स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०९०

विकिस्रोतः तः
Jump to navigation Jump to search


अध्याय ९०

श्रीमार्कण्डेय उवाच -
रेवाया उत्तरे कूले वैष्णवं तीर्थमुत्तमम् ।
जलशायीति वै नाम विख्यातं वसुधातले ॥ ९०.१ ॥
दानवानां वधं कृत्वा सुप्तस्तत्र जनार्दनः ।
चक्रं प्रक्षालितं तत्र देवदेवेन चक्रिणा ।
सुदर्शनं च निष्पापं रेवाजलसमाश्रयात् ॥ ९०.२ ॥

युधिष्ठिर उवाच -
चक्रतीर्थं समाचक्ष्व मुनिसंघैश्च वन्दितम् ।
विष्णोः प्रभावमतुलं रेवायाश्चैव यत्फलम् ॥ ९०.३ ॥

श्रीमार्कण्डेय उवाच -
साधु साधु महाप्राज्ञ विरक्तस्त्वं युधिष्ठिर ।
गुह्याद्गुह्यतरं तीर्थं निर्मितं चक्रिणा स्वयम् ॥ ९०.४ ॥
तत्तेऽहं सम्प्रवक्ष्यामि कथां पापप्रणाशिनीम् ।
आसीत्पुरा महादैत्यस्तालमेघ इति श्रुतः ॥ ९०.५ ॥
तेन देवा जिताः सर्वे हृतराज्या नराधिप ।
यज्ञभागान् स्वयं भुङ्क्ते अहं विष्णुर्न संशयः ॥ ९०.६ ॥
धनदस्य हृतं चित्तं हृतः शक्रस्य वारणः ।
इन्द्राणीं वाञ्छते पापो हयरत्नं रवेरपि ॥ ९०.७ ॥
तालमेघभयात्पार्थ रविरुद्राः सवासवाः ।
यमः स्कन्दो जलेशोऽग्निर्वायुर्देवो धनेश्वरः ॥ ९०.८ ॥
सवाक्पतिमहेशाश्च नष्टचित्ताः पितामहम् ।
गता देवा ब्रह्मलोकं तत्र दृष्ट्वा पितामहम् ॥ ९०.९ ॥
तुष्टुवुर्विविधैः स्तोत्रैर्वागीशप्रमुखाः सुराः ।
गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥ ९०.१० ॥
दृष्ट्वा देवान्निरुत्साहान् विवर्णानवनीपते ।
प्रसादाभिमुखो देवः प्रत्युवाच दिवौकसः ॥ ९०.११ ॥

ब्रह्मोवाच -
स्वागतं सुरसङ्घस्य कान्तिर्नष्टा पुरातनी ।
हिमक्लिष्टप्रभावेण ज्योतींषीव मुखानि वः ॥ ९०.१२ ॥
प्रशमादर्चिषामेतदनुद्गीर्णं सुरायुधम् ।
वृत्रस्य हन्तुः कुलिशं कुण्ठितश्रीव लक्ष्यते ॥ ९०.१३ ॥
किं चायमरिदुर्वारः पाणौ पाशः प्रचेतसः ।
मन्त्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः ॥ ९०.१४ ॥
कुबेरस्य मनःशल्यं शंसतीव पराभवम् ।
अपविद्धगतो वायुर्भग्नशाख इव द्रुमः ॥ ९०.१५ ॥
यमोऽपि विलिखन्भूमिं दण्डेनास्तमितत्विषा ।
कुरुतेऽस्मिन्नमोघोऽपि निर्वाणालातलाघवम् ॥ ९०.१६ ॥
अमी च कथमादित्याः प्रतापक्षतिशीतलाः ।
चित्रन्यस्ता इव गताः प्रकामालोकनीयताम् ॥ ९०.१७ ॥
तद्ब्रूत वत्साः किमितः प्रार्थयध्वं समागताः ।
किमागमनकृत्यं वो ब्रूत निःसंशयं सुराः ॥ ९०.१८ ॥
मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ।
ततो मन्दानिलोद्भूतकमलाकरशोभिना ॥ ९०.१९ ॥
गुरुं नेत्रसहस्रेण प्रेरयामास वृत्रहा ।
स द्विनेत्रं हरेश्चक्षुः सहस्रनयनाधिकम् ॥ ९०.२० ॥
वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम् ।
युष्मद्वंशोद्भवस्तात तालमेघो महाबलः ॥ ९०.२१ ॥
उपतापयते देवान्धूमकेतुरिवोच्छ्रितः ।
तेन देवगणाः सर्वे दुःखिता दानवेन च ॥ ९०.२२ ॥
तालमेघो दैत्यपतिः सर्वान्नो बाधते बली ।
तस्मात्त्वां शरणं प्राप्ताः शरणं नो विधे भव ॥ ९०.२३ ॥
ततः प्रसन्नो भगवान् वेधास्तानब्रवीद्वचः ॥ ९०.२४ ॥

