स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०९७

विकिस्रोतः तः
Jump to navigation Jump to search



अध्याय ९७

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल व्यासतीर्थमनुत्तमम् ।
दुर्लभं मनुजैः पुण्यमन्तरिक्षे व्यवस्थितम् ॥ ९७.१ ॥

युधिष्ठिर उवाच -
कस्माद्वै व्यासतीर्थं तदन्तरिक्षे व्यवस्थितम् ।
एतदाख्याहि संक्षेपात्त्यज ग्रन्थस्य विस्तरम् ॥ ९७.२ ॥

श्रीमार्कण्डेय उवाच -
साधु साधु महाबाहो धर्मवान्साधुवत्सल ।
स्वकर्मनिरतः पार्थ तीर्थयात्राकृतादरः ॥ ९७.३ ॥
दुर्लभं सर्वजन्तूनां व्यासतीर्थं नरेश्वर ।
पीडितो वृद्धभावेन अकल्पोऽहं नृपात्मज ॥ ९७.४ ॥
विसंज्ञो गतवित्तस्तु संजातः स्मृतिवर्जितः ।
गुह्याद्गुह्यतरं तीर्थं नाख्यातं कस्यचिन्मया ॥ ९७.५ ॥
कलिस्तत्रैव राजेन्द्र न विशेद्व्याससंश्रयात् ।
अन्तरिक्षे तु संजातं रेवायाश्चेष्टितेन तु ॥ ९७.६ ॥
विरिञ्चिर्नैव शक्नोति रेवाया गुणकीर्तनम् ।
कथं ज्ञास्याम्यहं तात रेवामाहात्म्यमुत्तमम् ॥ ९७.७ ॥
व्यासतीर्थं विशेषेण लवमात्रं ब्रवीम्यतः ।
प्रत्यक्षः प्रत्ययो यत्र दृश्यतेऽद्य कलौ युगे ॥ ९७.८ ॥
विहङ्गो गच्छते नैव भित्त्वा शूलं सुदारुणम् ।
तस्योत्पत्तिं समासेन कथयामि नृपात्मज ॥ ९७.९ ॥
आसीत्पूर्वं महीपाल मुनिर्मान्यः पराशरः ।
तेनात्युग्रं तपश्चीर्णं गङ्गाम्भसि महाफलम् ॥ ९७.१० ॥
प्राणायामेन संतस्थौ प्रविष्टो जाह्नवीजले ।
पूर्णे द्वादशमे वर्षे निष्क्रान्तो जलमध्यतः ॥ ९७.११ ॥
भिक्षार्थी संचरेद्ग्रामं नावा यत्रैव तिष्ठति ।
तत्र तेन परा दृष्टा बाला चैव मनोहरा ॥ ९७.१२ ॥
तां दृष्ट्वा स च कामार्त उवाच मधुरं तदा ।
मां नयस्व परं पारं कासि त्वं मृगलोचने ॥ ९७.१३ ॥
नावारूढे नदीतीरे मम चित्तप्रमाथिनि ।
एवमुक्ता तु सा तेन प्रणम्य ऋषिपुंगवम् ॥ ९७.१४ ॥
कथयामास चात्मानं दृष्ट्वा तं काममोहितम् ।
कैवर्तानां गृहे दासी कन्याहं द्विजसत्तम ॥ ९७.१५ ॥
नावासंरक्षणार्थाय आदिष्टा स्वामिना विभो ।
मया विज्ञापितं वृत्तमशेषं ज्ञातुमर्हसि ॥ ९७.१६ ॥
एवमुक्तस्तया सोऽथ क्षणं ध्यात्वाब्रवीदिदम् ॥ ९७.१७ ॥

पराशर उवाच -
अहं ज्ञानबलाद्भद्रे तव जानामि सम्भवम् ।
कैवर्तपुत्रिका न त्वं राजकन्यासि सुन्दरि ॥ ९७.१८ ॥

कन्योवाच -
कः पिता कथ्यतां ब्रह्मन्कस्या वा ह्युदरोद्भवा ।
कस्मिन्वंशे प्रसूताहं कैवर्ततनया कथम् ॥ ९७.१९ ॥

