स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०५६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५५ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्
अध्यायः ५६
वेदव्यासः
अध्यायः ५७ →


अध्याय ५६

उत्तानपाद उवाच -
अन्यच्च श्रोतुमिच्छामि केन गङ्गावतारिता ।
रुद्रशीर्षे स्थिता देवी पुण्या कथमिहागता ॥ ५६.१ ॥
पुण्या देवाशिला नाम तस्या माहात्म्यमुत्तमम् ।
एतदाख्याहि मे सर्वं प्रसन्नो यदि शङ्कर ॥ ५६.२ ॥

ईश्वर उवाच -
शृणुष्वैकमना भूत्वा यथा गङ्गावतारिता ।
देवैः सर्वैर्महाभागा सर्वलोकहिताय वै ॥ ५६.३ ॥
अस्ति विन्ध्यो नगो नाम याम्याशायां महीपते ।
गीर्वाणास्तु गताः सर्वे तस्य मूर्ध्नि नरेश्वर ॥ ५६.४ ॥
तत्र चाह्वानिता गङ्गा ब्रह्माद्यैरखिलैः सुरैः ।
अभ्यर्च्येशं जगन्नाथं देवदेवं जगद्गुरुम् ॥ ५६.५ ॥
जटामध्यस्थितां गङ्गां मोचयस्वेति भूतले ।
भास्वन्ती सा ततो मुक्ता रुद्रेण शिरसा भुवि ॥ ५६.६ ॥
तत्र स्थाने महापुण्या देवैरुत्पादिता स्वयम् ।
ततो देवनदी जाता सा हिताय नृणां भुवि ॥ ५६.७ ॥
वसन्ति ये तटे तस्याः स्नानं कुर्वन्ति भक्तितः ।
पिबन्ति च जलं नित्यं न ते यान्ति यमालयम् ॥ ५६.८ ॥
यत्र सा पतिता कुण्डे शूलभेदे नराधिप ।
देवनद्याः प्रतीच्यां तु तत्र प्राची सरस्वती ॥ ५६.९ ॥
याम्यायां शूलभेदस्य तत्र तीर्थमनुत्तमम् ।
तत्र देवशिला पुण्या स्वयं देवेन निर्मिता ॥ ५६.१० ॥
तत्र स्नात्वा तु यो भक्त्या तर्पयेत्पितृदेवताः ।
पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम् ॥ ५६.११ ॥
तत्र स्नात्वा तु यो भक्त्या ब्राह्मणान् भोजयेन्नृप ।
स्वल्पान्नेनापि दत्तेन तस्य चान्तो न विद्यते ॥ ५६.१२ ॥

उत्तानपाद उवाच -
कानि दानानि दत्तानि शस्तानि धरणीतले ।
यानि दत्त्वा नरो भक्त्या मुच्यते सर्वपातकैः ॥ ५६.१३ ॥
देवशिलाया माहात्म्यं स्नानदानादिजं फलम् ।
व्रतोपवासनियमैर्यत्प्राप्यं तद्वदस्व मे ॥ ५६.१४ ॥

ईश्वर उवाच -
आसीत्पुरा महावीर्यश्चेदिनाथो महाबलः ।
वीरसेन इति ख्यातो मण्डलाधिपतिर्नृप ॥ ५६.१५ ॥
राष्ट्रे तस्य रिपुर्नास्ति न व्याधिर्न च तस्कराः ।
न चाधर्मोऽभवत्तत्र धर्म एव हि सर्वदा ॥ ५६.१६ ॥
सदा मुदान्वितो राजा सभार्यो बहुपुत्रकः ।
एकासीद्दुहिता तस्य सुरूपा गिरिजा यथा ॥ ५६.१७ ॥
इष्टा सा पितृमातृभ्यां बन्धुवर्गजनस्य च ।
कृतं वैवाहिकं कर्म काले प्राप्ते यथाविधि ॥ ५६.१८ ॥
अनन्तरं चेदिपतिर्द्वादशाब्दमखे स्थितः ।
ततस्तस्यास्तु यो भर्ता स मृत्युवशमागतः ॥ ५६.१९ ॥
विधवां तां सुतां दृष्ट्वा राजा शोकसमन्वितः ।
उवाच वचनं तत्र स्वभार्यां दुःखपीडिताम् ॥ ५६.२० ॥
प्रिये दुःखमिदं जातं यावज्जीवं सुदुःसहम् ।
नैषा रक्षयितुं शक्या रूपयौवनगर्विता ॥ ५६.२१ ॥
दूषयेत कुलं क्वापि कथं रक्ष्या हि बालिका ।
नोपायो विद्यते क्वापि भानुमत्याश्च रक्षणे ।
परस्परं विवदतोः श्रुत्वा तत्कन्यकाब्रवीत् ॥ ५६.२२ ॥