ब्रह्मोवाच -
तालमेघेन वो मध्ये बली तेन समः सुराः ।
विना माधवदेवेन साध्यो मे नैव दानवः ॥ ९०.२५ ॥
ततः सुरगणाः सर्वे विरिञ्चिप्रमुखा नृप ।
क्षीरोदं प्रस्थिताः सर्वे दुःखितास्तेन वैरिणा ॥ ९०.२६ ॥
त्वरिताः प्रस्थिता देवाः केशवं द्रष्टुकाम्यया ।
क्षीरोदं सागरं गत्वास्तुवंस्ते जलशायिनम् ॥ ९०.२७ ॥
देवा ऊचुः ।
जगदादिरनादिस्त्वं जगदन्तोऽप्यनन्तकः ।
जगन्मूर्तिरमूर्तिस्त्वं जय गीर्वाणपूजित ॥ ९०.२८ ॥
जय क्षीरोदशयन जय लक्ष्म्या सदा वृत ।
जय दानवनाशाय जय देवकिनन्दन ॥ ९०.२९ ॥
जय शङ्खगदापाणे जय चक्रधर प्रभो ।
इति देवस्तुतिं श्रुत्वा प्रबुद्धो जलशाय्यथ ॥ ९०.३० ॥
उवाच मधुरां वाणीं मेघगम्भीरनिस्वनाम् ।
किमर्थं बोधितो ब्रह्मन् समर्थैर्वः सुरासुरैः ॥ ९०.३१ ॥

ब्रह्मोवाच -
तालमेघभयात्कृष्ण सम्प्राप्तास्तव मन्दिरम् ।
न वध्यः कस्यचित्पापस्तालमेघो जनार्दन ॥ ९०.३२ ॥
त्वमेव जहि तं दुष्टं मृत्युं यास्यति नान्यथा ॥ ९०.३३ ॥

श्रीकृष्ण उवाच -
स्वस्थानं गम्यतां देवाः स्वकीयां लभत प्रजाम् ।
दुष्टात्मानं हनिष्यामि तालमेघं महाबलम् ॥ ९०.३४ ॥
स्थानं ब्रुवन्तु मे देवा वसेद्यत्र स दानवः ॥ ९०.३५ ॥
देवा ऊचुः ।
हिमाचलगुहायां स वसते दानवेश्वरः ।
चतुर्विंशतिसाहस्रैः कन्याभिः परिवारितः ॥ ९०.३६ ॥
तुरङ्गैः स्यन्दनैः कृष्ण संख्या तस्य न विद्यते ।
नटा नानाविधास्तत्र असंख्यातगुणा हरे ॥ ९०.३७ ॥
द्विरदाः पर्वताकारा हयाश्च द्विरदोपमाः ।
महाबलो वसेत्तत्र गीर्वाणभयदायकः ॥ ९०.३८ ॥
श्रुत्वा देवो वचस्तेषां देवानामातुरात्मनाम् ।
अचिन्तयद्गरुत्मन्तं शत्रुसङ्घविनाशनम् ॥ ९०.३९ ॥
चक्रं करेण संगृह्य गदाचक्रधरः प्रभुः ।
शार्ङ्गं च मुशलं सीरं करैर्गृह्य जनार्दनः ॥ ९०.४० ॥
आरूढः पक्षिराजेन्द्रं वधार्थं दानवस्य च ।
दानवस्य पुरे पेतुरुत्पाता घोररूपिणः ॥ ९०.४१ ॥
गोमायुर्गृध्रमध्ये तु कपोतैः सममाविशत् ।
विना वातेन तस्यैव ध्वजदण्डः पपात ह ॥ ९०.४२ ॥
सर्पसूषकयोर्युद्धं तथा केसरिनागयोः ।
उन्मार्गाः सरितस्तत्रावहन्रक्तविमिश्रिताः ।
अकालतरुपुष्पाणि दृश्यन्ते स्म समन्ततः ॥ ९०.४३ ॥
ततः प्राप्तो जगन्नाथो हिमवन्तं नगेश्वरम् ।
पाञ्चजन्यश्वसहसा पूरितः पुरसन्निधौ ॥ ९०.४४ ॥
तेन शब्देन महता ह्यारूढो दानवेश्वरः ।
उवाच च तदा वाक्यं तालमेघो महाबलः ॥ ९०.४५ ॥