पराशर उवाच -
कथयामि समस्तं यत्त्वया पृष्टमशेषतः ।
वसुर्नामेति भूपालः सोमवंशविभूषणः ॥ ९७.२० ॥
जम्बूद्वीपाधिपो भद्रे शत्रूणां भयवर्धनः ।
शतानि सप्त भार्याणां पुत्राणां च दशैव तु ॥ ९७.२१ ॥
धर्मेण पालयेल्लोकानीशवत्पूज्यते सदा ।
म्लेच्छास्तस्याविधेयाश्च क्षीरद्वीपनिवासिनः ॥ ९७.२२ ॥
तेषामुत्सादनार्थाय ययावुल्लङ्घ्य सागरम् ।
संयुक्तः पुत्रभृत्यैश्च पौरुषे महति स्थितैः ॥ ९७.२३ ॥
समरं तैः समारब्धं म्लेच्छैश्च वसुना सह ।
जिता म्लेच्छाः समस्तास्ते वसुना मृगलोचने ॥ ९७.२४ ॥
करदास्ते कृतास्तेन सपुत्रबलवाहनाः ।
प्रधाना तस्य सा राज्ञी तव माता मृगेक्षणे ॥ ९७.२५ ॥
प्रवासस्थे महीपाले संजाता सा रजस्वला ।
नारीणां तु सदाकालं मन्मथो ह्यधिको भवेत् ॥ ९७.२६ ॥
विशेषेण ऋतोः काले भिद्यन्ते कामसायकैः ।
मन्मथेन तु संतप्ताचिन्तयत्सा शुभेक्षणा ॥ ९७.२७ ॥
दूतं वै प्रेषयाम्यद्य वसुराज्ञः समीपतः ।
आहूतः सत्वरं दूत गच्छ त्वं नृपसन्निधौ ॥ ९७.२८ ॥

दूत उवाच -
परतीरं गतो देवि वसुराजारिशासनः ।
तत्र गन्तुमशक्येत जलयानैर्विना शुभे ॥ ९७.२९ ॥
तानि यानानि सर्वाणि गृहीतानि परे तटे ।
दूतवाक्येन सा राज्ञी विषण्णा कामपीडिता ॥ ९७.३० ॥
तत्सखी तामुवाचाथ कस्मात्त्वं परितप्यसे ।
स्वलेखः प्रेष्यतां देवि शुकहस्ते यथार्थतः ॥ ९७.३१ ॥
समुद्रं लङ्घयित्वा तु शकुन्ता यान्ति सुन्दरि ।
सखिवाक्येन सा राज्ञी स्वस्था जाता नराधिप ॥ ९७.३२ ॥
व्याहृतो लेखकस्तत्र लिख लेखं ममाज्ञया ।
त्वद्धीना सत्यभामाद्य वसो राजन्न जीवति ॥ ९७.३३ ॥
ऋतुकालोऽद्य संजातो लिख लेखं तु लेखकं ।
लिखिते भूर्जपत्रे तु लेखे वै लेखकेन तु ॥ ९७.३४ ॥
शुकः पञ्जरमध्यस्थ आनीतोद्धैव सन्निधौ ॥ ९७.३५ ॥

सत्यभामोवाच -
नीत्वा लेखं गच्छ शीघ्रं वसुराज्ञः समीपतः ।
शकुनिः प्रणतो भूत्वा गृहीत्वा लेखमुत्तमम् ॥ ९७.३६ ॥
उत्पत्य सहसा राजञ्जगामाकाशमण्डलम् ।
ततः पक्षी गतः शीघ्रं वसुराजसमीपतः ॥ ९७.३७ ॥
क्षिप्ते लेखे शुकेनैव सत्यभामाविसर्जिते ।
वसुराज्ञा ततो लेखो गृह्य हस्तेऽवधारितः ॥ ९७.३८ ॥
लेखार्थं चिन्तयित्वा तु गृह्य वीर्यं नरेश्वरः ।
अमोघं पुटिकां कृत्वा प्रतिलेखेन मिश्रितम् ॥ ९७.३९ ॥
शुकस्य सोऽपयामास गच्छ राज्ञीसमीपतः ।
प्रणम्य वसुराजानं बीजं गृह्योत्पपात ह ॥ ९७.४० ॥
समुद्रोपरि सम्प्राप्तः शुकः श्येनेन वीक्षितः ।
सामिषं तं शुकं ज्ञात्वा श्येनस्तमभ्यधावत ॥ ९७.४१ ॥
हतश्चञ्चुप्रहारेण शुकः श्येनेन भारत ।
मूर्च्छया तस्य तद्बीजं पतितं सागराम्भसि ॥ ९७.४२ ॥
मत्स्येन गिलितं तच्च बीजं वसुमहीपतेः ।
कन्या मत्स्योदरे जाता तेन बीजेन सुन्दरि ॥ ९७.४३ ॥
प्राप्तोऽसौ लुब्धकैर्मत्स्य आनीतः स्वगृहं ततः ।
यावद्विदारितो मत्स्यस्तावद्दृष्टा त्वमुत्तमे ॥ ९७.४४ ॥
शशिमण्डलसङ्काशा सूर्यतेजःसमप्रभा ।
दृष्ट्वा त्वां हर्षिताः सर्वे कैवर्ता जाह्नवीतटे ॥ ९७.४५ ॥
हर्षितास्ते गताः सर्वे प्रधानस्य च मन्दिरम् ।
स्त्रीरत्नं कथयामासुर्गृहाण त्वं महाप्रभम् ॥ ९७.४६ ॥
गृहीता तेन तन्वङ्गी ह्यपुत्रेण मृगेक्षणा ।
भार्यां स्वामाह तन्वङ्गि पालयस्व मृगेक्षणे ॥ ९७.४७ ॥
ततः सा चिन्तयामास पराशरवचस्तदा ।
एवमुक्त्वा तु सा तेन दत्तात्मानं नरेश्वर ॥ ९७.४८ ॥
उवाच साधु मे ब्रह्मन्मत्स्यगन्धोऽनु वर्तते ।
ततस्तेन तु सा बाला दिव्यगन्धाधिवासिता ॥ ९७.४९ ॥
कृता योगबलेनैव ज्वालयित्वा विभावसुम् ।
कृत्वा प्रदक्षिणं वह्निमूढा तेन रसात्तदा ॥ ९७.५० ॥
जलयानस्य मध्ये तु कामस्थानान्यसंस्पृशत् ।
ज्ञात्वा कामोत्सुकं विप्रं भीता सा धर्मनन्दन ॥ ९७.५१ ॥
हसन्ती तमुवाचाथ देव त्वं लोकसन्निधौ ।
न लज्जसे कथं धीमन्कुर्वाणः पामरोचितम् ॥ ९७.५२ ॥
ततस्तेन क्षणं ध्यात्वा संस्मृता हृदि तामसी ।
आगता तामसी माया यया व्याप्तं चराचरम् ॥ ९७.५३ ॥
ततः सा विस्मिता तेन कर्मणैव तु रञ्जिता ।
ब्रह्मचर्याभितप्तेन स्त्रीसौख्यं क्रीडितं तदा ॥ ९७.५४ ॥
ततः सा तत्क्षणादेव गर्भभारेण पीडिता ।
प्रसूता बालकं तत्र जटिलं दण्डधारिणम् ॥ ९७.५५ ॥
कमण्डलुधरं शान्तं मेखलाकटिभूषितम् ।
उत्तरीयकृतस्कन्धं विष्णुमायाविवर्जितम् ॥ ९७.५६ ॥
ततोऽपि शङ्किता पार्थ दृष्ट्वा तं कलबालकम् ।
वेपमाना ततो बाला जगाम शरणं मुनेः ॥ ९७.५७ ॥
रक्ष रक्ष मुनिश्रेष्ठ पराशर महामते ।
जातं मेऽत्यद्भुतं पुत्रं कौपीनवरमेखलम् ।
दण्डहस्तं जटायुक्तमुत्तरीयविभूषितम् ॥ ९७.५८ ॥