भानुमत्युवाच -
न लज्जामि तवाग्रेऽहं जल्पन्ती तात कर्हिचित् ।
सत्यं नोत्पद्यते दोषो मदर्थे ते नराधिप ॥ ५६.२३ ॥
अद्यप्रभृत्यहं तात धारयिष्ये न मूर्धजान् ।
स्थूलवस्त्रपटार्द्धं तु धारयिष्यामि ते गृहे ॥ ५६.२४ ॥
करिष्यामि व्रतान्याशु पुराणविहितानि च ।
आत्मानं शोषयिष्यामि तोषयिष्ये जनार्दनम् ॥ ५६.२५ ॥
ममैषा वर्तते बुद्धिर्यदि त्वं तात मन्यसे ।
भानुमत्या वचः श्रुत्वा राजा संहर्षितोऽभवत् ॥ ५६.२६ ॥
तीर्थयात्रां समुद्दिश्य कोशं दत्त्वा सुपुष्कलम् ।
विसृज्य पुरुषान्वृद्धान् कृत्वा तस्याः सुरक्षणे ॥ ५६.२७ ॥
पुरुषान् सायुधांश्चापि ब्राह्मणान्सपुरोहितान् ।
दासीदासान्पदातींश्च चास्याः संरक्षणक्षमान् ॥ ५६.२८ ॥
ततः पितुर्मतेनैव गङ्गातीरं गता सती ।
अवगाह्य तटे द्वे तु गङ्गायाः स नराधिप ॥ ५६.२९ ॥
नित्यं सम्पूज्य सद्विप्रान्गन्धमाल्यादिभूषणैः ।
द्वादशाब्दानि सा तीरे गङ्गायाः समवस्थिता ॥ ५६.३० ॥
त्यक्त्वा गङ्गां तदा राज्ञी गता काष्ठां तु दक्षिणाम् ।
प्राप्ता सा सचिवैः सार्द्धं यत्र रेवा महानदी ॥ ५६.३१ ॥
समाः पञ्च स्थिता तत्र ओङ्कारेऽमरकण्टके ।
उदग्याम्येषु तीर्थेषु तीर्थात्तीर्थं जगाम सा ॥ ५६.३२ ॥
स्नात्वा स्नात्वा पूज्य विप्रान् भक्तिपूर्वमतन्द्रिता ।
वारुणीं सा दिशं गत्वा देवनद्याश्च सङ्गमे ॥ ५६.३३ ॥
ददर्श चाश्रमं पुण्यं मुनिसङ्घैः समाकुलम् ।
दृष्ट्वा मुनिसमूहं सा प्रणिपत्येदमब्रवीत् ॥ ५६.३४ ॥
माहात्म्यमस्य तीर्थस्य नाम चैवास्य कीदृशम् ।
कथयन्तु महाभागाः प्रसादः क्रियतां मम ॥ ५६.३५ ॥
ऋषय ऊचुः ।
चक्रतीर्थं तु विख्यातं चक्रं दत्तं पुरा हरेः ।
महेश्वरेण तुष्टेन देवदेवेन शूलिना ॥ ५६.३६ ॥
अत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ।
अनिवर्तिका गतिस्तस्य जायते नात्र संशयः ॥ ५६.३७ ॥
द्वितीयेऽह्नि ततो गच्छेच्छूलभेदे तपस्विनि ।
पूर्वोक्तेन विधानेन स्नानं कुर्याद्यथाविधि ॥ ५६.३८ ॥
जन्मत्रयकृतैः पापैर्मुच्यते नात्र संशयः ।
जलेन तिलमात्रेण प्रदद्यादञ्जलित्रयम् ॥ ५६.३९ ॥
तृप्यन्ति पितरस्तस्य द्वादशाब्दान्यसंशयम् ।
यः श्राद्धं कुरुते भक्त्या श्रोत्रियैर्ब्राह्मणैर्नृप ॥ ५६.४० ॥
वार्द्धुष्याद्यास्तु वर्ज्यन्ते पित्ःणां दत्तमक्षयम् ।
अपरेऽह्णि ततो गच्छेत्पुण्यां देवशिलां शुभाम् ॥ ५६.४१ ॥
वीक्ष्यते जाह्नवी पुण्या देवैरुत्पादिता पुरा ।
स्नात्वा तत्र जलं दद्यात्तिलमिश्रं नराधिप ॥ ५६.४२ ॥
सकृत्पिण्डप्रदानेन मुच्यते ब्रह्महत्यया ।
एकादश्यामुपोषित्वा पक्षयोरुभयोरपि ॥ ५६.४३ ॥
क्षपाजागरणं कुर्यात्पठेत्पौराणिकीं कथाम् ।
विष्णुपूजां प्रकुर्वीत पुष्पधूपनिवेदनैः ॥ ५६.४४ ॥
प्रभाते भोजयेद्विप्रान् दानं दद्यात्सशक्तितः ।
चतुर्थेऽह्नि ततो गच्छेद्यत्र प्राची सरस्वती ॥ ५६.४५ ॥
ब्रह्मदेहाद्विनिष्क्रान्ता पावनार्थं शरीरिणाम् ।
तत्र स्नात्वा नरो भक्त्या तर्पयेत्पितृदेवताः ॥ ५६.४६ ॥
श्राद्धं कृत्वा यथान्यायमनिन्द्यान् भोजयेद्द्विजान् ।
पितरस्तस्य तृप्यन्ति द्वादशाब्दान्यसंशयम् ॥ ५६.४७ ॥
सर्वदेवमयं स्थानं सर्वतीर्थमयं तथा ।
देवकोटिसमाकीर्णं कोटिलिङ्गोत्तमोत्तमम् ॥ ५६.४८ ॥
त्रिरात्रं कुरुते योऽत्र शुचिः स्नात्वा जितेन्द्रियः ।
पक्षं मासं च षण्मासमब्दमेकं कदाचन ॥ ५६.४९ ॥
न तस्य सम्भवो मर्त्ये तस्य वासो भवेद्दिवि ।
नियमस्थो विमुच्येत त्रिजन्मजनितादघात् ॥ ५६.५० ॥
विना पुंसा तु या नारी द्वादशाब्दं शुचिव्रता ।
तिष्ठते साक्षयं कालं रुद्रलोके महीयते ॥ ५६.५१ ॥
मुनीनां वचनं श्रुत्वा मुदा परमया ययौ ।
ततोऽवगाह्य तत्तीर्थमहर्निशमतन्द्रिता ॥ ५६.५२ ॥
दृष्ट्वा तीर्थप्रभावं तु पुनर्वचनमब्रवीत् ।
श्रूयतां वचनं मेऽद्य ब्राह्मणाः सपुरोहिताः ॥ ५६.५३ ॥
न त्यजामीदृशं स्थानं यावज्जीवमहर्निशम् ।
मत्पितुश्च तथा मातुः कथयध्वमिदं वचः ॥ ५६.५४ ॥
त्वत्कन्या शूलभेदस्था नियता व्रतचारिणी ।
एवमुक्त्वा स्थिता सा तु तत्र भानुमती नृपः ॥ ५६.५५ ॥
एकान्तरोपवासस्था शनैर्मासोपवासिता ।
देवशिलास्थिता नित्यं दध्यौ सा चक्रपाणिनम् ॥ ५६.५६ ॥
अहर्निशं दहेद्धूपं चन्दनं च सदीपकम् ।
पादशौचं स्वयं कृत्वा स्वयं भोजयते द्विजान् ।
द्वादशाब्दानि सा राज्ञी सुव्रता तत्र संस्थिता ॥ ५६.५७ ॥

