स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०६४

विकिस्रोतः तः


अध्याय ६४

श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् ।
नराणां पापनाशाय अगस्त्येश्वरमुत्तमम् ॥ ६४.१ ॥
तत्र स्नात्वा नरो राजन्मुच्यते ब्रह्महत्यया ।
कार्त्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशी ॥ ६४.२ ॥
घृतेन स्नापयेद्देवं समाधिस्थो जितेन्द्रियः ।
एकविंशतिकुलोपेतो च्यवेदैश्वरात्पदात् ॥ ६४.३ ॥
धनं चोपानहौ छत्रं दद्याच्च घृतकम्बलम् ।
भोजनं चैव सर्वेषां सर्वं कोटिगुणं भवेत् ॥ ६४.४ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अगस्त्येश्वरतीर्थमाहात्म्यवर्णनं नाम चतुःषष्टितमोऽध्यायः ॥