स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०९२

विकिस्रोतः तः
Jump to navigation Jump to search


श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र यमहास्यमनुत्तमम् ।
सर्वपापहरं तीर्थं नर्मदातटमाश्रितम् ॥ ९२.१ ॥

युधिष्ठिर उवाच -
यमहास्यं कथं जातं पृथिव्यां द्विजपुंगव ।
एतत्सर्वं ममाख्याहि परं कौतूहलं हि मे ॥ ९२.२ ॥

श्रीमार्कण्डेय उवाच -
साधु साधु महाप्राज्ञ पृष्टोऽहं नृपनन्दन ।
स्नानार्थं नर्मदां पुण्यामागतस्ते पिता पुरा ॥ ९२.३ ॥
रजकेन यथा धौतं वस्त्रं भवति निर्मलम् ।
तथासौ निर्मलो जातो धर्मराजो युधिष्ठिर ॥ ९२.४ ॥
स पश्यन्निर्मलं देहं हसन्प्रोवाच विस्मितः ॥ ९२.५ ॥

यम उवाच -
मत्पुरं कथमायान्ति मनुजाः पापबृंहिताः ।
स्नानेनैकेन रेवायाः प्राप्यते वैष्णवं पदम् ॥ ९२.६ ॥
समर्था ये न पश्यन्ति रेवां पुण्यजलां शुभाम् ।
जात्यन्धैस्ते समा ज्ञेया मृतैः पङ्गुभिरेव वा ॥ ९२.७ ॥
समर्था ये न पश्यन्ति रेवां पुण्यजलां नदीम् ।
एतस्मात्कारणाद्राजन्हसितो लोकशासनः ॥ ९२.८ ॥
स्थापयित्वा यमस्तत्र देवं स्वर्गं जगाम ह ।
यमहासेश्वरे राजञ्जितक्रोधो जितेन्द्रियः ॥ ९२.९ ॥
विशेषाच्चाश्विने मासि कृष्णपक्षे चतुर्दशीम् ।
उपोष्य परया भक्त्या सर्वपापैः प्रमुच्यते ॥ ९२.१० ॥
रात्रौ जागरणं कुर्याद्दीपं देवस्य बोधयेत् ।
घृतेन चैव राजेन्द्र शृणु तत्रास्ति यत्फलम् ॥ ९२.११ ॥
मुच्यते पातकैः सर्वैरगम्यागमनोद्भवैः ।
अभक्ष्यभक्षणोद्भूतैरपेयापेयजैरपि ॥ ९२.१२ ॥
अवाह्यवाहिते यत्स्याददोह्यादोहने यथा ।
स्नानमात्रेण तस्यैवं यान्ति पापान्यनेकधा ॥ ९२.१३ ॥
यमलोकं न वीक्षेत मनुजः स कदाचन ।
पित्ःणां परमं गुह्यमिदं भूमौ नरेश्वर ॥ ९२.१४ ॥
ददतामक्षयं सर्वं यमहास्ये न संशयः ।
अमावास्यां जितक्रोधो यस्तु पूजयते द्विजान् ॥ ९२.१५ ॥
हिरण्यभूमिदानेन तिलदानेन भूयसा ।
कृष्णाजिनप्रदानेन तिलधेनुप्रदानतः ॥ ९२.१६ ॥
विधानोक्तद्विजाग्र्याय ये प्रदास्यन्ति भक्तितः ।
हयं वा कुंजरं वाथ धूर्वहौ सीरसंयुतौ ॥ ९२.१७ ॥
कन्यां वसुमतीं गां च महिषीं वा पयस्विनीम् ।
ददते ये नृपश्रेष्ठ नोपसर्पन्ति ते यमम् ॥ ९२.१८ ॥
यमोऽपि भवति प्रीतः प्रतिजन्म युधिष्ठिर ।
यमस्य वाहो महिषो महिष्यस्तस्य मातरः ॥ ९२.१९ ॥
तासां दानप्रभावेण यमः प्रीतो भवेद्ध्रुवम् ।
नासौ यममवाप्नोति यदि पापैः समावृतः ॥ ९२.२० ॥
एतस्मात्कारणादत्र महिषीदानमुत्तमम् ।
तस्याः शृङ्गे जलं कार्यं धूम्रवस्त्रानुवेष्टिता ॥ ९२.२१ ॥
आयसस्य खुराः कार्यास्ताम्रपृष्ठाः सुभूषिताः ।
लवणाचलं पूर्वस्यामाग्नेय्यां गुडपर्वतम् ॥ ९२.२२ ॥
कार्पासं याम्यभागं तु नवनीतं तु नैरृते ।
पश्चिमे सप्तधान्यानि वायव्ये तंदुलाः स्मृताः ॥ ९२.२३ ॥
सौम्ये तु काञ्चनं दद्यादीशाने घृतमेव च ।
प्रदद्याद्यमराजो मे प्रीयतामित्युदीरयन् ॥ ९२.२४ ॥
इत्युच्चार्य द्विजस्याग्रे यमलोकं महाभयम् ।
असिपत्त्रवनं घोरं यमचुल्ली सुदारुणा ॥ ९२.२५ ॥
रौद्रा वैतरणी चैव कुम्भीपाको भयावहः ।
कालसूत्रो महाभीमस्तथा यमलपर्वतौ ॥ ९२.२६ ॥
क्रकचं तैलयन्त्रं च श्वानो गृध्राः सुदारुणाः ।
निरुच्छ्वासा महानादा भैरवो रौरवस्तथा ॥ ९२.२७ ॥
एते घोरा याम्यलोके श्रूयन्ते द्विजसत्तम ।
त्वत्प्रसादेन ते सोम्यास्तीर्थस्यास्य प्रभावतः ॥ ९२.२८ ॥
दानस्यास्य प्रभावेण यमराजप्रसादतः ।
नरकेऽहं न यास्यामि द्विज जन्मनि जन्मनि ॥ ९२.२९ ॥
यमहास्यस्य चाख्यानमिदं शृण्वन्ति ये नराः ।
तेऽपि पापविनिर्मुक्ता न पश्यन्ति यमालयम् ॥ ९२.३० ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे यमहास्यतीर्थमाहात्म्यवर्णनं नाम द्विनवतितमोऽध्यायः ॥