स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०६७

विकिस्रोतः तः
Jump to navigation Jump to search


अध्याय ६७

श्रीमार्कण्डेय उवाच -
तस्यैवानन्तरं तात जलमध्ये व्यवस्थितम् ।
लुङ्केश्वरमिति ख्यातं सुरासुरनमस्कृतम् ॥ ६७.१ ॥
इदं तीर्थं महापुण्यं नानाश्चर्यं महीतले ।
अस्य तीर्थस्य माहात्म्यमुत्पत्तिं शृणु भारत ॥ ६७.२ ॥
आसीत्पुरा महावीर्यो दानवो बलदर्पितः ।
कालपृष्ठ इति ख्यातः सुतो ब्रह्मसुतस्य च ॥ ६७.३ ॥
गङ्गातटं समाश्रित्य चचार विपुलं तपः ।
अधोमुखोऽपि संस्थित्वापिबद्धूममहर्निशम् ॥ ६७.४ ॥
ततश्चानन्तरं देवस्तिष्ठते ह्युमया सह ।
दृष्ट्वा तं पार्वती सा तु तपस्युग्रे व्यवस्थितम् ॥ ६७.५ ॥
पश्य पश्य महादेव धूमाशी तिष्ठते नरः ।
प्रसीद तं कुरुष्वाद्य देहि शीघ्रं वरं विभो ॥ ६७.६ ॥

ईश्वर उवाच -
यदुक्तं वचनं देवि न तन्मे रोचते प्रिये ।
स्वकार्यं च सदा चिन्त्यं परकार्यं विसर्जयेत् ॥ ६७.७ ॥
मूर्खस्त्रीबालशत्रूणां यश्छन्देनानुवर्तते ।
व्यसने पतते घोरे सत्यमेतदुदीरितम् ॥ ६७.८ ॥

देव्युवाच -
भार्ययाभ्यर्थितो भर्ता कारणं बहु भाषते ।
लघुत्वं याति सा नारी एवं शास्त्रेषु पठ्यते ॥ ६७.९ ॥
प्राणत्यागं करिष्यामि यदि मां त्वं न मन्यसे ।
पार्वत्या प्रेरितो देवो गतोऽसौ दानवं प्रति ॥ ६७.१० ॥

ईश्वर उवाच -
किमर्थं पिबसे धूमं किमर्थं तप्यसे तपः ।
किं दुःखं किं नु सन्तापो वद कार्यमभीप्सितम् ॥ ६७.११ ॥
युवा त्वं दृश्यसेऽद्यापि वर्षविंशतिरेव च ।
तदाचक्ष्व हि मे सर्वं तपसः कारणं महत् ॥ ६७.१२ ॥

दानव उवाच -
अचला दीयतां भक्तिर्मम स्थैर्यं तवोपरि ।
अपरं वर्षसाहस्रं निर्विघ्नं मे गतं विभो ॥ ६७.१३ ॥
दिवसानां सहस्रे द्वे पूर्णे त्वत्तपसा मम ॥ ६७.१४ ॥

ईश्वर उवाच -
याचयाभीप्सितं कार्यं तुष्टोऽहं तव सुव्रत ।
देवस्य वचनं श्रुत्वा चिन्तयामास दानवः ॥ ६७.१५ ॥
किं नाकं याचयाम्यद्य किमद्य सकलां महीम् ।
एवं संचिन्तयामास कामबाणेन पीडितः ॥ ६७.१६ ॥

दानव उवाच -
यदि तुष्टोऽसि मे देव वरं दास्यसि मे प्रभो ।
सङ्ग्रामैस्तु न तुष्टोऽहं बलं नास्तीति किंचन ॥ ६७.१७ ॥
यस्य मूर्धन्यहं देव पाणिना समुपस्पृशे ।
देवदानवगन्धर्वो भस्मसाद्यातु तत्क्षणात् ॥ ६७.१८ ॥

