स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०८५

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


अध्याय ८५

श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र नर्मदायाः पुरातनम् ।
ब्रह्महत्याहरं तीर्थं वाराणस्या समं हि तत् ॥ ८५.१ ॥

युधिष्ठिर उवाच -
आश्चर्यं कथ्यतां ब्रह्मन्यद्वृत्तं नर्मदातटे ।
वाराणस्या समं कस्मादेतत्कथय मे प्रभो ॥ ८५.२ ॥
निमग्नो दुःखसंसारे हृतराज्यो द्विजोत्तम ।
युष्मद्वाणीजलस्नातो निर्दुःखः सह बान्धवैः ॥ ८५.३ ॥

श्रीमार्कण्डेय उवाच -
साधु साधु महाबाहो सोमवंशविभूषण ।
पृष्टोऽस्मि दुर्लभं तीर्थं गुह्याद्गुह्यतरं परम् ॥ ८५.४ ॥
आदौ पितामहस्तावत्समस्तजगतः प्रभुः ।
मनसा तस्य संजाता दशैव ऋषिपुंगवाः ॥ ८५.५ ॥
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।
प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥ ८५.६ ॥
जज्ञे प्राचेतसं दक्षं महातेजाः प्रजापतिः ।
दक्षस्यापि तथा जाताः पञ्चाशद्दुहिताः किल ॥ ८५.७ ॥
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
तथैव स महाभागः सप्तविंशतिमिन्दवे ॥ ८५.८ ॥
रोहिणी नाम या तासामभीष्टा साभवद्विधोः ।
शेषासु करुणां कृत्वा शप्तो दक्षेण चन्द्रमाः ॥ ८५.९ ॥
क्षयरोग्यभवच्चन्द्रो दक्षस्यायं प्रजापतेः ।
स च शापप्रभावेण निस्तेजाः शर्वरीपतिः ॥ ८५.१० ॥
गतः पितामहं सोमो वेपमानोऽमृतांशुमान् ।
पद्मयोने नमस्तुभ्यं वेदगर्भ नमोऽस्तु ते ।
शरणं त्वां प्रसन्नोऽस्मि पाहि मां कमलासन ॥ ८५.११ ॥

ब्रह्मोवाच -
निस्तेजाः शर्वरीनाथ कलाहीनश्च दृश्यसे ।
उद्विग्नमानसस्तात संजातः केन हेतुना ॥ ८५.१२ ॥

सोम उवाच -
दक्षशापेन मे ब्रह्मन्निस्तेजस्त्वं जगत्पते ।
निर्हारश्चास्य शापस्य कथ्यतां मे पितामह ॥ ८५.१३ ॥

ब्रह्मोवाच -
सर्वत्र सुलभा रेवा त्रिषु स्थानेषु दुर्लभा ।
ओङ्कारेऽथ भृगुक्षेत्रे तथा चैवौर्वसंगमे ॥ ८५.१४ ॥
तत्र गच्छ क्षपानाथ यत्र रेवान्तरं तटम् ।
त्वरितोऽसौ गतस्तत्र यत्र रेवौर्विसंगमः ॥ ८५.१५ ॥
काष्ठावस्थः स्थितः सोमो दध्यौ त्रिपुरवैरिणम् ।
यावद्वर्षशतं पूर्णं तावत्तुष्टो महेश्वरः ॥ ८५.१६ ॥
प्रत्यक्षः सोमराजस्य वृषासन उमापतिः ।
साष्टाङ्गं प्रणिपत्योच्चैर्जय शम्भो नमोऽस्तु ते ॥ ८५.१७ ॥
जय शङ्कर पापहराय नमो जय ईश्वर ते जगदीश नमः ।
जय वासुकिभूषणधार नमो जय शूलकपालधराय नमः ॥ ८५.१८ ॥
जय अन्धकदेहविनाश नमो जय दानववृन्दवधाय नमः ।
जय निष्कलरूप सकलाय नमो जय काल कामदहाय नमः ॥ ८५.१९ ॥
जय मेचककण्ठधराय नमो जय सूक्ष्मनिरञ्जनशब्द नमः ।
जय आदिरनादिरनन्त नमो जय शङ्कर किंकरमीश भज ॥ ८५.२० ॥
एवं स्तुतो महादेवः सोमराजेन पाण्डव ।
तुष्टस्तस्य नृपश्रेष्ठ शिवया शङ्करोऽब्रवीत् ॥ ८५.२१ ॥