पराशर उवाच -
मा भैषीः स्वसुते जाते कुमारी त्वं भविष्यसि ।
नाम्ना योजनगन्धेति द्वितीयं सत्यवत्यपि ॥ ९७.५९ ॥
शंतनुर्नाम राजा यः स ते भर्ता भविष्यति ।
प्रथमा महिषी तस्य सोमवंशविभूषणा ॥ ९७.६० ॥
गच्छ त्वं स्वाश्रयं शुभ्रे पूर्वरूपेण संस्थिता ।
मा विषादं कुरुष्वात्र दृष्टं ज्ञानस्य मे बलम् ॥ ९७.६१ ॥
इत्युक्त्वा प्रययौ विप्रः सा बाला पुत्रमाश्रिता ।
नत्वोचे मातरं भक्त्या साष्टाङ्गं विनयानतः ॥ ९७.६२ ॥
क्षम्यतां मातरुक्तं मे प्रसादः क्रियतामपि ।
ईश्वराराधने यत्नं करिष्याम्यहमम्बिके ॥ ९७.६३ ॥
ततः सा पुत्रवाक्येन विषण्णा वाक्यमब्रवीत् ॥ ९७.६४ ॥

योजनगन्धोवाच -
मा त्यक्त्वा गच्छ वत्साद्य मातरं मामनागसम् ।
त्वद्वियोगेन मे पुत्र पञ्चत्वं भाव्यसंशयम् ॥ ९७.६५ ॥
नास्ति पुत्रसमः स्नेहो नास्ति भ्रातृसमं कुलम् ।
नास्ति सत्यपरो धर्मो नानृतात्पातकं परम् ॥ ९७.६६ ॥
बालभावे मया जात आधारः किल जायसे ।
न मे भर्ता न मे पुत्रः पश्य कर्मविडम्बनम् ॥ ९७.६७ ॥