ईश्वर उवाच -
यत्त्वया चिन्तितं किंचित्तत्सर्वं सफलं तव ।
उत्तिष्ठ गच्छ शीघ्रं त्वं भवनं प्रति दानव ॥ ६७.१९ ॥

दानव उवाच -
स्थीयतां देवदेवेश यावज्ज्ञास्यामि ते वरम् ।
युष्मन्मूर्ध्नि न्यसे पाणिं प्रत्ययो मे भवेद्यथा ॥ ६७.२० ॥
ततश्चानन्तरं देवश्चिन्तयानो महेश्वरः ।
न स्कन्दो न हरिर्ब्रह्मा यः कार्येषु क्षमोऽधुना ॥ ६७.२१ ॥
ज्ञात्वा चैवापदं प्राप्तां देवः प्रार्थयते वृषम् ।
अनेन सह पापेन युध्यस्व साम्प्रतं क्षणम् ॥ ६७.२२ ॥
करं प्रासारयद्दैत्यो देवं मूर्ध्नि किल स्पृशेत् ।
लाङ्गूलेनाहतो दैत्यो विषण्णः पतितो भुवि ॥ ६७.२३ ॥
देवस्तु दक्षिणामाशां गतश्चैवोमया सह ।
भयभीतो निरीक्षेत ग्रीवां भज्य पुनःपुनः ॥ ६७.२४ ॥
गते चादर्शनं देवे युयुधे वृषभेण सः ।
द्वावेतौ बलिनां श्रेष्ठौ युयुधाते महाबलौ ॥ ६७.२५ ॥
प्रहारैर्वज्रसदृशैः कोपेन घटिकात्रयम् ।
पाणिभ्यां न स्पृशेद्यो वै वृषभस्य शिरस्तथा ॥ ६७.२६ ॥
हत्वा लाङ्गूलपातेन आगतो वृषभस्तदा ।
उत्थितश्चाप्यसौ दैत्यो व्रजते वृषपृष्ठतः ॥ ६७.२७ ॥
वायुवेगेन सम्प्राप्तो यत्र देवो महेश्वरः ।
आगतं दानवं दृष्ट्वा वृषो वचनमब्रवीत् ॥ ६७.२८ ॥
आरुह्य पृष्ठे मे देव शीघ्रमेव हि गम्यताम् ।
आरुह्य वृषभं देवो जगाम चोमया सह ॥ ६७.२९ ॥
नाकं प्राप्तस्ततो देवो गतः शक्रस्य मन्दिरम् ।
नात्यजद्देवपृष्ठं तु दानवो बलदर्पितः ॥ ६७.३० ॥
इन्द्रलोकं परित्यज्य ब्रह्मलोकं गतस्तदा ।
यत्रयत्र व्रजेद्देवो भयात्सह दिवौकसैः ॥ ६७.३१ ॥
अपश्यत्तत्र तत्रैव पृष्ठे लग्नं तु दानवम् ।
सर्वांल्लोकान् भ्रमित्वा तु देवो विस्मयमागतः ॥ ६७.३२ ॥
न स्थानं विद्यते किंचिद्यत्र विश्रम्यते क्षणम् ।
देवदानवयोस्तत्र युद्धं ज्ञात्वा सुदारुणम् ॥ ६७.३३ ॥
हर्षितात्मा मुनिस्तत्र चिरं नृत्यति नारदः ।
धन्योऽहमद्य मे जन्म जीवितं च सुजीवितम् ॥ ६७.३४ ॥
महान्तं च कलिं दृष्ट्वा संतोषः परमोऽभवत् ।
देवदानवयोस्तत्र युद्धं त्यक्त्वा च नारदः ॥ ६७.३५ ॥
आजगाम ततो विप्रो यत्र देवो महेश्वरः ।
दृष्ट्वा देवोऽथ तं विप्रं प्रतिपूज्याब्रवीदिदम् ॥ ६७.३६ ॥
भो नारद मुनिश्रेष्ठ जानीषे केशवं क्वचित् ।
गत्वा तत्र च शीघ्रं त्वं केशवाय निवेदय ॥ ६७.३७ ॥

