स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०३८

विकिस्रोतः तः
Jump to navigation Jump to search


अध्याय ३८

श्रीमार्कण्डेय उवाच -
ततो गच्छेत राजेन्द्र गुहावासीति चोत्तमम् ।
यत्र सिद्धो महादेवो गुहावासी समार्बुदम् ॥ ३८.१ ॥

युधिष्ठिर उवाच -
केन कार्येण भो तात महादेवो जगद्गुरुः ।
गुहायामनयत्कालं सुदीर्घं द्विजसत्तम ॥ ३८.२ ॥
एतद्विस्तरतः सर्वं कथयस्व ममानघ ।
श्रोतुमिच्छाम्यहं सर्वपरं कौतूहलं हि मे ॥ ३८.३ ॥

मार्कण्डेय उवाच -
साधु प्रश्नो महाराज पृष्टो यो वै त्वयोत्तमः ।
पुराणे विस्तरो ह्यस्य न शक्यो हि मयाधुना ॥ ३८.४ ॥
कथितुं वृद्धभावत्वादतीतो बहुकालिकः ।
संक्षेपात्तेन ते तात कथयामि निबोध मे ॥ ३८.५ ॥
पुरा कृतयुगे राजन्नासीद्दारुवनं महत् ।
नानाद्रुमलताकीर्णं नानावल्ल्युपशोभितम् ॥ ३८.६ ॥
सिंहव्याघ्रवराहैश्च गजैः खड्गैर्निषेवितम् ।
बहुपक्षियुतं दिव्यं यथा चैत्ररथं वनम् ॥ ३८.७ ॥
तत्र केचिन्महाप्राज्ञा वसन्ति संशितव्रताः ।
वसन्ति परया भक्त्या चतुराश्रमभाविताः ॥ ३८.८ ॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।
स्वधर्मनिरताः सर्वे वाञ्छन्तः परमं पदम् ॥ ३८.९ ॥
तावद्वसन्तसमये कस्मिंश्चित्कारणान्तरे ।
विमानस्थो महादेवो गच्छन्वै ह्युमया सह ॥ ३८.१० ॥
ददर्श तोय आवासमृक्सामयजुर्नादितम् ।
अलक्ष्यागतनिर्गम्यं सर्वपापक्षयंकरम् ॥ ३८.११ ॥
तं दृष्ट्वा मुदिता देवी हर्षगङ्गदया गिरा ।
पप्रच्छ देवदेवेशं शशाङ्ककृतभूषणम् ॥ ३८.१२ ॥

देव्युवाच -
कस्यायमाश्रमो देव वेदध्वनिनिनादितः ।
यं दृष्ट्वा क्षुत्पिपासाद्यैः श्रमैश्च परिहीयते ॥ ३८.१३ ॥

महेश्वर उवाच -
किं त्वया न श्रुतं देवि महादारुवनं महत् ।
बहुविप्रजनो यत्र गृहधर्मेण वर्तते ॥ ३८.१४ ॥
अत्र यः स्त्रीजनः कश्चिद्भर्तृशुश्रूषणे रतः ।
नान्यो देवो न वै धर्मो ज्ञायते शैलनन्दिनि ॥ ३८.१५ ॥
एतच्छ्रुत्वा परं वाक्यं देवदेवेन भाषितम् ।
कौतूहलसमाविष्टा शङ्करं पुनरब्रवीत् ॥ ३८.१६ ॥
यत्त्वयोक्तं महादेव पतिधर्मरताः स्त्रियः ।
तासां त्वं मदनो भूत्वा चारित्रं क्षोभय प्रभो ॥ ३८.१७ ॥