व्यास उवाच -
मा विषादं कुरुष्वान्तः सत्यमेतन्मयोरितम् ।
आपत्कालेऽस्मि ते देवि स्मर्तव्यः कार्यसिद्धये ॥ ९७.६८ ॥
आपदस्तारयिष्यामि क्षम्यतां मे दुरुत्तरम् ।
इत्युक्त्वा प्रययौ व्यासः कन्या सापि गता गृहम् ॥ ९७.६९ ॥
पराशरसुतस्तत्र विषष्णो वनमध्यतः ।
त्रेतायुगावसाने तु द्वापरादौ नरेश्वर ॥ ९७.७० ॥
व्यासार्थं चिन्तयामासुर्देवाः शक्रपुरोगमाः ।
आख्यातो नारदेनैव पुत्रः पराशरस्य सः ॥ ९७.७१ ॥
कैवर्तपुत्रिकाजातो ज्ञानी जह्नुसुतातटे ।
ततो नारदवाक्येन आगताः सुरसत्तमाः ॥ ९७.७२ ॥
रामः पितामहः शक्रो मुनिसङ्घैः समावृताः ।
आस्यादिकं पृथग्दत्त्वा साधु साध्वित्युदीरयन् ॥ ९७.७३ ॥
पितामहेन वै बालो गर्भाधानादिसंस्कृतः ।
द्वीपायनो द्वीपजन्मा पाराशर्यः पराशरात् ॥ ९७.७४ ॥
कृष्णांशात्कृष्णनामायं व्यासो वेदान्व्यसिष्यति ।
विरञ्चिनाभिषिक्तोऽसौ मुनिसङ्घैः पुनःपुनः ॥ ९७.७५ ॥
व्यासस्त्वं सर्वलोकेषु इत्युक्त्वा प्रययुः सुराः ।
तीर्थयात्रा समारब्धा कृष्णद्वैपायनेन तु ॥ ९७.७६ ॥
गङ्गावगाहिता तेन केदारश्च सपुष्करः ।
गया च नैमिषं तीर्थं कुरुक्षेत्रं सरस्वती ॥ ९७.७७ ॥
उज्जयिन्यां महाकालं सोमनाथं प्रभासके ।
पृथिव्यां सागरान्तायां स्नात्वा यातो महामुनिः ॥ ९७.७८ ॥
अमृतां नर्मदां प्राप्तो रुद्रदेहोद्भवां शुभाम् ।
साह्लादो नर्मदां दृष्ट्वा चित्तविश्रान्तिमाप च ॥ ९७.७९ ॥
तपश्चचार विपुलं नर्मदातटमाश्रितः ।
ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ॥ ९७.८० ॥
सार्द्रवासाश्च हेमन्ते तिष्ठन्दध्यौ महेश्वरम् ।
स्वान्तर्हृत्कमले स्थाप्य ध्यायते परमेश्वरम् ॥ ९७.८१ ॥
सृष्टिसंहारकर्तारमछेद्यं वरदं शुभम् ।
नित्यं सिद्धेश्वरं लिङ्गं पूजयेद्ध्यानतत्परः ॥ ९७.८२ ॥
अर्चनात्सिद्धलिङ्गस्य ध्यानयोगप्रभावतः ।
प्रत्यक्षः शङ्करो जातः कृष्णद्वैपायनस्य सः ॥ ९७.८३ ॥

ईश्वर उवाच -
तोषितोऽहं त्वया वत्स वरं वरय शोभनम् ॥ ९७.८४ ॥

व्यास उवाच -
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ।
प्रत्यक्षो नर्मदातीरे स्वयमेव भविष्यसि ।
अतीतानागतज्ञोऽहं त्वत्प्रसादादुमापते ॥ ९७.८५ ॥

ईश्वर उवाच -
एवं भवतु ते पुत्र मत्प्रसादादसंशयम् ।
त्वयि भक्तिगृहीतोऽहं प्रत्यक्षो नर्मदातटे ॥ ९७.८६ ॥
सहस्रांशार्धभावेन प्रत्यक्षोऽहं त्वदाश्रमे ।
इत्युक्त्वा प्रययौ देवः कैलासं नगमुत्तमम् ॥ ९७.८७ ॥
पत्नीसंग्रहणं जातं कृष्णद्वैपायनस्य तु ।
शास्त्रोक्तेन विधानेन पत्नी पालयतस्तथा ॥ ९७.८८ ॥
पुत्रो जातो ह्यपुत्रस्य पराशरसुतस्य च ।
देवैर्वर्धापितः सर्वैरिञ्चेन्द्रपुरोगमैः ॥ ९७.८९ ॥
पुत्रजन्मन्यथाजग्मुर्वशिष्ठाद्या मुनीश्वराः ।
तीर्थयात्राप्रसङ्गेन पराशरपुरोगमाः ॥ ९७.९० ॥
मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः ।
यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ॥ ९७.९१ ॥
एवमादिसहस्राणि लक्षकोटिशतानि च ।
सशिष्याश्च महाभागा नर्मदातटमाश्रिताः ॥ ९७.९२ ॥
व्यासाश्रमे शुभे रम्ये संतुष्टा आययुर्नृप ।
दृष्ट्वा तान्सोऽपि विप्रेन्द्रानभ्युत्थानकृतोद्यमः ॥ ९७.९३ ॥
पितुः पूर्वं प्रणम्यादौ सर्वेषां च यथाविधि ।
आसनानि ददौ भक्त्या पाद्यमर्घं न्यवेदयत् ॥ ९७.९४ ॥
कृताञ्जलिपुटो भूत्वा वाक्यमेतदुवाच ह ।
उद्धृतोऽहं न सन्देहो युष्मत्सम्भाषणार्चनात् ॥ ९७.९५ ॥
आरण्यानि च शाकानि फलान्यारण्यजानि च ।
तानि दास्यामि युष्माकं सर्वेषां प्रीतिपूर्वकम् ॥ ९७.९६ ॥
न्यमन्त्रयत तान्सर्वान्प्रत्येकं प्रणिपत्य च ।
ततस्ते प्रणतं दृष्ट्वा कृष्णद्वैपायनं मुनिम् ॥ ९७.९७ ॥
वर्धयित्वा जयाशीर्भिरवलोक्य परस्परम् ।
पराशरः समस्तैश्च वीक्षितो मुनिपुंगवैः ॥ ९७.९८ ॥
उत्तरं दीयतां तात कृष्णद्वैपायनस्य च ।
एवमुक्तस्तु तैः सर्वैर्भगवान्स पराशरः ।
प्रोवाच स्वात्मजं व्यासमृषीणां यच्चिकीर्षितम् ॥ ९७.९९ ॥

