स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०७८
अध्याय ७८
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र नरदेश्वरमुत्तमम् ।
तीर्थानां परमं तीर्थं निर्मितं नारदेन तु ॥ ७८.१ ॥
युधिष्ठिर उवाच -
नारदेन मुनिश्रेष्ठ कस्मात्तीर्थं विनिर्मितम् ।
एतदाख्याहि मे सर्वं प्रसन्नो यदि सत्तम ॥ ७८.२ ॥
श्रीमार्कण्डेय उवाच -
परमेष्ठिसुतः पार्थ नारदो मुनिसत्तमः ।
रेवायाश्चोत्तरे कूले तपस्तेन पुरा कृतम् ॥ ७८.३ ॥
नवनाडीनिरोधेन काष्ठावत्यां गतेन च ।
तोषितः पशुभर्ता वै नारदेन युधिष्ठिर ॥ ७८.४ ॥
ईश्वर उवाच -
तुष्टोऽहं तव विप्रेन्द्र योगिनाथ अयोनिज ।
वरं प्रार्थय मे वत्स यस्ते मनसि वर्तते ॥ ७८.५ ॥
नारद उवाच -
त्वत्प्रसादेन मे शम्भो योगश्चैव प्रसिध्यतु ।
अचला ते भवेद्भक्तिः सर्वकालं ममैव तु ॥ ७८.६ ॥
स्वेच्छाचारी भवे देव वेदवेदाङ्गपारगः ।
त्रिकालज्ञो जगन्नाथ गीतज्ञोऽहं सदा भवे ॥ ७८.७ ॥
दिने दिने यथा युद्धं देवदानवमानुषैः ।
पाताले मर्त्यलोके वा स्वर्गे वापि महेश्वर ॥ ७८.८ ॥
पश्येयं त्वत्प्रसादेन भवन्तं पार्वतीं तथा ।
तीर्थं लोकेषु विख्यातं सर्वपापक्षयंकरम् ॥ ७८.९ ॥
ईश्वर उवाच -
एवं नारद सर्वं तु भविष्यति न संशयः ।
चिन्तितं मत्प्रसादेन सिध्यते नात्र संशयः ॥ ७८.१० ॥
स्वेच्छाचारो भवेर्वत्स स्वर्गे पातालगोचरे ।
मर्त्ये वा भ्रम वै योगिन्न केनापि निवार्यसे ॥ ७८.११ ॥
सप्त स्वरास्त्रयो ग्रामा मूर्च्छनाश्चैकविंशतिः ।
ताना एकोनपञ्चाशत्प्रसादान्मे तव ध्रुवम् ॥ ७८.१२ ॥
मम प्रियंकरं दिव्यं नृत्यगीतं भविष्यति ।
कलिं च पश्यसे नित्यं देवदानवकिन्नरैः ॥ ७८.१३ ॥
त्वत्तीर्थं भूतले पुण्यं मत्प्रसादाद्भविष्यति ।
वेदवेदाङ्गतत्त्वज्ञो ह्यशेषज्ञानकोविदः ।
एकस्त्वमसि निःसङ्गो मत्प्रसादेन नारद ॥ ७८.१४ ॥
इत्युक्त्वान्तर्दधे देवो नारदस्तत्र शूलिनम् ।
स्थापयामास राजेन्द्र सर्वसत्त्वोपकारकम् ॥ ७८.१५ ॥
पृथिव्यामुत्तमं तीर्थं निर्मितं नारदेन तु ।
तत्र तीर्थे नृपश्रेष्ठ यो गच्छेद्विजितेन्द्रियः ॥ ७८.१६ ॥
मासि भाद्रपदे पार्थ कृष्णपक्षे चतुर्दशी ।
उपोष्य परया भक्त्या रात्रौ कुर्वीत जागरम् ॥ ७८.१७ ॥
छत्रं तत्र प्रदातव्यं ब्राह्मणे शुभलक्षणे ।
शस्त्रेण तु हता ये वै तेषां श्राद्धं प्रदापयेत् ।
ते यान्ति परमं लोकं पिण्डदानप्रभावतः ॥ ७८.१८ ॥
कपिला तत्र दातव्या पित्ःनुद्दिश्य भारत ।
इत्युच्चार्य द्विजे देया यान्तु ते परमां गतिम् ॥ ७८.१९ ॥
अस्य श्राद्धस्य भावेन ब्राह्मणस्य प्रसादतः ।
नर्मदातोयभावेन न्यायार्जितधनस्य च ।
तेषां चैव प्रभावेन प्रेता यान्तु परां गतिम् ॥ ७८.२० ॥
इत्युच्चार्य द्विजे देया दक्षिणा च स्वशक्तितः ।
हविष्यान्नं विशालाक्ष द्विजानां चैव दापयेत् ॥ ७८.२१ ॥
दीपं भक्त्या प्रदातव्यं नृत्यं गीतं च कारयेत् ।
अवाप्तं तेन वै सर्वं यः करोतीश्वरालये ॥ ७८.२२ ॥
स याति रुद्रसांनिध्यमिति रुद्रः स्वयं जगौ ।
विद्यादानेन चैकेन अक्षयां गतिमाप्नुयात् ॥ ७८.२३ ॥
धूर्वहास्तत्र दातव्या भूमिः सस्यवती नृप ।
चित्रभानुं शुभैर्मन्त्रैः प्रीणयेत्तत्र भक्तितः ॥ ७८.२४ ॥
आज्येन सुप्रभूतेन होमद्रव्येण भारत ।
ये यजन्ति सदा भक्त्या त्रिकालं नृत्यमेव च ॥ ७८.२५ ॥
तीर्थे नारदनामाख्ये रेवायाश्चोत्तरे तटे ।
चित्रभानुमुखा देवाः सर्वदेवमय ऋषिः ॥ ७८.२६ ॥
ऋषिणा प्रीणिताः सर्वे तस्मात्प्रीत्यो हुताशनः ।
पूजिते हव्यवाहे तु दारिद्र्यं नैव जायते ॥ ७८.२७ ॥
धनेन विपुला प्रीतिर्जायते प्रतिजन्मनि ।
कुलीनाश्च सुवेषाश्च सर्वकालं धनेन तु ॥ ७८.२८ ॥
प्लवो नदीनां पतिरङ्गनानां राजा च सद्वृत्तरतः प्रजानाम् ।
धनं नराणामृतवस्तरूणां गतं गतं यौवनमानयन्ति ॥ ७८.२९ ॥
धनदत्वं धनेशेन तस्मिंस्तीर्थे ह्युपार्जितम् ।
यमेन च यमत्वं हि इन्द्रत्वं चैव वज्रिणा ॥ ७८.३० ॥
अन्यैरपि महीपालैः पार्थिवत्वमुपार्जितम् ।
नारदेश्वरमाहात्म्याद्ध्रुवो निश्चलतां गतः ॥ ७८.३१ ॥
सर्वतीर्थवरं तीर्थं निर्मितं नारदेन तु ।
पृथिव्यां सागरान्तायां रेवायाश्चोत्तरे तटे ।
तद्वरं सर्वतीर्थानां महापातकनाशनम् ॥ ७८.३२ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नारदेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टसप्ततितमोऽध्यायः ॥