ईश्वर उवाच -
यत्त्वयोक्तं च वचनं न हि मे रोचते प्रिये ।
ब्राह्मणा हि महद्भूतं न चैषां विप्रियं चरेत् ॥ ३८.१८ ॥
मन्युप्रहरणा विप्राश्चक्रप्रहरणो हरिः ।
चक्रात्क्रूरतरो मन्युस्तस्माद्विप्रं न कोपयेत् ॥ ३८.१९ ॥
न ते देवा न ते लोका न ते नगा न चासुराः ।
दृश्यन्ते त्रिषु लोकेषु ये तैर्दृष्टैर्न नाशिताः ॥ ३८.२० ॥
तेषां मोक्षस्तथा स्वर्गो भूमिर्मर्त्ये फलानि च ।
येषां तुष्टा महाभागा ब्राह्मणाः क्षितिदेवताः ॥ ३८.२१ ॥
एवं ज्ञात्वा महाभागे असद्ग्राहं परित्यज ।
तत्र लोके विरुद्धं वै कुप्यन्ते येन वै द्विजाः ॥ ३८.२२ ॥

देव्युवाच -
नाहं ते दयिता देव नाहं ते वशवर्तिनी ।
अकृत्वाधश्व वै तासां मानं सुरसुपूजितम् ॥ ३८.२३ ॥
लोकलोके महादेव अशक्यं नास्ति ते प्रभो ।
क्रियतां मम चैवैकमेतत्कार्यं सुरोत्तम ॥ ३८.२४ ॥
एवमुक्तो महादेवो देव्या वाक्यहिते रतः ।
कृत्वा कापालिकं रूपं ययौ दारुवनं प्रति ॥ ३८.२५ ॥
महाहितजटाजूटं नियम्य शशिभूषणम् ।
कण्ठत्राणं परं कृत्वा धारयन् कर्णकुण्डले ॥ ३८.२६ ॥
व्याघ्रचर्मपरीधानो मेखलाहारभूषितः ।
नूपुरध्वनिनिघोषैः कम्पयन् वै वसुंधराम् ॥ ३८.२७ ॥
महानूर्द्ध्वजटामाली कृत्तिभस्मानुलेपनः ।
कृत्वा हस्ते कपालं तु ब्रह्मणश्च महात्मनः ॥ ३८.२८ ॥
महाडमरुघोषेण कम्पयन् वै वसुंधराम् ।
प्रभातसमये प्राप्तो महादारुवनं प्रति ॥ ३८.२९ ॥
तावत्पुण्यजनः सर्वपुष्पपत्रफलार्थिकः ।
निर्गतो बहुभिः सार्द्धं पवमानः समन्ततः ॥ ३८.३० ॥
तद्दृष्ट्वा महदाश्चर्यं रूपं देवस्य भारत ।
युवतीनां मनस्तासां कामेन कलुषीकृतम् ॥ ३८.३१ ॥
शोभनं पुरुषं दृष्ट्वा सर्वा अपि वराङ्गनाः ।
क्लेदभावं ततो जग्मुर्मुदा दारुवनस्त्रियः ॥ ३८.३२ ॥
विकारा बहवस्तासां देवं दृष्ट्वा महाद्भुतम् ।
संजाता विप्रपत्नीनां तदा तासु नरोत्तम ॥ ३८.३३ ॥
परिधानं न जानन्ति काश्चिद्दृष्ट्वा वराङ्गनाः ।
उत्तरीयं तथा चान्या महामोहसमन्विताः ॥ ३८.३४ ॥
केशभारपरिभ्रष्टा काचिदेवासनोत्थिता ।
दातुकामा तदा भैक्ष्यं चेष्टितुं नैव चाशकत् ॥ ३८.३५ ॥
काचिद्दृष्ट्वा महादेवं रूपयौवनगर्विता ।
उत्सङ्गे संस्थितं बालं विस्मृता पायितुं स्तनम् ॥ ३८.३६ ॥
कामबाणहता चान्या बाहुभ्यां पीड्य सुस्तनौ ।
निःश्वसन्ती तदा चोष्णं न किंचित्प्रतिजल्पति ॥ ३८.३७ ॥
एवं संक्षोभ्य तं सर्वं स्त्रीजनं परमेश्वरः ।
जगाम तत्र वै तासां क्षोभं कृत्वा महाद्भुतम् ॥ ३८.३८ ॥