तालमेघ उवाच -
कोऽयं मृत्युवशं प्राप्तो ह्यज्ञात्वा मम विक्रमम् ।
धुन्धुमाराज्ञया ह्याशु स्वसैन्यपरिवारितः ॥ ९०.४६ ॥
बलादानय तं बद्ध्वा ममाग्रे बहुशालिनम् ॥ ९०.४७ ॥

धुन्धुमार उवाच -
आनयामि न सन्देहः सुरो यक्षोऽथ किन्नरः ।
स्यन्दनौघैः समायुक्तो गजवाजिभटैः सह ॥ ९०.४८ ॥
हृष्टस्ततो जगद्योनिः सुपर्णस्थो महाबलः ।
गृह्यतां गृह्यतामेष इत्युक्तास्तेन किंकराः ॥ ९०.४९ ॥
चतुर्दिक्षु प्रधावन्त इतश्चेतश्च सर्वतः ।
सुपर्णेनाग्निरूपेण दग्धास्ते शलभा यथा ॥ ९०.५० ॥
धुन्धुमारोऽपि कृष्णेन शरघातेन ताडितः ।
हतो वक्षःस्थले पापो मृतावस्थो रथोपरि ॥ ९०.५१ ॥
हाहाकारं ततः सर्वे दानवाश्चक्रुरातुराः ।
तालमेघस्ततः क्रुद्धो रथारूढो विनिर्गतः ।
ददृशे केशवं पार्थ शङ्खचक्रगदाधरम् ॥ ९०.५२ ॥