ईश्वर उवाच -
अन्यद्देवशिलायास्तु माहात्म्यं शृणु भूपते ।
कथयामि महाबाहो सेतिहासं पुरातनम् ॥ ५६.५८ ॥
कश्चिद्वनेचरो व्याधः शबरः सह भार्यया ।
दुर्भिक्षपीडितस्तत्र आमिषार्थं वनं गतः ॥ ५६.५९ ॥
नापश्यत्पक्षिणस्तत्र न मृगान्न फलानि च ।
सरस्ततो ददर्शाथ पद्मिनीखण्डमण्डितम् ॥ ५६.६० ॥
दृष्ट्वा सरोवरं तत्र शबरी वाक्यमब्रवीत् ।
कुमुदानि गृहाण त्वं दिव्यान्याहारसिद्धये ॥ ५६.६१ ॥
देवस्य पूजनार्थं तु शूलभेदस्य यत्नतः ।
विक्रयो भविता तत्र धर्मशीलो जनो यतः ॥ ५६.६२ ॥
भार्याया वचनं श्रुत्वा जग्राह कुमुदानि सः ।
उत्तीर्णस्तु तटे यावद्दृष्ट्वा श्रीवृक्षमग्रतः ॥ ५६.६३ ॥
श्रीफलानि गृहीत्वा तु सुपक्वानि विशेषतः ।
शूलभेदं स सम्प्राप्तो ददर्श सुबहूञ्जनान् ॥ ५६.६४ ॥
चैत्रमासे सिते पक्षे एकादश्यां नराधिप ।
तस्मिन्नहनि नाश्नीयुर्बाला वृद्धास्तथा स्त्रियः ॥ ५६.६५ ॥
मण्डपं ददृशे तत्र कृतं देवशिलोपरि ।
वस्त्रैः संवेष्टितं दिव्यं स्रङ्माल्यैरुपशोभितम् ॥ ५६.६६ ॥
ऋषयश्चागतास्तत्र ये चाश्रमनिवासिनः ।
सोपवासाः सनियमाः सर्वे साग्निपरिग्रहाः ॥ ५६.६७ ॥
देवनद्यास्तटे रम्ये मुनिसङ्घैः समाकुले ।
आगच्छद्भिर्नृपश्रेष्ठ मार्गस्तत्र न लभ्यते ॥ ५६.६८ ॥
दृष्ट्वा जनपदं तत्र तां भार्यां शबरोऽब्रवीत् ।
गच्छ पृच्छस्व किमपि किमद्य स्नानकारणम् ॥ ५६.६९ ॥
पर्वाणि यानि श्रूयन्ते किंस्वित्सूर्येन्दुसम्प्लवः ।
अयनं किं भवेदद्य किं वाक्षयतृतीयका ॥ ५६.७० ॥
ततः स्वभर्तुर्वचनाच्छबरी प्रस्थिता तदा ।
पप्रच्छ नारीं दृष्ट्वाग्रे दत्त्वाग्रे कमले शुभे ॥ ५६.७१ ॥
तिथिरद्यैव का प्रोक्ता किं पर्व कथयस्व मे ।
किमयं स्नाति लोकोऽयं किं वा स्नानस्य कारणम् ॥ ५६.७२ ॥