नारद उवाच -
देवदानवसिद्धानां गन्धर्वोरगरक्षसाम् ।
सर्वेषामेव देवेशो हरते ध्रुवमापदम् ॥ ६७.३८ ॥
असंभाव्यं न वक्तव्यं मनसापि न चिन्तयेत् ।
ईदृशीं नैव बुध्यामि आपदं च विभो तव ॥ ६७.३९ ॥

ईश्वर उवाच -
गच्छ नारद शीघ्रं त्वं यत्र देवो जनार्दनः ।
विदितं च त्वया सर्वं यत्कृतं दानवेन तु ॥ ६७.४० ॥
अवध्यो दानवो ह्येष सेन्द्रैरपि मरुद्गणैः ।
गत्वा तु केशवं देवं निवेदय महामुने ॥ ६७.४१ ॥

नारद उवाच -
न तु गच्छाम्यहं देव सुप्तः क्षीरोदधौ सुखी ।
केशवः प्रेरणे ह्येषामादेशो दीयतां प्रभो ॥ ६७.४२ ॥
मात्रा स्वस्रा दुहित्रा वा राजानं च तथा प्रभुम् ।
गुरुं चैवादितः कृत्वा शयानं न प्रबोधयेत् ॥ ६७.४३ ॥

ईश्वर उवाच -
यदि क्वचिदगारेषु वह्निरुत्पद्यते महान् ।
निधनं यान्ति तत्रस्था यद्बुध्येरन्नसूरयः ॥ ६७.४४ ॥

नारद उवाच -
शीघ्रं गच्छ महादेव आत्मानं रक्ष सुप्रभो ।
गच्छाम्यहं न सन्देहो यत्र देवो जनार्दनः ॥ ६७.४५ ॥
ततो नन्दिमहाकालौ स्तम्भहस्तौ भयानकौ ।
जघ्नतुर्दानवं तत्र मुद्गरादिभिरायुधैः ॥ ६७.४६ ॥
त्रयोऽपि च महाकायाः सप्ततालप्रमाणकाः ।
न शमो जायते तेषां युध्यतां च परस्परम् ॥ ६७.४७ ॥
ततश्चानन्तरं विप्रोऽगच्छत्तं केशवं प्रति ।
सुप्तं क्षीरार्णवेऽपश्यच्छेषपर्यङ्कसंस्थितम् ॥ ६७.४८ ॥
लक्ष्म्या पादयुगं गृह्य ऊरूपरि निवेशितम् ।
अप्सरोगीयमानं तु भक्त्यानम्य च केशवम् ॥ ६७.४९ ॥
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ।
उत्थापयस्व देवेशं लक्ष्मि त्वमविशङ्किता ॥ ६७.५० ॥
नारदस्य वचः श्रुत्वा पदाङ्गुष्ठं व्यमर्दयत् ।
नारदस्तिष्ठते द्वारि उत्तिष्ठ मधुसूदन ॥ ६७.५१ ॥
देवोऽपि नारदं दृष्ट्वा परं हर्षमुपागतः ।
स्वागतं तु मुनिश्रेष्ठ सुप्रभाताद्य शर्वरी ॥ ६७.५२ ॥

नारद उवाच -
अद्य मे सफलं देव प्रभातं तव दर्शनात् ।
कुशलं च न देवानां शीघ्रमुत्तिष्ठ गम्यताम् ॥ ६७.५३ ॥

श्रीविष्णुरुवाच -
ब्रह्मा चेन्द्रश्च रुद्रश्च ये चान्ये तु मरुद्गणाः ।
आपदः कारणं यच्च तत्समाख्यातुमर्हसि ॥ ६७.५४ ॥