तालमेघ उवाच -
अन्ये ते दानवाः कृष्ण ये हताः समरे त्वया ।
हिरण्यकशिपुप्रख्यानपुमांसो हि तेऽच्युत ॥ ९०.५३ ॥
इत्युक्त्वा दानवः पार्थ वर्षयामास सायकैः ।
दानवस्य शरान्मुक्तान् छेदयामास केशवः ॥ ९०.५४ ॥
गरुत्मानवधीत्सैन्यमवध्यं यत्सुरासुरैः ।
कृष्णेन द्विगुणास्तस्य प्रेषिताः स्वशिलीमुखाः ॥ ९०.५५ ॥
द्विगुणं द्विगुणीकृत्य प्रेषयामास दानवः ।
तानप्यष्टगुणैः कृष्णश्छादयामास सायकैः ॥ ९०.५६ ॥
ततः क्रुद्धेन दैत्येन ह्याग्नेयं बाणमुत्तमम् ॥ ९०.५७ ॥
वारुणं प्रेषयामास त्वाग्नेयं शमितं ततः ।
वारुणेनैव वायव्यं तालमेघो व्यसर्जयत् ॥ ९०.५८ ॥
सार्पं चैव हृषीकेशो वायव्यस्य प्रशान्तये ।
नारसिंहं नृसिंहोऽपि प्रेषयामास पाण्डव ॥ ९०.५९ ॥
नारसिंहं ततो दृष्ट्वा तालमेघो महाबलः ।
उत्तीर्य स्यन्दनाच्छीघ्रं गृहीत्वा खड्गचर्मणी ॥ ९०.६० ॥
कृष्ण त्वां प्रेषयिष्यामि यममार्गं सुदारुणम् ।
इत्युक्त्वा दानवः पार्थ आगतः केशवं प्रति ॥ ९०.६१ ॥
खड्गेनाताडयद्दैत्यो गदापाणिं जनार्दनम् ।
मण्डलाग्रं ततो गृह्य केशवो हृष्टमानसः ॥ ९०.६२ ॥
जघनोरःस्थले पार्थ तालमेघं महाहवे ।
जनार्दनस्तदा दैत्यं दैत्यो हरिमहन्मृधे ॥ ९०.६३ ॥
जनार्दनस्ततः क्रुद्धस्तालमेघाय भारत ।
अमोघं चक्रमादाय मुक्तं तस्य च मूर्धनि ॥ ९०.६४ ॥
निपपात शिरस्तस्य पर्वताश्च चकम्पिरे ।
समुद्राः क्षुभिताः पार्थ नद्य उन्मार्गगामिनीः ॥ ९०.६५ ॥
पुष्पवृष्टिं ततो देवा मुमुचुः केशवोपरि ।
अवध्यः सुरसङ्घानां सूदितः केशव त्वया ॥ ९०.६६ ॥
स्वस्थाश्चैव ततो देवास्तालमेघे निपातिते ।
जनार्दनोऽपि कौन्तेय नर्मदातटमाश्रितः ॥ ९०.६७ ॥
क्षीरोदां नर्मदां मत्वा अनन्तभुजगोपरि ।
लक्ष्म्या समन्वितः कृष्णो निलीनश्चोत्तरे तटे ॥ ९०.६८ ॥
चक्रं विभीषणं मर्त्ये ज्वालामालासमन्वितम् ।
पतितं नर्मदातोये जलशायिसमीपतः ॥ ९०.६९ ॥
निर्धूतकल्मषं जातं नर्मदातोययोगतः ।
तालमेघवधोत्पन्नं यत्पापं नृपनन्दन ॥ ९०.७० ॥
तत्स्रवं क्षालितं सद्यो नर्मदांभसि भारत ।
तदाप्रभृति लोकेऽस्मिञ्जलशायी महीपते ॥ ९०.७१ ॥