नार्युवाच -
अद्य चैकादशी पुण्या सर्वपापक्षयंकरी ।
उपोषिता सकृद्येन नाकप्राप्तिं करोति सा ॥ ५६.७३ ॥
तस्यास्तद्वचनं श्रुत्वा शबरी शाबराय वै ।
कथयामास चाव्यग्रा स्त्रीवाक्यं नृपसत्तम ॥ ५६.७४ ॥
अद्य त्वेकादशी पुण्या बालवृद्धैरुपोषिता ।
मदनैकादशी नाम सर्वपापक्षयंकरी ॥ ५६.७५ ॥
नियता श्रूयते तत्र राजपुत्री सुशोभना ।
व्रतस्था नियताहारा नाम्ना भानुमती सती ॥ ५६.७६ ॥
नैतया सदृशी काचित्त्रिषु लोकेषु विश्रुता ।
दृश्यते सा वरारोहा ह्यवतीर्णा महीतले ॥ ५६.७७ ॥
भार्याया वचनं श्रुत्वा शबरस्तां जगाद ह ।
कमलानि यथालाभं दत्त्वा भुङ्क्ष्व हि सत्वरम् ॥ ५६.७८ ॥
ममैषा वर्तते बुद्धिर्न भोक्तव्यं मया ध्रुवम् ।
न मयोपार्जितं भद्रे पापबुद्ध्या शुभं क्वचित् ॥ ५६.७९ ॥