ईश्वर उवाच -
वरं प्रार्थय मे भद्र यत्ते मनसि वर्तते ।
साधु साधु महासत्त्व तुष्टोऽहं तपसा तव ॥ ८५.२२ ॥

सोम उवाच -
दक्षशापेन दग्धोऽहं क्षीणसत्त्वो महेश्वर ।
शापस्योपशमं देव कुरु शर्म मम प्रभो ॥ ८५.२३ ॥

ईश्वर उवाच -
तव भक्तिगृहीतोऽहमुमया सह तोषितः ।
निष्पापः सोमनाथस्त्वं संजातस्तीर्थसेवनात् ॥ ८५.२४ ॥
इत्यूचे देवदेवेशः क्षणं ध्यात्वेन्दुना ततः ।
स्थापितं परमं लिङ्गं कामदं प्राणिनां भुवि ।
सर्वदुःखहरं तत्तु ब्रह्महत्याविनाशनम् ॥ ८५.२५ ॥

युधिष्ठिर उवाच -
सोमनाथप्रभावं मे संक्षेपात्कथय प्रभो ।
दुःखार्णवनिमग्नानां त्राता प्राप्तो द्विजोत्तम ॥ ८५.२६ ॥

श्रीमार्कण्डेय उवाच -
शृणु तीर्थप्रभावं ते संक्षेपात्कथयाम्यहम् ।
यद्वृत्तमुत्तरे कूले रेवाया उरिसंगमे ॥ ८५.२७ ॥
शम्बरो नाम राजाभूत्तस्य पुत्रस्त्रिलोचनः ।
त्रिलोचनसुतः कण्वः स पापर्द्धिपरोऽभवत् ॥ ८५.२८ ॥
वने नित्यं भ्रमन्सोऽथ मृगयूथं ददर्श ह ।
मृगयूथं हतं तत्तु त्रिलोचनसुतेन च ॥ ८५.२९ ॥
मृगरूपी द्विजो मध्ये चरते निर्जने वने ।
स हतस्तेन सङ्गेन कण्वेन मुनिसत्तम ॥ ८५.३० ॥
ब्रह्महत्यान्वितः कण्वो निस्तेजा व्यचरन्महीम् ।
व्यचरंश्चैव सम्प्राप्तो नर्मदामुरिसंगमे ॥ ८५.३१ ॥
किंशुकाशोकबहले जम्बीरपनसाकुले ।
कदम्बपाटलाकीर्णे बिल्वनारङ्गशोभिते ॥ ८५.३२ ॥
चिञ्चिणीचम्पकोपेते ह्यगस्तितरुछादिते ।
प्रभूतभूतसंयुक्तं वनं सर्वत्र शोभितम् ॥ ८५.३३ ॥
चित्रकैर्मृगमार्जारैर्हिंस्रैः शम्बरशूकरैः ।
शशैर्गवयसंयुक्तैः शिखण्डिखरमण्डितम् ॥ ८५.३४ ॥
प्रविष्टस्तु वने कण्वस्तृषार्तः श्रमपीडितः ।
स्नातो रेवाजले पुण्ये सङ्गमे पापनाशने ॥ ८५.३५ ॥
अर्चितः परया भक्त्या सोमनाथो युधिष्ठिर ।
पपौ सुविमलं तोयं सर्वपापक्षयंकरम् ॥ ८५.३६ ॥
फलानि च विचित्राणि चखाद सह किंकरैः ।
सुप्तः पादपच्छायायां श्रान्तो मृगवधेन च ॥ ८५.३७ ॥
तावत्तीर्थवरं विप्रः स्नानार्थं सङ्गमं गतः ।
मार्गगो ब्राह्मणो हर्षोद्युक्तस्तद्गतमानसः ॥ ८५.३८ ॥
अबला तमुवाचेदं तिष्ठ तिष्ठ द्विजोत्तम ।
त्रस्तो निरीक्षते यावद्दिशः सर्वा नरेश्वर ॥ ८५.३९ ॥
तावद्वृक्षसमारूढां स्त्रियं रक्ताम्बरावृताम् ।
रक्तमाल्यां तदा बालां रक्तचन्दनचर्चिताम् ।
रक्ताभरणशोभाढ्यां पाशहस्तां ददर्श ह ॥ ८५.४० ॥