श्रीपराशर उवाच -
नेच्छन्ति दक्षिणे कूले व्रतभङ्गभयादथ ।
भोजनं भोक्तुकामास्ते श्राद्धे चैव विशेषतः ॥ ९७.१०० ॥

व्यास उवाच -
करोमि भवतामुक्तमत्रैव स्थीयतां क्षणम् ।
यावत्प्रसाद्य सरितं करोमि विधिमुत्तमम् ॥ ९७.१०१ ॥
एवमुक्त्वा शुचिर्भूत्वा नर्मदातटमास्थितः ।
स्तोत्रं जगाद सहसा तन्निबोध नरेश्वर ॥ ९७.१०२ ॥
जय भगवति देवि नमो वरदे जय पापविनाशिनी बहुफलदे ।
जय शुम्भनिशुम्भकपालधरे प्रणमामि तु देवनरार्तिहरे ॥ ९७.१०३ ॥
जय चन्द्रदिवाकरनेत्रधरे जय पावकभूषितवक्त्रवरे ।
जय भैरवदेहनिलीनपरे जय अन्धकरक्तविशोषकरे ॥ ९७.१०४ ॥
जय महिषविमर्दिनि शूलकरे जय लोकसमस्तकपापहरे ।
जय देवि पितामहरामनते जय भास्करशक्रशिरोऽवनते ॥ ९७.१०५ ॥
जय षण्मुखसायुध ईशनुते जय सागरगामिनि शम्भुनुते ।
जय दुःखदरिद्रविनाशकरे जय पुत्रकलत्रविवृद्धिकरे ॥ ९७.१०६ ॥
जय देवि समस्तशरीरधरे जय नाकविदर्शिनि दुःखहरे ।
जय व्याधिविनाशिनि मोक्षकरे जय वाञ्छितदायिनि सिद्धवरे ॥ ९७.१०७ ॥
एतद्व्यासकृतं स्तोत्रं यः पठेच्छिवसन्निधौ ।
गृहे वा शुद्धभावेन कामक्रोधविवर्जितः ॥ ९७.१०८ ॥
तस्य व्यासो भवेत्प्रीतः प्रीतश्च वृषवाहनः ।
प्रीता स्यान्नर्मदा देवी सर्वपापक्षयंकरी ॥ ९७.१०९ ॥
न ते यान्ति यमालोकं यैः स्तुता भुवि नर्मदा ।
पितामहोऽपि मुह्येत देवि त्वद्गुणकीर्तनात् ॥ ९७.११० ॥
वाक्पतिर्नैव ते वक्तुं स्वरूपं वेद नर्मदे ।
कथं गुणानहं देवि त्वदीयाञ्ज्ञातुमुत्सहे ॥ ९७.१११ ॥
इति ज्ञात्वा शुचिं भावं वाङ्मनःकायकर्मभिः ।
प्रसन्ना नर्मदादेवी ततो वचनमब्रवीत् ॥ ९७.११२ ॥
सत्यवादेन तुष्टाहं भोभो व्यास महामुने ।
यदीच्छसि वरं किंचित्तं ते सर्वं ददाम्यहम् ॥ ९७.११३ ॥

व्यास उवाच -
यदि तुष्टासि मे देवि यदि देयो वरो मम ।
आतिथ्यमुत्तरे कूले ऋषीणां दातुमर्हसि ॥ ९७.११४ ॥