नारद उवाच -
दानवेन महातीव्रं तपस्तप्तं सुदारुणम् ।
रुद्रेण च वरो दत्तो भस्मत्वं मनसेप्सितम् ॥ ६७.५५ ॥
वरदानबलेनैव स देवं हन्तुमर्हति ।
ईदृशं चेष्टितं ज्ञात्वा नीतो देवोऽमरैः सह ॥ ६७.५६ ॥
नारदस्य वचः श्रुत्वा जगाम समुनिर्हरिः ।
दृष्ट्वा देवस्तमीशानं गच्छन्तं दिशमुत्तराम् ॥ ६७.५७ ॥
दृष्ट्वा देवं च रुद्रोऽथ परिष्वज्य पुनःपुनः ।
नमस्कृत्य जगन्नाथं देवं च मधुसूदनः ॥ ६७.५८ ॥

विष्णुरुवाच -
भयस्य कारणं देव कथ्यतां च महेश्वर ।
देवदानवयक्षाणां प्रेषयेयं यमालयम् ॥ ६७.५९ ॥
ललाटे च कृतो धर्मो युष्माकं च महेश्वर ।
छित्त्वा शिरस्तथाङ्गानि इन्द्रियाणि न संशयः ॥ ६७.६० ॥

ईश्वर उवाच -
नास्ति सौख्यं च मूर्खेषु नास्ति सौख्यं च रोगिषु ।
पराधीनेन सौख्यं तु स्त्रीजिते च विशेषतः ॥ ६७.६१ ॥
स्त्रीजितेन मया विष्णो वरो दत्तस्तु दानवे ।
यस्य मूर्ध्नि न्यसेत्पाणिं स भवेद्भस्मपुंजवत् ॥ ६७.६२ ॥
अजेयश्चामरश्चैव मया ह्युक्तः स केशव ।
हन्तुमिच्छति मां पाप उपायस्तव विद्यते ॥ ६७.६३ ॥