शबर्युवाच -
न पूर्वं तु मया भुक्तं कस्मिंश्चैव तु वासरे ।
भुक्तशेषं मया भुक्तं यावत्कालं स्मराम्यहम् ॥ ५६.८० ॥
भार्याया निश्चयं ज्ञात्वा स्नानं कर्तुं जगाम ह ।
अर्धोत्तरीयवस्त्रेण स्नानं कृत्वा तु भक्तितः ॥ ५६.८१ ॥
सर्वान् देवान्नमस्कृत्य गतो देवशिलां प्रति ।
तस्थौ स शङ्कमानोऽपि नमस्कृत्य जनार्दनम् ॥ ५६.८२ ॥
यस्यास्तु कुमुदे दत्ते तया राज्ञ्यै निवेदितम् ।
तद्दृष्ट्वा पद्मयुगलं तां दासीं साब्रवीत्तदा ॥ ५६.८३ ॥
कुत्र पद्मद्वयं लब्धं कथ्यतामग्रतो मम ।
शीघ्रं तत्रैव गत्वा च पद्मानानय चापरान् ॥ ५६.८४ ॥
धान्येन वसुना वापि कमलानि समानय ।
भानुमत्या वचः श्रुत्वा गता सा शबरं प्रति ॥ ५६.८५ ॥
श्रीफलानि च पुष्पाणि बहून्यन्यानि देहि मे ॥ ५६.८६ ॥

शबर्युवाच -
श्रीफलानि सपुष्पाणि दास्यामि च विशेषतः ।
न लोभो न स्पृहा मेऽस्ति गत्वा राज्ञीं निवेदय ॥ ५६.८७ ॥
तया च सत्वरं गत्वा यथावृत्तं निवेदितम् ।
शबर्युक्तं पुरस्तस्याः सविस्तरपरं वचः ॥ ५६.८८ ॥
तस्यास्तु वचनं श्रुत्वा राज्ञी तत्र स्वयं गता ।
उवाच शबरीं प्रीत्या देहि पद्मानि मूल्यतः ॥ ५६.८९ ॥

शबर्युवाच -
न मूल्यं कामये देवि फलपुष्पसमुद्भवम् ।
श्रीफलानि च पुष्पाणि यथेष्टं मम गृह्यताम् ॥ ५६.९० ॥
अर्चां कुरु यथान्यायं वासुदेवे जगत्पतौ ॥ ५६.९१ ॥

राज्ञ्युवाच -
विना मूल्यं न गृह्णामि कमलानि तवाधुना ।
धान्यस्य खारिकामेकां ददामि प्रतिगृह्यताम् ॥ ५६.९२ ॥
दश विंशत्यथ त्रिंशच्चत्वारिंशदथापि वा ।
गृहाण वा खारिशतं दुर्भिक्षां बोधिमुत्तर ॥ ५६.९३ ॥
वसु रत्नं सुवर्णं च अन्यत्ते यदभीप्सितम् ।
तत्सर्वं सम्प्रदास्यामि कमलार्थे न संशयः ॥ ५६.९४ ॥

शबर्युवाच -
नाहारं चिन्तयाम्यद्य मुक्त्वा देवं वरानने ।
देवकार्यं विना भद्रे नान्या बुद्धिः प्रवर्तते ॥ ५६.९५ ॥

राज्ञ्युवाच -
न त्वयान्नं परित्याज्यं सर्वमन्ने प्रतिष्ठितम् ।
तस्मात्सर्वप्रयत्नेन ममान्नं प्रतिगृह्यताम् ॥ ५६.९६ ॥
तपस्विनो महाभागा ये चारण्यनिवासिनः ।
गृहस्थद्वारि ते सर्वे याचन्तेऽन्नमतन्द्रिताः ॥ ५६.९७ ॥