स्त्र्युवाच -
संदेशं श्रूयतां विप्र यदि गच्छसि सङ्गमे ।
मद्भर्ता तिष्ठते तत्र शीघ्रमेव विसर्जय ॥ ८५.४१ ॥
एकाकिनी च ते भार्या तिष्ठते वनमध्यगा ।
इत्याकर्ण्य गतो विप्रः सङ्गमं सुरदुर्लभे ॥ ८५.४२ ॥
वृक्षच्छायान्वितः कण्वो ब्राह्मणेनावलोकितः ।
उवाच तं प्रति तदा वचनं ब्राह्मणोत्तमः ॥ ८५.४३ ॥

ब्राह्मण उवाच -
वनान्तरे मया दृष्टा बाला कमललोचना ।
रक्ताम्बरधरा तन्वी रक्तचन्दनचर्चिता ॥ ८५.४४ ॥
रक्तमाल्या सुशोभाढ्या पाशहस्ता मृगेक्षणा ।
वृक्षारूढावदद्वाक्यं मद्भर्ता प्रेष्यतामिति ॥ ८५.४५ ॥

कण्व उवाच -
कस्मिन्स्थाने तु विप्रेन्द्र विद्यते मृगलोचना ।
कस्य सा केन कार्येण सर्वमेतद्वदाशु मे ॥ ८५.४६ ॥

ब्राह्मण उवाच -
सङ्गमादर्धक्रोशे सा उद्यानान्ते हि विद्यते ।
वचनाद्ब्रह्मणस्यैषा न ज्ञाता पार्थिवेन तु ॥ ८५.४७ ॥
तदा स कण्वभूपालः स्वकं दूतं समादिशत् ।

कण्व उवाच -
गच्छ त्वं पृच्छतां तां क्वागता क्वच गमिष्यसि ।
प्रेषितस्त्वरितो दूतो गतो नारीसमीपतः ॥ ८५.४८ ॥
वृक्षस्थां ददृशो बालामुवाच नृपसत्तम ।
मन्नाथः पृच्छति त्वां तु कासि त्वं क्व गमिष्यसि ॥ ८५.४९ ॥

कन्योवाच -
गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् ।
इह प्रच्छन्न पापानां शास्ता वैवस्वतो यमः ॥ ८५.५० ॥
ब्रह्महत्या च संजाता मृगरूपधरद्विजात् ।
मया युक्तोऽपि ते राजा मुक्तस्तीर्थप्रभावतः ॥ ८५.५१ ॥
अर्धक्रोशान्तरान्मध्ये ब्रह्महत्या न संविशेत् ।
सोमनाथप्रभावोऽयं वाराणस्याः समः स्मृतः ॥ ८५.५२ ॥
गच्छ त्वं प्रेष्यतां राजा शीघ्रमत्र न संशयः ।
गतो भृत्यस्ततः शीघ्रं वेपमानः सुविह्वलः ॥ ८५.५३ ॥
समस्तं कथयामास यद्वृत्तं हि पुरातनम् ।
तस्य वाक्यादसौ राजा पतितो धरणीतले ॥ ८५.५४ ॥

भृत्य उवाच -
कस्मात्त्वं शोचसे नाथ पूर्वोपात्तं शुभाशुभम् ।
इत्याकर्ण्य वचस्तस्य राजा वचनमब्रवीत् ॥ ८५.५५ ॥
प्राणत्यागं करिष्यामि सोमनाथसमीपतः ।
शीघ्रमानीयतां वह्निरिन्धनानि बहूनि च ॥ ८५.५६ ॥
आनीतं तत्क्षणात्सर्वं भृत्यैस्तद्वशवर्तिभिः ।
स्नानं कृत्वा शुभे तोये सङ्गमे पापनाशने ॥ ८५.५७ ॥
अर्चितः परया भक्त्या सोमनाथो महीभृता ।
त्रिःप्रदक्षिणतः कृत्वा ज्वलन्तं जातवेदसम् ॥ ८५.५८ ॥
प्रविष्टः कण्वराजासौ हृदि ध्यात्वा जनार्दनम् ।
पीताम्बरधरं देवं जटामुकुटधारिणम् ॥ ८५.५९ ॥
श्रिया युक्तं सुपर्णस्थं शङ्खचक्रगदाधरम् ।
सुरारिसूदनं दध्यौ सुगतिर्मे भवत्विति ॥ ८५.६० ॥
पपात पुष्पवृष्टिस्तु साधु साधु नृपात्मज ।
आश्चर्यमतुलं दृष्ट्वा निरीक्ष्य च परस्परम् ॥ ८५.६१ ॥
मृतं तैः पावके भृत्यैर्हृदि ध्यात्वा गदाधरम् ।
विमानस्थास्ततः सर्वे संजाताः पाण्डुनन्दन ॥ ८५.६२ ॥
निष्पापास्ते दिवं याताः सोमनाथप्रभावतः ।
ब्राह्मणे सङ्गमे तत्र ध्यायमाने वृषध्वजम् ॥ ८५.६३ ॥