विष्णुरुवाच -
गच्छन्तु अमराः सर्वे युष्माभिः सह शङ्कर ।
उपायं सर्जयाम्यद्य वधार्थं दानवस्य च ॥ ६७.६४ ॥
रेवायाश्च तटे तिष्ठ देव त्वममरैः सह ।
कालक्षेपो न कर्तव्यो गम्यतां त्वरितं प्रभो ॥ ६७.६५ ॥
दक्षिणा यत्र गङ्गा च रेवा चैव महानदी ।
यत्रयत्र च दृश्येत प्राची चैव सरस्वती ॥ ६७.६६ ॥
तत्समं च महातीर्थं न मर्त्ये चैव दृश्यते ।
स्नानं ये तत्र कुर्वन्ति दानं चैव तु भक्तितः ॥ ६७.६७ ॥
सप्तजन्मकृतं पापं नश्यते नात्र संशयः ।
एतत्तीर्थं महापुण्यं सर्वपातकनाशनम् ॥ ६७.६८ ॥
गम्यतां तत्र देवेश लुङ्केशं त्वं सहामरैः ।
विष्णोस्तु वचनादेव प्रविष्टो ह्रदमुत्तमम् ॥ ६७.६९ ॥
रतिं सुमहतीं चक्रे सह तत्र मरुद्गणैः ।
ततश्चानन्तरं देवो मायां कृत्वा ह्यनेकधा ॥ ६७.७० ॥
वसन्तमासं संसृज्य उद्यानवनशोभितम् ।
अशोकैर्बकुलैश्चैव ब्रह्मवृक्षैः सुशोभनैः ॥ ६७.७१ ॥
श्रीवृक्षैश्च कपित्थैश्च शिरीषैर्राजचम्पकैः ।
श्रीफलैश्च तथा तालैः कदम्बोदुम्बरैस्तथा ॥ ६७.७२ ॥
अश्वत्थादिद्रुमैश्चैव नानावृक्षैरनेकशः ।
नानापुष्पैः सुगन्धाढ्यैर्भ्रमरैश्च निनादितम् ॥ ६७.७३ ॥
तस्मिन्मध्ये महावृक्षो न्यग्रोधश्च सुशोभनः ।
बहुपक्षिसमायुक्तः कोकिलारावनादितः ॥ ६७.७४ ॥
कृष्णेन च कृतं तस्मिन्कन्यारूपं च तत्क्षणात् ।
न तस्याः सदृशी कन्या त्रैलोक्ये सचराचरे ॥ ६७.७५ ॥
अन्याश्च कन्यकाः सप्त सुरूपाः शुभलोचनाः ।
दिव्यरूपधराः सर्वा दिव्याभरणभूषिताः ॥ ६७.७६ ॥
पुमांसमभिकाङ्क्षन्त्यो यद्येकः कामयेत्स्त्रियः ।
मौक्तिकैर्रत्नमाणिक्यैर्वैडूर्यैश्च सुशोभनैः ॥ ६७.७७ ॥
कामहारैश्च वंशैश्च बद्धो हिन्दोलकः कृतः ।
आरूढाश्च महाकन्या गायन्ते सुस्वरं तदा ॥ ६७.७८ ॥
मारुतः शीतलो वाति वनं स्पृष्ट्वा सुशोभनम् ।
वातेन प्रेरितो गन्धो दानवो घ्राणपीडितः ॥ ६७.७९ ॥
ततः कुसुमगन्धेन विस्मयं परमं गतः ।
आघ्राय चेदृशं पुण्यं न दृष्टं न श्रुतं मया ॥ ६७.८० ॥
वने चिन्तयतः किंचिद्ध्वनिगीतं सुशोभनम् ।
गीतस्य च ध्वनिं श्रुत्वा मोहितो मायया हरेः ॥ ६७.८१ ॥
व्याधस्यैव महाकूटे पतन्ति च यथा मृगाः ।
कालस्पृष्टस्तथा कृष्णे पतितश्च नराधिप ॥ ६७.८२ ॥
दृष्ट्वा कन्यां च तां दैत्यो मूर्च्छया पतितो भुवि ।
पतितेन तु दृष्टैका कन्या वटतले स्थिता ॥ ६७.८३ ॥
आस्यं दृष्ट्वा तु नारीणां पुनः कामेन पीडितः ।
गृहीत्वा हेमदण्डं तु तां पातयितुमिच्छति ॥ ६७.८४ ॥

कन्योवाच -
मा मानुस्पर्शयत्वं हि कुमार्यहं कुलोत्तम ।
भो मुञ्च मुञ्च मां शीघ्रं यावद्गच्छाम्यहं गृहम् ॥ ६७.८५ ॥

दानव उवाच -
अहं विवाहमिच्छामि त्वया सह सुशोभने ।
भूपृष्ठे सकले राज्ञी भवस्येवं न संशयः ॥ ६७.८६ ॥

कन्योवाच -
पिता रक्षति कौमार्ये भर्ता रक्षति यौवने ।
पुत्रो रक्षति वृद्धत्वे न स्त्री स्वातन्त्र्यमर्हति ॥ ६७.८७ ॥
न स्वातन्त्र्यं ममैवास्ति उत्पन्नाहं महत्कुले ।
याच्यस्तु मत्पिता भ्राता मातापि हि तथैव च ॥ ६७.८८ ॥

दानव उवाच -
यदि मां नेच्छसे त्वद्य स्वातन्त्र्यं नावलम्बसे ।
ममापि च तदा हत्या सत्यं च शुभलोचने ॥ ६७.८९ ॥

कन्योवाच -
विश्वासो नैव कर्तव्यो यादृशे तादृशे नरे ।
नराः स्त्रीषु विचित्राश्च लम्पटाः काममोहिताः ॥ ६७.९० ॥
परिणीय तु मां त्वं हि भुङ्क्ष्व भोगान्मया सह ।
जन्मनाशो भवेत्पश्चान्न त्वं नान्यो भवेन्मम ॥ ६७.९१ ॥
ब्राह्मणी क्षत्रिणी वैशी शूद्री यावत्तथैव च ।
द्वितीयो न भवेद्भर्ता एकाकी चेह जन्मनि ॥ ६७.९२ ॥

