स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०५८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५७ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्
अध्यायः ५८
वेदव्यासः
अध्यायः ५९ →


अध्याय ५८

उत्तानपाद उवाच -
अथातो देवदेवेश भानुमत्यकरोच्च किम् ।
एष मे संशयो देव कथयस्व प्रसादतः ॥ ५८.१ ॥

ईश्वर उवाच -
चिन्तयित्वा मुहूर्तं सा गता कुण्डस्य सन्निधौ ।
दृष्ट्वा कुण्डस्य माहात्म्यं राज्ञी हर्षेण पूरिता ॥ ५८.२ ॥
विप्रान् बहून् समाहूय पूजयामास तत्क्षणात् ।
दत्त्वा तु विधिवद्दानं ब्राह्मणेभ्यो नृपात्मज ॥ ५८.३ ॥
निश्चयं परमं कृत्वा स्थिता शान्तेन चेतसा ।
ततः सम्पूज्य विधिवत्पितॄन्देवान्नराधिप ॥ ५८.४ ॥
क्षपयित्वा पक्षमेकं मधुमासस्य सा स्थिता ।
अमावास्यां ततो राज्ञी गता पर्वतसन्निधौ ॥ ५८.५ ॥
नगशृङ्गं समारुह्य कृत्वा मुकुलितौ करौ ।
विज्ञाप्य ब्राह्मणान् सर्वानिदं वचनमब्रवीत् ॥ ५८.६ ॥
मम माता पिता भ्राता ये चान्ये सखिबान्धवाः ।
क्षमापयित्वा सर्वांस्तान्वचनं मम कथ्यताम् ॥ ५८.७ ॥
त्वत्पुत्री शूलभेदे तु तपः कृत्वा स्वशक्तितः ।
विसृज्य चैव सात्मानं तस्मिंस्तीर्थे दिवं ययौ ॥ ५८.८ ॥
ब्राह्मणा ऊचुः ।
संदेशं कथयिष्यामस्त्वयोक्तं शोभनव्रते ।
मातापितृभ्यां सुश्रोणि मा तेऽभूदत्र संशयः ॥ ५८.९ ॥
ततो विसृज्य तांल्लोकान् स्थिता पर्वतमूर्धनि ।
अर्धोत्तरीयवस्त्रेण गाढं बद्धा पुनःपुनः ॥ ५८.१० ॥
ततश्चिक्षेप सात्मानमेकचित्ता नराधिप ।
नगार्द्धे पतिता यावत्तावद्दृष्टाः सुराङ्गनाः ॥ ५८.११ ॥
भोभो वत्से महाभागे भानुमत्यतितापसि ।
दिव्यं विमानमारुह्य कैलासं प्रति गम्यताम् ॥ ५८.१२ ॥
ततः सा पश्यतां तेषां जनानां त्रिदिवं गता ॥ ५८.१३ ॥

मार्कण्डेय उवाच -
इति ते कथितः सर्वः शूलभेदस्य विस्तरः ।
यः श्रुतः शङ्करात्पूर्वमृषिदेवसमागमे ॥ ५८.१४ ॥
य इदं पठते भक्त्या तीर्थे देवकुलेऽपि वा ।
स मुच्यते महापापादपि जन्मशतार्जितात् ॥ ५८.१५ ॥
ब्रह्महा च सुरापी च स्तेयी च गुरुतल्पगः ।
गोघाती स्त्रीविघाती च देवब्रह्मस्वहारकः ॥ ५८.१६ ॥
स्वामिद्रोही मित्रघाती तथा विश्वासघातकः ।
परन्यासापहारी च परनिक्षेपलोपकः ॥ ५८.१७ ॥
रसभेदी तुलाभेदी तथा वार्द्धुषिकस्तु यः ।
यः कन्याविघ्नकर्ता च तथा विक्रयकारकः ॥ ५८.१८ ॥
परभार्या भ्रातृभार्या गौः स्नुषा कन्यका तथा ।
अभिगामी परद्वेषी तथा धर्मप्रदूषकः ॥ ५८.१९ ॥
मुच्यन्ते सर्वे एवैते शूलभेदप्रभावतः ॥ ५८.२० ॥
य इदं श्रावयेच्छ्राद्धे विप्राणां भुञ्जतां नृप ।
मुदं प्रयान्ति संहृष्टाः पितरस्तस्य सर्वशः ॥ ५८.२१ ॥
यश्चेदं शृणुयाद्भक्त्या पठ्यमानं नरो वशी ।
स मुक्तः सर्वपापेभ्यः सर्वकल्याणभाग्भवेत् ॥ ५८.२२ ॥
इदं यशस्यमायुष्यमिदं पावनमुत्तमम् ।
पठतां शृण्वतां नृणामायुःकीर्तिविवर्धनम् ॥ ५८.२३ ॥
इति कथितमिदं ते शूलभेदस्य पुण्यं महिमन हि मनुष्यैः श्रूयते यत्सपापैः ।
मदनरिपुतटिन्या याम्यकूलस्थितस्य प्रबलदुरितकन्दोच्छेदकुद्दालकल्पम् ॥ ५८.२४ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदतीर्थमाहात्म्यवर्णनं नामाष्टपञ्चाशत्तमोऽध्यायः॥

शूलभेदमाहात्म्यं समाप्तम्