नर्मदोवाच -
अयुक्तं याचितं व्यास विमार्गे यत्प्रवर्तनम् ।
इन्द्रचन्द्रयमैः शक्यमुन्मार्गे न प्रवर्तितुम् ॥ ९७.११५ ॥
याचस्वान्यं वरं पुत्र यत्किंचिद्भुवि दुर्लभम् ।
एतच्छ्रुत्वा वचो देव्या व्यासो मूर्च्छां यतस्तदा ॥ ९७.११६ ॥
वृथा क्लेशोऽद्य मे जात इति मत्वा पपात ह ।
धरणी चलिता सर्वा सशैलवनकानना ॥ ९७.११७ ॥
मूर्च्छापन्नं ततो व्यासं दृष्ट्वा देवाः सवासवाः ।
हाहाकारमुखाः सर्वे तत्राजग्मुः सहस्रशः ॥ ९७.११८ ॥
व्यासमुत्थापयामासुर्वेदव्यसनतत्परम् ।
ब्राह्मणार्थे च संक्लिष्टो नात्महेतोः सरिद्वरे ॥ ९७.११९ ॥
गवार्थे ब्राह्मणार्थे च सद्यः प्राणान्परित्यजेत् ।
एवं सा नर्मदा प्रोक्ता ब्रह्माद्यैः सुरसत्तमैः ॥ ९७.१२० ॥
सुशीतलैस्तं बहुभिश्च वातैर्रेवाभ्यषिञ्चत्स्वजलेन भीता ।
सचेतनः सत्यवतीसुतोऽपि प्रणम्य देवान्सरितं जगाद ॥ ९७.१२१ ॥

व्यास उवाच -
तीर्थैः समस्तैः किल सेवनाय फलं प्रदिष्टं मम मन्दभाग्यात् ।
यद्देवि पुण्या विफला ममाशा आरण्यपुष्पाणि यथा जनानाम् ॥ ९७.१२२ ॥

नर्मदोवाच -
यतो यतो मां हि महानुभाव निनीषते चित्तमिलातलेऽत्र ।
विन्ध्येन सार्द्धं तव मार्गमद्य यास्याम्यहं दण्डधरस्य पृष्ठे ॥ ९७.१२३ ॥
एवमुक्तो महातेजा व्यासः सत्यवतीसुतः ।
दक्षिणे चालयामास स्वाश्रमस्य सरिद्वराम् ॥ ९७.१२४ ॥
दण्डहस्तो महातेजा हुङ्कारमकरोन्मुनिः ।
व्यासहुङ्कारभीता सा चलिता रुद्रनन्दिनी ॥ ९७.१२५ ॥
दण्डेन दर्शयन्मार्गं देवी तत्र प्रवर्तिता ।
व्यासमार्गं गता देवी दृष्टा शक्रपुरोगमैः ॥ ९७.१२६ ॥
पुष्पवृष्टिं ततो देवा व्यमुञ्चन् सह किंकरैः ।
किं कुर्मो ब्रूहि मे पुत्र कर्मणा ते स्म रञ्जिताः ॥ ९७.१२७ ॥

व्यास उवाच -
तपश्च विपुलं कृत्वा दानं दत्त्वा महाफलम् ।
एतदेव नरैः कार्यं साधूनां यत्सुखावहम् ॥ ९७.१२८ ॥
यदि तुष्टा महाभागा अनुग्राह्यो ह्यहं यदि ।
तस्मान्ममाश्रमे सर्वैः स्थीयतां नात्र संशयः ॥ ९७.१२९ ॥
आतिथ्यं शाकपर्णेन रेवामृतविमिश्रितम् ।
प्रतिपन्नं समस्तैर्वः पराशरमुखैर्मम ।
स्थातव्यं स्वाश्रमे सर्वैर्रेवाया उत्तरे तटे ॥ ९७.१३० ॥

मार्कण्डेय उवाच -
स्नानतर्पणनित्यानि कृतानि द्विजसत्तमैः ।
व्यासकुण्डे ततो गत्वा होमः सर्वैः प्रकल्पितः ॥ ९७.१३१ ॥
श्रीफलैर्बिल्वपत्रैश्च जुहुवुर्जातवेदसम् ।
गौतमो भृगुर्माण्डव्यो नारदो लोमशस्तथा ॥ ९७.१३२ ॥
पराशरस्तथा शङ्खः कौशिकश्च्यवनो मुनिः ।
पिप्पलादो वसिष्ठश्च नाचिकेतो महातपाः ॥ ९७.१३३ ॥
विश्वामित्रोऽप्यगस्त्यश्च उद्दालकयमौ तथा ।
शाण्डिल्यो जैमिनिः कण्वो याज्ञवल्क्योशनोऽङ्गिराः ॥ ९७.१३४ ॥
शातातपो दधीचिश्च कपिलो गालवस्तथा ।
जैगीषव्यस्तथा दक्षो भरतो मुद्गलस्तथा ॥ ९७.१३५ ॥
वात्स्यायनो महातेजाः संवर्तः शक्तिरेव च ।
जातूकर्ण्यो भरद्वाजो वालखिल्यारुणिस्तथा ॥ ९७.१३६ ॥
एवमादिसहस्राणि जुह्वते जातवेदसम् ।
अक्षमालाकरोत्कीर्णा ध्यानयोगपरायणाः ॥ ९७.१३७ ॥
एकचित्ता द्विजाः सर्वे चक्रुर्होमक्रियां तदा ।
ततः समुत्थितं लिङ्गं मोक्षदं व्याधिनाशनम् ॥ ९७.१३८ ॥
अच्छेद्यं परमं देवं दृष्ट्वा व्यासस्तुतोष च ।
पुष्पवृष्टिं ददुर्देवा आशीर्वादान्द्विजोत्तमाः ॥ ९७.१३९ ॥
साष्टाङ्गं प्रणतो व्यासो देवं दृष्ट्वा त्रिलोचनम् ।
ब्राह्मणान्पूजयामास शाकमूलफलेन च ॥ ९७.१४० ॥
पितृपूर्वं द्विजाः सर्वे भोजिताः पाण्डुनन्दन ।
आशीर्वादांस्ततः पुण्यान् दत्त्वा विप्रा ययुः पुनः ॥ ९७.१४१ ॥
तदा प्रभृति तत्तीर्थं व्यासाख्यं प्रोच्यते बुधैः ॥ ९७.१४२ ॥