दानव उवाच -
यत्त्वया गदितं वाक्यं तन्मया धारितं हृदि ।
प्रत्ययं मे कुरुष्वाद्य यत्ते मनसि रोचते ॥ ६७.९३ ॥

कन्योवाच -
जानीष्व गोपकन्यां मां क्रीडामि सखिभिः सह ।
अस्मत्कुलेषु यद्दिव्यं तत्कुरुष्व यथाविधि ॥ ६७.९४ ॥
न तद्दिव्यं कुलेऽस्माकं विषं कोशं न तत्तुला ।
गोपान्वयेषु सर्वेषु हस्तः शिरसि दीयते ॥ ६७.९५ ॥
कामान्धेनैव राजेन्द्र निक्षिप्तो मस्तके करः ।
तत्क्षणाद्भस्मसाद्भूतो दग्धस्तृणचयो यथा ॥ ६७.९६ ॥
केशवोपरि देवैस्तु पुष्पवृष्टिः शुभा कृता ।
हृष्टाः सर्वेऽगमन्देवाः स्वस्थानं विगतज्वराः ॥ ६७.९७ ॥
क्षीरोदं केशवो गच्छत्कालपृष्ठे निपातिते ।
य इदं शृणुयाद्भक्त्या चरितं दानवस्य च ॥ ६७.९८ ॥
स जयी जायते नित्यं शङ्करस्य वचो यथा ।
एतस्मात्कारणाद्राजंल्लिङ्गेश्वरमिति श्रुतम् ॥ ६७.९९ ॥
लीनं च पातकं यस्मात्स्नानमात्रेण नश्यति ।
त्वगस्थि शोणितं मांसं मेदःस्नायुस्तथैव च ॥ ६७.१०० ॥
मज्जाशुक्रगतं पापं नश्यते जन्मकोटिजम् ।
लुङ्केश्वरे महाराज तोयं पिबति भक्तितः ॥ ६७.१०१ ॥
त्रिभिः प्रसृतिमात्राभिः पापं याति सहस्रधा ।
विशेषेण चतुर्दश्यामुभौ पक्षौ तु चाष्टमी ॥ ६७.१०२ ॥
उपोष्य यो नरो भक्त्या पित्ःणां पाण्डुनन्दन ।
उद्धृतास्तेन ते सर्वे नारकीयाः पितामहाः ॥ ६७.१०३ ॥
काकिणीं चैव यो दद्याद्ब्राह्मणे वेदपारगे ।
तेन दानफलं सर्वं कुरुक्षेत्रादिकं च यत् ॥ ६७.१०४ ॥
प्राप्तं तु नान्यथा राजञ्छङ्करो वदते त्विदम् ।
स्पर्शलिङ्गमिदं राजञ्छङ्करेण तु निर्मितम् ॥ ६७.१०५ ॥
स्पर्शमात्रे मनुष्याणां रुद्रवासोऽभिजायते ।
तेन दानफलं सर्वं कुरुक्षेत्रादिकं च यत् ॥ ६७.१०६ ॥
एतस्मात्कारणाद्राजंल्लोकपालाश्च रक्षकाः ।
दुर्गा च रक्षणे सृष्टा चतुर्हस्तधरा शुभा ॥ ६७.१०७ ॥
धनदो लोकपालेशो रक्षकश्चेश्वरस्य च ।
रक्षति च सदा कालं ग्रहव्यापाररूपतः ॥ ६७.१०८ ॥
पुत्रभ्रातृसमारूपैः स्वामिसम्बन्धरूपिभिः ।
लङ्केश्वरं च राजेन्द्र देवैर्नाद्यापि मुच्यते ॥ ६७.१०९ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे लुङ्केश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तषष्टितमोऽध्यायः ॥