चक्रतीर्थं वदन्त्यन्ये केचित्कालाघनाशनम् ।
विख्यातं भारते वर्षे नर्मदायां महीपते ॥ ९०.७२ ॥
तत्तीर्थस्य प्रभावोऽयं श्रूयतामवनीपते ।
यथाऽनन्तो हि नागानां देवानां च जनार्दनः ॥ ९०.७३ ॥
मासानां मार्गशीर्षोऽस्ति नदीनां नर्मदा यथा ।
मासि मार्गशिरे पार्थ ह्येकादश्यां सितेऽहनि ॥ ९०.७४ ॥
गत्वा यो मनुजो भक्त्या कामक्रोधविवर्जितः ।
वैष्णवीं भावनां कृत्वा जलेशं तु व्रजेत वै ॥ ९०.७५ ॥
एकभुक्तं च नक्तं च तथैवायाचितं नृप ।
उपवासं तथा दानं ब्राह्मणानां च भोजनम् ॥ ९०.७६ ॥
करोति च कुरुश्रेष्ठ न स याति यमालयम् ।
यमलोकभयाद्भीता ये लोकाः पाण्डुनन्दन ॥ ९०.७७ ॥
ते पश्यन्तु श्रियः कान्तं नागपर्यङ्कशायिनम् ।
गोपीजनसमावृत्तं योगनिद्रां समाश्रितम् ।
विश्वरूपं जगन्नाथं संसारभयनाशनम् ॥ ९०.७८ ॥
स्नापयेत्परया भक्त्या क्षौद्रक्षीरेण सर्पिषा ।
खण्डेन तोयमिश्रेण जगद्योनिं जनार्दनम् ॥ ९०.७९ ॥
स्नाप्यमानं च पश्यन्ति ये लोका गतमत्सराः ।
ते यान्ति परमं लोकं सुरासुरनमस्कृतम् ॥ ९०.८० ॥
घृतेन बोधयेद्दीपमथवा तैलपूरितम् ।
रात्रौ जागरणं कृत्वा दैवस्याग्रे विमत्सराः ॥ ९०.८१ ॥
ये कथां वैष्णवीं भक्त्या शृण्वन्ति च नृपोत्तम ।
ब्रह्महत्यादिपापानि नश्यन्ते नात्र संशयः ॥ ९०.८२ ॥
प्रदक्षिणन्ति ये मर्त्या जलशायिजगद्गुरुम् ।
प्रदक्षिणीकृता तैस्तु सप्तद्वीपा वसुंधरा ॥ ९०.८३ ॥
ततः प्रभाते विमले पित्ःन् संतर्पयेज्जलैः ।
श्राद्धं च ब्राह्मणैस्तत्र योग्यैः पाण्डव मानवाः ॥ ९०.८४ ॥
स्वदारनिरतैः शान्तैः परदारविवर्जकैः ।
वेदाभ्यसनशीलैश्च स्वकर्मनिरतैः शुभैः ॥ ९०.८५ ॥
नित्यं यजनशीलैश्च त्रिसन्ध्यापरिपालकैः ।
श्रद्धया कारयेच्छ्राद्धं यदीच्छेच्छ्रेय आत्मनः ॥ ९०.८६ ॥
ते धन्या मानुषे लोके वन्द्या हि भुवि मानवाः ।
ये वसन्ति सदाकालं पादपद्माश्रया हरेः ॥ ९०.८७ ॥
जलशायं प्रपश्यन्ति प्रत्यक्षं सुरनायकम् ।
पक्षोपवासं पाराकं व्रतं चान्द्रायणं शुभम् ॥ ९०.८८ ॥
मासोपवासमुग्रं च षष्ठान्नं पञ्चमं व्रतम् ।
तत्र तीर्थे तु यः कुर्यात्सोऽक्षयां गतिमाप्नुयात् ॥ ९०.८९ ॥