युधिष्ठिर उवाच -
व्यासतीर्थस्य यत्पुण्यं तत्सर्वं कथयस्व मे ।
स्नानदानविधानं च यस्मिन्काले महाफलम् ॥ ९७.१४३ ॥

श्रीमार्कण्डेय उवाच -
कथयामि समस्तं ते भ्रातृभिः सह पाण्डव ।
कार्त्तिकस्य सिते पक्षे चतुर्दश्यां जितेन्द्रियः ॥ ९७.१४४ ॥
उपोष्य यो नरो भक्त्या रात्रौ कुर्वीत जागरम् ।
स्नापयेदीश्वरं भक्त्या क्षौद्रक्षीरेण सर्पिषा ॥ ९७.१४५ ॥
दध्ना च खण्डयुक्तेन कुशतोयेन वै पुनः ।
श्रीखण्डेन सुगन्धेन गुण्ठयेत्परमेश्वरम् ॥ ९७.१४६ ॥
ततः सुगन्धकुसुमैर्बिल्वपत्रैश्च पूजयेत् ।
मुचुकुन्देन कुन्देन कुशजातीप्रसूनकैः ॥ ९७.१४७ ॥
उन्मत्तमुनिपुष्पैश्च तथान्यैः कालसम्भवैः ।
अर्चयेत्परया भक्त्या द्वीपेश्वरमनुत्तमम् ॥ ९७.१४८ ॥
इक्षुगडुकदानेन तुष्यते परमेश्वरः ।
गडुकाष्टकदानेन पातकं यात्यहोर्जितम् ॥ ९७.१४९ ॥
मासर्जितं च नश्येत गडुकाष्टशतेन च ।
षाण्मासिकं सहस्रेण द्विगुणैरब्दिकं तथा ॥ ९७.१५० ॥
आजन्मजनितं पापमयुतेन प्रणश्यति ।
द्विगुणैर्नश्यते व्याधिस्त्रिगुणैः स्याद्धनागमः ॥ ९७.१५१ ॥
षड्गुणैर्जायते वाग्मी सिद्धस्तद्द्विगुणैस्तथा ।
रुद्रत्वं दशलक्षैश्च जायते नात्र संशयः ॥ ९७.१५२ ॥
पौर्णमास्यां नृपश्रेष्ठ स्नानं कुर्वीत भक्तितः ।
मन्त्रोक्तेन विधानेन सर्वपापक्षयंकरम् ॥ ९७.१५३ ॥
वारुणं च तथाग्नेयं ब्राह्मयं चैवाक्षयंकरम् ।
देवान्पित्ःन्मनुष्यांश्च विधिवत्तर्पयेद्बुधः ॥ ९७.१५४ ॥
ऋचा ऋग्वेदजं पुण्यं साम्ना सामफलं लभेत् ।
यजुर्वेदस्य यजुषा गायत्र्या सर्वमाप्नुयात् ॥ ९७.१५५ ॥
अक्षरं च जपेन्मन्त्रं सौरं वा शिवदैवतम् ।
अथवा वैष्णवं मन्त्रं द्वादशाक्षरसंज्ञितम् ॥ ९७.१५६ ॥
पूजयेद्ब्राह्मणान्भक्त्या सर्वलक्षणलक्षितान् ।
स्वदारनिरतान्विप्रान्दम्भलोभविवर्जितान् ॥ ९७.१५७ ॥
भिन्नवृत्तिकरान् पापान् पतिताञ्छूद्रसेवनान् ।
शूद्रीग्रहणसंयुक्तान्वृषली यस्य मन्दिरे ॥ ९७.१५८ ॥
परोक्षवादिनो दुष्टान्गुरुनिन्दापरायणान् ।
वेदद्वेषणशीलांश्च हैतुकान् बकवृत्तिकान् ॥ ९७.१५९ ॥
ईदृशान्वर्जयेच्छ्राद्धे दाने सर्वव्रतेषु च ।
गायत्रीसारमात्रोऽपि वरं विप्रः सुयन्त्रितः ॥ ९७.१६० ॥
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी ।
ईदृशान्पूजयेद्विप्रानन्नदानहिरण्यतः ॥ ९७.१६१ ॥
उपानहौ च वस्त्राणि शय्यां छत्रमथासनम् ।
यो दद्याद्ब्राह्मणे भक्त्या सोऽपि स्वर्गे महीयते ॥ ९७.१६२ ॥
प्रत्यक्षा सुरभी तत्र जलधेनुस्तथाघृता ।
तिलधेनुः प्रदातव्या महिष्यश्च तथैव च ॥ ९७.१६३ ॥
कृष्णाजिनप्रदाता यो दाता यस्तिलसर्पिषोः ।
कन्यापुस्तकयोर्दाता सोऽक्षयं लोकमाप्नुयात् ॥ ९७.१६४ ॥