श्रीमार्कण्डेय उवाच -
सोमनाथप्रभावोऽयं शृणुष्वैकमना विधिम् ।
अष्टम्यां वा चतुर्दश्यां सर्वकालं रवेर्दिने ॥ ८५.६४ ॥
विशेषाच्छुक्लपक्षे चेत्सूर्यवारेण सप्तमी ।
उपोष्य यो नरो भक्त्या रात्रौ कुर्वीत जागरम् ॥ ८५.६५ ॥
पञ्चामृतेन गव्येन स्नापयेत्परमेश्वरम् ।
श्रीखण्डेन ततो गुण्ठ्य पुष्पधूपादिकं ददेत् ॥ ८५.६६ ॥
घृतेन बोधयेद्दीपं नृत्यं गीतं च कारयेत् ।
सोमवारे तथाष्टम्यां प्रभाते पूजयेद्द्विजान् ॥ ८५.६७ ॥
जितक्रोधानात्मवतः परनिन्दाविवर्जितान् ।
सर्वाङ्गरुचिराञ्छस्तान् स्वदारपरिपालकान् ॥ ८५.६८ ॥
गायत्रीपाठमात्रांश्च विकर्मविरतान् सदा ।
पुनर्भूवृषलीशूद्री चरेयुर्यस्य मन्दिरे ॥ ८५.६९ ॥
दूरतोऽसौ द्विजस्त्याज्य आत्मनः श्रेय इच्छता ।
हीनाङ्गानतिरिक्ताङ्गान् येषां पूर्वापरं न हि ॥ ८५.७० ॥
व्रते श्राद्धे तथा दाने दूरतस्तान् विवर्जयेत् ।
आयसी तरुणी तुल्या द्विजाः स्वाध्यायवर्जिताः ॥ ८५.७१ ॥
आत्मानं सह याज्येन पातयन्ति न संशयः ।
शाल्मलीनावतुल्याः स्युः षट्कर्मनिरता द्विजाः ॥ ८५.७२ ॥
दातारं च तथात्मानं तारयन्ति तरन्ति च ।
श्राद्धं सोमेश्वरे पार्थ यः कुर्याद्गतमत्सरः ॥ ८५.७३ ॥
प्रेतास्तस्य हि सुप्रीता यावदाभूतसम्प्लवम् ।
अन्नं वस्त्रं हिरण्यं च यो दद्यादग्रजन्मने ॥ ८५.७४ ॥
स याति शाङ्करे लोक इति मे सत्यभाषितम् ।
हयं यो यच्छते तत्र सम्पूर्णं तरुणं सितम् ॥ ८५.७५ ॥
रक्तं वा पीतवर्णं वा सर्वलक्षणसंयुतम् ।
कुङ्कुमेन विलिप्ताङ्गावग्रजन्महयावपि ॥ ८५.७६ ॥
स्रग्दामभूषितौ कार्यौ सितवस्त्रावगुण्ठितौ ।
अङ्घ्रिः प्रदीयतां स्कन्धे मदीये हयमारुह ॥ ८५.७७ ॥
आरूढे ब्राह्मणे ब्रूयाद्भास्करः प्रीयतामिति ।
स याति शांकरं लोकं सर्वपापविवर्जितः ॥ ८५.७८ ॥
उपरागे तु सोमस्य तीर्थं गत्वा जितेन्द्रियः ।
सत्यलोकाच्च्युतश्चापि राजा भवति धार्मिकः ॥ ८५.७९ ॥
तस्य वासः सदा राजन्न नश्यति कदाचन ।
दीर्घायुर्जायते पुत्रो भार्या च वशवर्तिनी ॥ ८५.८० ॥
जीवेद्वर्षशतं साग्रं सर्वदुःखविवर्जितः ।
सोपवासो जितक्रोधो धेनुं दद्याद्द्विजन्मने ॥ ८५.८१ ॥
सवत्सां क्षीरसंयुक्तां श्वेतवस्त्रावलोकिताम् ।
शबलां पीतवर्णां च धूम्रां वा नीलकर्बुराम् ॥ ८५.८२ ॥