शबर्युवाच -
निषेधश्च कृतः पूर्वं सर्वं सत्ये प्रतिष्ठितम् ।
सत्येन तपते सूर्यः सत्येन ज्वलतेऽनलः ॥ ५६.९८ ॥
सत्येन तिष्ठत्युदधिर्वायुः सत्येन वाति हि ।
सत्येन पच्यते सस्यं गावः क्षीरं स्रवन्ति च ॥ ५६.९९ ॥
सत्याधारमिदं सर्वं जगत्स्थावरजङ्गमम् ।
तस्मात्सर्वप्रयत्नेन सत्यं सत्येन पालयेत् ॥ ५६.१०० ॥
देवकार्यं तु मे मुक्त्वा नान्या बुद्धिः प्रवर्तते ।
गृहाण राज्ञि पुष्पाणि कुरु पूजां गदाभृतः ॥ ५६.१०१ ॥
श्रूयते द्विजवाक्यैस्तु न दोषो विद्यते क्वचित् ।
कुशाः शाकं पयो मत्स्या गन्धाः पुष्पाक्षता दधि ।
मांसं शय्यासनं धानाः प्रत्याख्येया न वारि च ॥ ५६.१०२ ॥

राज्ञ्युवाच -
आरामोपहृतं पुष्पमारण्यं पुष्पमेव च ।
क्रीतं प्रतिग्रहे लब्धं पुष्पमेवं चतुर्विधम् ॥ ५६.१०३ ॥
उत्तमं पुष्पमारण्यं गृहीतं स्वयमेव च ।
मध्यमं फलमारामे त्वधमं क्रीतमेव च ।
प्रतिग्रहेण यल्लब्धं निष्फलं तद्विदुर्बुधाः ॥ ५६.१०४ ॥

पुरोहित उवाच -
गृहाण राज्ञि पुष्पाणि कुरु पूजां गदाभृतः ।
उपकारः प्रकर्तव्यो व्यपदेशेन कर्हिचित् ॥ ५६.१०५ ॥

ईश्वर उवाच -
श्रीफलानि सपद्मानि दत्तानि शबरेण तु ।
गृहीत्वा तानि राज्ञी सा पूजां चक्रे सुशोभनाम् ॥ ५६.१०६ ॥
क्षपाजागरणं चक्रे श्रुत्वा पौराणिकीं कथाम् ।
शबरस्तु ततो भार्यामिदं वचनमब्रवीत् ॥ ५६.१०७ ॥
दीपार्थं गृह्यतां स्नेहो यथालाभेन सुन्दरि ।
कृत्वा दीपं ततस्तौ तु कृत्वा पूजां हरेः शुभाम् ॥ ५६.१०८ ॥
चक्रतुर्जागरं रात्रौ ध्यायन्तो धरणीधरम् ।
ततः प्रभातसमये दृष्ट्वा स्नानोत्सुकं जनम् ॥ ५६.१०९ ॥
स्नाति वै शूलभेदे तु देवनद्यां तथापरे ।
सरस्वत्यां नराः केचिन्मार्कण्डस्य ह्रदेऽपरे ॥ ५६.११० ॥
चक्रतीर्थं गताश्चक्रुः स्नानं केचिद्विधानतः ।
शुचयस्ते जनाः सर्वे स्नात्वा देवाशिलोपरि ॥ ५६.१११ ॥
श्राद्धं चक्रुः प्रयत्नेन श्रद्धया पूतचेतसा ।
तान्दृष्ट्वा शबरो बिल्वैः पिण्डांश्चक्रे प्रयत्नतः ॥ ५६.११२ ॥
भानुमत्या तथा भर्तुः पिण्डनिर्वपणं कृतम् ।
अनिन्द्या भोजिता विप्रा दम्भवार्द्धुष्यवर्जिताः ॥ ५६.११३ ॥
हविष्यान्नैस्तथा दध्ना शर्करामधुसर्पिषा ।
पायसेन तु गव्येन कृतान्नेन विशेषतः ॥ ५६.११४ ॥
भोजयित्वा तथा राज्ञी ददौ दानं यथाविधि ।
पादुकोपानहौ छत्रं शय्यां गोवृषमेव च ॥ ५६.११५ ॥
विविधानि च दानानि हेमरत्नधनानि च ।
चक्रतीर्थे महाराज कपिलां यः प्रयच्छति ।
पृथ्वी तेन भवेद्दत्ता सशैलवनकानना ॥ ५६.११६ ॥