श्रीमार्कण्डेय उवाच -
अतः परं प्रवक्ष्यामि तिलधेनोश्च यत्फलम् ।
यथा यस्मिन्यदा देया दाने तस्याः शुभं फलम् ॥ ९०.९० ॥
एतत्कथान्तरं पुण्यमृषेर्द्वैपायनात्पुरा ।
श्रुतं हि नैमिषे पुण्ये नारदाद्यैरनेकधा ॥ ९०.९१ ॥
इदं परममायुष्यं मङ्गल्यं कीर्तिवर्धनम् ।
विप्राणां श्रावयन्विद्वान्फलानन्त्यंसमश्नुते ॥ ९०.९२ ॥
बहुभ्यो न प्रदेयानि गौर्गृहं शयनं स्त्रियः ।
विभक्तदक्षिणा ह्येता दातारं नाप्नुवन्ति च ॥ ९०.९३ ॥
एकमेतत्प्रदातव्यं न बहूनां युधिष्ठिर ।
सा च विक्रयमापन्ना दहत्यासप्तमं कुलम् ॥ ९०.९४ ॥
यथालाभा तु सर्वेषां चतुर्द्रोणा तु गौः स्मृता ।
द्रोणस्य वत्सकः कार्यो बहूनां वापि कामतः ॥ ९०.९५ ॥
यस्मिन्देशे तु यन्मानं विषये वा विचारितम् ।
तेन मानेन तां कुर्वन्नक्षयं फलमश्नुते ॥ ९०.९६ ॥
सुखपूर्वं शुचौ भूमौ पुष्पधूपाक्षतैस्तथा ।
कर्णाभ्यां रत्ने दातव्ये दीपौ नेत्रद्वये तथा ॥ ९०.९७ ॥
श्रीखण्डमुरसि स्थाप्यं ताभ्यां चैव तु काञ्चनम् ।
ऊर्ध्वे मधु घृतं देयं कुर्यात्सर्षपरोमकम् ॥ ९०.९८ ॥
कम्बले कम्बलं दद्याच्छ्रोण्यां मधु घृतं तथा ।
यवसं पायसं दद्याद्घृतं क्षौद्रसमन्वितम् ॥ ९०.९९ ॥
स्वर्णशृङ्गी रूप्यशिफारुक्मलाङ्गूलसंयुता ।
रत्नपृष्ठी तु दातव्या कांस्यपात्रावदोहिनी ॥ ९०.१०० ॥
यत्स्याद्बाल्यकृतं पापं यद्वा कृतमजानता ।
वाचा कृतं कर्मकृतं मनसा यद्विचिन्तितम् ॥ ९०.१०१ ॥
जले निष्ठीवितं चैव मुशलं वापि लङ्घितम् ।
वृषलीगमनं चैव गुरुदारनिषेवणम् ॥ ९०.१०२ ॥
कन्याया गमनं चैव सुवर्णस्तेयमेव च ।
सुरापानं तथा चान्यत्तिलधेनुः पुनाति हि ॥ ९०.१०३ ॥
अहोरात्रोपवासेन विधिवत्तां विसर्जयेत् ।
या सा यमपुरे घोरे नदी वैतरणी स्मृता ॥ ९०.१०४ ॥
वालुकायोऽश्मस्थला च पच्यते यत्र दुष्कृती ।
अवीचिर्नरको यत्र यत्र यामलपर्वतौ ॥ ९०.१०५ ॥
यत्र लोहमुखाः काका यत्र श्वानो भयंकराः ।
असिपत्त्रवनं चैव यत्र सा कूटशाल्मली ॥ ९०.१०६ ॥
तान्सुखेन व्यतिक्रम्य धर्मराजालयं व्रजेत् ।
धर्मराजस्तु तं दृष्ट्वा सूनृतं वक्ति भारत ॥ ९०.१०७ ॥
विमानमुत्तमं योग्यं मणिरत्नविभूषितम् ।
अत्रारुह्य नरश्रेष्ठ प्रयाहि परमां गतिम् ॥ ९०.१०८ ॥
मा च चाटु भटे देहि मैव देहि पुरोहिते ।
मा च काणे विरूपे च न्यूनाङ्गे न च देवले ॥ ९०.१०९ ॥
अवेदविदुषे नैव ब्राह्मणे सर्वविक्रये ।
मित्रघ्ने च कृतघ्ने च मन्त्रहीने तथैव च ॥ ९०.११० ॥
वेदान्तगाय दातव्या श्रोत्रियाय कुटुम्बिने ।
वेदान्तगसुते देया श्रोत्रिये गृहपालके ॥ ९०.१११ ॥
सर्वाङ्गरुचिरे विप्रे सद्वृत्ते च प्रियंवदे ।
पूर्णिमायां तु माघस्य कार्त्तिक्यामथ भारत ॥ ९०.११२ ॥
वैशाख्यां मार्गशीर्ष्यां वाषाढ्यां चैत्र्यामथापि वा ।
अयने विषुवे चैव व्यतीपाते च सर्वदा ॥ ९०.११३ ॥
षडशीतिमुखे पुण्ये छायायां कुंजरस्य वा ।
एष ते कथितः कल्पस्तिलधेनोर्मयानघ ॥ ९०.११४ ॥
व्रजन्ति वैष्णवं लोकं दत्त्वा पादं यमोपरि ।
प्राणत्यागात्परं लोकं वैष्णवं नात्र संशयः ।
भित्त्वाशु भास्करं यान्ति नात्र कार्या विचारणा ॥ ९०.११५ ॥
एतत्ते सर्वमाख्यातं चक्रतीर्थफलं नृप ।
यच्छ्रुत्वा मानवो भक्त्या सर्वपापैः प्रमुच्यते ॥ ९०.११६ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे जलशायितीर्थमाहात्म्यवर्णनं नाम नवतितमोऽध्यायः ॥