धूर्वाहौ खुरसंयुक्तौ धान्योपस्करसंयुतौ ।
दापयेत्स्वर्गकामस्तु इति मे सत्यभाषितम् ॥ ९७.१६५ ॥
सूत्रेण वेष्टयेद्द्वीपमथवा जगतीं शुभम् ।
मन्दिरं परया भक्त्या परमेशमथापि वा ॥ ९७.१६६ ॥
प्रदक्षिणां विधानेन यः करोत्यत्र मानवः ।
जम्बूप्लाक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो नृप ॥ ९७.१६७ ॥
कुशः क्रौञ्चस्तथा काशः पुष्करश्चैव सप्तमः ।
सप्तसागरपर्यन्ता वेष्टिता तेन भारत ॥ ९७.१६८ ॥
द्वीपेश्वरे महाराज वृषोत्सर्गं च कारयेत् ।
वृषेणारुणवर्णेन माहेशं लोकमाप्नुयात् ॥ ९७.१६९ ॥
यस्तु वै पाण्डुरो वक्त्रे ललाटे पादयोस्तथा ।
लाङ्गूले यस्तु वै शुभ्रः स वै नाकस्य दर्शकः ॥ ९७.१७० ॥
नीलोऽयमीदृशः प्रोक्तो यस्तु द्वीपेश्वरे त्यजेत् ।
स समाः रोमसंख्याता नाके वसति भारत ॥ ९७.१७१ ॥
सौरं च शांकरं लोकं वैरञ्चं वैष्णवं क्रमात् ।
भुनक्ति स्वेच्छया राजन्व्यासतीर्थप्रभावतः ॥ ९७.१७२ ॥
सपत्नीकं ततो विप्रं पूजयेत्तत्र भक्तितः ।
सितरक्तानि वस्त्राणि यो दद्यादग्रजन्मने ॥ ९७.१७३ ॥
कृत्वा प्रदक्षिणं युग्मं प्रीयतां मे जगद्गुरुः ।
नास्ति विप्रसमो बन्धुरिह लोके परत्र च ॥ ९७.१७४ ॥
यमलोके महाघोरे पतन्तं योऽभिरक्षति ।
इतिहासपुराणज्ञं विष्णुभक्तं जितेन्द्रियम् ॥ ९७.१७५ ॥
पूजयेत्परया भक्त्या सामगं वा विशेषतः ।
द्वीपेश्वरं च ये भक्त्या संस्मरन्ति गृहे स्थिताः ॥ ९७.१७६ ॥
न तेषां जायते शोको न हानिर्न च दुष्कृतम् ।
प्रथमं पूजयेत्तत्र लिङ्गं सिद्धेश्वरं ततः ॥ ९७.१७७ ॥
यत्र सिद्धो महाभागो व्यासः सत्यवतीसुतः ।
अस्यैव पूजनात्सिद्धो धारासर्पो महामतिः ॥ ९७.१७८ ॥
तत्र तीर्थे तु यो राजन्प्राणत्यागं करोति च ।
सूर्यलोकमसौ भित्त्वा प्रयाति शिवसन्निधौ ॥ ९७.१७९ ॥
समाः सहस्राणि च सप्त वै जले दशैकमग्नौ पतने च षोडश ।
महाहवे षष्टिरशीति गोग्रहे ह्यनाशके भारत चाक्षया गतिः ॥ ९७.१८० ॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
वायुभूतं निरीक्षन्ते ह्यागच्छन्तं स्वगोत्रजम् ॥ ९७.१८१ ॥
अस्मद्गोत्रेऽस्ति कः पुत्रो यो नो दद्यात्तिलोदकम् ।
कार्त्तिक्यां च विशेषेण वेशाख्यां वा तथैव च ॥ ९७.१८२ ॥
स्वर्गतिं च प्रयास्यामस्तत्र तीर्थोपसेवनात् ।
एतत्ते कथितं सर्वं द्वीपेश्वरमनुत्तमम् ॥ ९७.१८३ ॥
यः पठेत्परया भक्त्या शृणुयात्तद्गतो नृप ।
सोऽपि पापविनिर्मुक्तो मोदते शिवमन्दिरे ॥ ९७.१८४ ॥
ऊषरं सर्वतीर्थानां निर्मितं मुनिपुंगवैः ।
कामप्रदं नृपश्रेष्ठ व्यासतीर्थं न संशयः ॥ ९७.१८५ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे व्यासतीर्थमाहात्म्यवर्णनं नाम सप्तनवतितमोऽध्यायः ॥