कपिलां वा सवत्सां च घण्टाभरणभूषिताम् ।
रूप्यखुरां कांस्यदोहां स्वर्णशृङ्गीं नरेश्वर ॥ ८५.८३ ॥
श्वेतया वर्धते वंशो रक्ता सौभाग्यवर्धिनी ।
शबला पीतवर्णा च दुःखघ्न्यौ संप्रकीर्तिते ॥ ८५.८४ ॥
कपिला नाशयेत्पापं सप्तजन्मसमुद्भवम् ।
सत्यलोकमवाप्नोति गोप्रदायी नरेश्वर ॥ ८५.८५ ॥
पक्षान्तेऽथ व्यतीपाते वै धृतौ रविसंक्रमे ।
दिनक्षये गजच्छायां ग्रहणे भास्करस्य च ॥ ८५.८६ ॥
ये व्रजन्ति महात्मानः सङ्गमे सुरदुर्लभे ।
मृदावगुण्ठयित्वा तु चात्मानं सङ्गमे विशेत् ॥ ८५.८७ ॥
हृदयान्तर्जले जाप्या प्राणायामोऽथवा नृप ।
गायत्री वैष्णवी चैव सौरी शैवी यदृच्छया ।
तेऽपि पापैः प्रमुच्यन्त इत्येवं शङ्करोऽब्रवीत् ॥ ८५.८८ ॥
जगतीं सोमनाथस्य यस्तु कुर्यात्प्रदक्षिणाम् ।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा ॥ ८५.८९ ॥
ब्रह्महत्या सुरापानं गुरुदारनिषेवणम् ।
भ्रूणहा स्वर्णहर्ता च मुच्यन्ते नात्र संशयः ॥ ८५.९० ॥
तीर्थाख्यानमिदं पुण्यं यः शृणोति जितेन्द्रियः ।
व्याधितो मुच्यते रोगी चारोगी सुखमाप्नुयात् ॥ ८५.९१ ॥
यत्ते संदह्यते चेतः शृणु तन्मे युधिष्ठिर ।
नैकापि नृप लोकेऽस्मिन् भ्रूणहत्या सुदुस्त्यजा ॥ ८५.९२ ॥
किमु षड्विंशतिं पार्थ प्राप याः क्षणदाकरः ।
सोऽपि तीर्थमिदं प्राप्य तपस्तप्त्वा सुदुश्चरम् ॥ ८५.९३ ॥
विमुक्तः सर्वपापेभ्यः शीतरश्मिरभूत्सुखी ।
श्रूयते नृप पौराणी गाथा गीता महर्षिभिः ॥ ८५.९४ ॥
लिङ्गं प्रतिष्ठितं ह्येकं दशभ्रूणहनं भवेत् ।
अतो लिङ्गत्रयं सोमः स्थापयामास भारत ॥ ८५.९५ ॥
रेवौरिसंगमे ह्याद्यं द्वितीयं भृगुकच्छके ।
ततः सिद्धिं परां प्राप्य प्रभासे तु तृतीयकम् ॥ ८५.९६ ॥
इति ते कथितं सर्वं तीर्थमाहात्म्यमुत्तमम् ।
धर्म्यं यशस्यमायुष्यं स्वर्ग्यं संशुद्धिकृन्नृणाम् ॥ ८५.९७ ॥
पुत्रार्थी लभते पुत्रान्निष्कामः स्वर्गमाप्नुयात् ।
मुच्यते सर्वपापेभ्यस्तीर्थं कृत्वा परं नृप ॥ ८५.९८ ॥
एतत्ते सर्वमाख्यातं सोमनाथस्य यत्फलम् ।
श्रुत्वा पुत्रमवाप्नोति स्नात्वा चाष्टौ न संशयः ॥ ८५.९९ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सोमनाथतीर्थमाहात्म्यवर्णनं नाम पञ्चाशीतितमोऽध्यायः ॥