत्र यो वंश्यानाप्नुयाज्जन्मनः फलम् ॥ १००.९ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मार्कण्डेश्वरतीर्थमाहात्म्यवर्णनं नाम शततमोऽध्यायः ॥