उत्तानपाद उवाच -
यानि यानि च दत्तानि शस्तानि जगतीपतेः ।
तानि सर्वाणि देवेश कथयस्व प्रसादतः ॥ ५६.११७ ॥

ईश्वर उवाच -
तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ।
भूमिदः स्वर्गमाप्नोति दीर्घमायुर्हिरण्यदः ॥ ५६.११८ ॥
गृहदो रोगरहितो रूप्यदो रूपवान् भवेत् ।
वासोदश्चन्द्रसालोक्यमर्कसायुज्यमश्वदः ॥ ५६.११९ ॥
वृषदस्तु श्रियं पुष्टां गोदाता च त्रिविष्टपम् ।
यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः ॥ ५६.१२० ॥
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्म शाश्वतम् ।
वार्यन्नपृथिवीवासस्तिलकाञ्चनसर्पिषाम् ॥ ५६.१२१ ॥
सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते ।
येन येन हि भावेन यद्यद्दानं प्रयच्छति ॥ ५६.१२२ ॥
तेन तेन स भावेन प्राप्नोति प्रतिपूजितम् ।
दृष्ट्वा दानानि सर्वाणि राज्ञी दत्तानि यानि च ॥ ५६.१२३ ॥
उवाच शबरो भार्यां यत्तच्छृणु नरेश्वर ।
पुराणं पठितं भद्रे ब्राह्मणैर्वेदपारगैः ॥ ५६.१२४ ॥
श्रुतं च तन्मया सर्वं दानधर्मफलं शुभम् ।
पूर्वजन्मार्जितं पापं स्नानदानव्रतादिभिः ॥ ५६.१२५ ॥
शरीरं दुस्त्यजं मुक्त्वा लभते गतिमुत्तमाम् ।
संसारसागराद्भीतः सत्यं भद्रे वदामि ते ॥ ५६.१२६ ॥
अनेकानि च पापानि कृतानि बहुशो मया ।
घातिता जन्तवो भद्रे निर्दग्धाः पर्वताः सदा ॥ ५६.१२७ ॥
तेन पापेन दग्धोऽहं दारिद्र्यं न निवर्तते ।
तीर्थावगाहनं पूर्वं पापेन न कृतं मया ॥ ५६.१२८ ॥
तेनाहं दुःखितो भद्रे दारिद्र्यमनिवर्तिकम् ।
मातुर्गृहं प्रयाहि त्वं त्यज स्नेहं ममोपरि ।
नगशृङ्गं समारुह्य मोक्तुमिच्छाम्यहं तनुम् ॥ ५६.१२९ ॥

शबर्युवाच -
मात्रा पित्रा न मे कार्यं नापि स्वजनबान्धवैः ।
या गतिस्तव जीवेश सा ममापि भविष्यति ॥ ५६.१३० ॥
न स्त्रीणामीदृशो धर्मो विना भर्त्रा स्वजीवितम् ।
श्रूयन्ते बहवो दोषा धर्मशास्त्रेष्वनेकधा ॥ ५६.१३१ ॥
पारणं कुरु भोजेन्द्र व्रतं येन न नश्यति ।
यत्तेऽभिवाञ्छितं किंचिद्विष्णवे कर्तुमर्हसि ॥ ५६.१३२ ॥
भार्याया वचनं श्रुत्वा मुमुदे शबरस्ततः ।
गृहीत्वा श्रीफलं शीघ्रं होमं कृत्वा यथाविधि ॥ ५६.१३३ ॥
सर्वदेवान्नमस्कृत्य भुक्तोऽपि च तया सह ।
चैत्र्यां तु विषुवं ज्ञात्वा तस्थौ तत्र दिनत्रयम् ॥ ५६.१३४ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे व्याधवाक्योपदेशकथनपूर्वकदानादिफलवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