तावत्ते ब्राह्मणाः सर्वे भ्रमित्वा काननं महत् ।
आगताः स्वगृहे दारान् ददृशुश्च हतौजसः ॥ ३८.३९ ॥
यासां पूर्वतरा भक्तिः पातिव्रत्ये पतीन्प्रति ।
चलितास्ता विदित्वाशु निर्जग्मुर्द्विजसत्तमाः ॥ ३८.४० ॥
संविदं परमां कृत्वा ज्ञात्वा देवं महेश्वरम् ।
क्षोभयित्वा मनस्तासां ततश्चादर्शनं गतम् ॥ ३८.४१ ॥
क्रोधाविष्टो द्विजः कश्चिद्दण्डमुद्यम्य धावति ।
कल्माषयष्टिमन्ये च तथान्ये दर्भमुष्टिकाम् ॥ ३८.४२ ॥
इतश्चेतश्च ते सर्वे भ्रमित्वा काननं नृप ।
एकीभूत्वा महात्मानो व्याजह्रुश्च रुषा गिरम् ॥ ३८.४३ ॥
यदिदं च हुतं किंचिद्गुरवस्तोषिता यदि ।
तेन सत्येन देवस्य लिङ्गं पततु चोत्तमम् ॥ ३८.४४ ॥
आश्रमादाश्रमं सर्वे न त्यजामो विधिक्रमात् ।
तेन सत्येन देवस्य लिङ्गं पततु भूतले ॥ ३८.४५ ॥
एवं सत्यप्रभावेन त्रिरुक्तेन द्विजन्मनाम् ।
शिवस्य पश्यतो लिङ्गं पतितं धरणीतले ॥ ३८.४६ ॥
हाहाकारो महानासील्लोकालोकेऽपि भारत ।
देवस्य पतिते लिङ्गे जगतश्च महाक्षये ॥ ३८.४७ ॥
पतमानस्य लिङ्गस्य शब्दोऽभूच्च सुदारुणः ।
उल्कापाता दिशां हाहा भूमिकम्पाश्च दारुणाः ॥ ३८.४८ ॥
पतन्ति पर्वताग्राणि शोषं यान्ति च सागराः ।
देवस्य पतिते लिङ्गे देवा विमनसोऽभवन् ॥ ३८.४९ ॥
समेत्य सहिताः सर्वे ब्रह्माणं परमेष्ठिनम् ।
कृताञ्जलिपुटाः सर्वे स्तुवन्ति विविधैः स्तवैः ॥ ३८.५० ॥
ततस्तुष्टो जगन्नाथश्चतुर्वदनपङ्कजः ।
आर्तान्प्राह सुरान्सर्वान्मा विषादं गमिष्यथ ॥ ३८.५१ ॥
ब्रह्मशापाभिभूतोऽसौ देवदेवस्त्रिलोचनः ।
तुष्टैस्तैस्तपसा युक्तैः पुनर्मोक्षं गमिष्यति ॥ ३८.५२ ॥
एतच्छ्रुत्वा ययुर्देवा यथागतमरिन्दम ।
भावयित्वा ततः सर्वे मुनयश्चैव भारत ॥ ३८.५३ ॥
विश्वामित्रवसिष्ठाद्या जाबालिरथ कश्यपः ।
समेत्य सहिताः सर्वे तमूचुस्त्रिपुरान्तकम् ॥ ३८.५४ ॥
ब्रह्मतेजो हि बलवद्द्विजानां हि सुरेश्वर ।
क्षान्तियुक्तस्तपस्तप्त्वा भविष्यसि गतक्लमः ॥ ३८.५५ ॥
यतः क्षोभादृषीणां च तदेवं लिङ्गमुत्तमम् ।
पतितं ते महादेव न तत्पूज्यं भविष्यति ॥ ३८.५६ ॥
न तच्छ्रेयोऽग्निहोत्रेण नाग्निष्टोमेन लभ्यते ।
प्राप्नुवन्ति च यच्छ्रेयो मानवा लिङ्गपूजने ॥ ३८.५७ ॥
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
वचनेन तु विप्राणामेतत्पूज्यं भविष्यति ॥ ३८.५८ ॥
ब्रह्मविष्ण्विन्द्रचन्द्राणामेतत्पूज्यं भविष्यति ।
यत्फलं तव लिङ्गस्य इह लोके परत्र च ॥ ३८.५९ ॥
एवमुक्तो जगन्नाथः प्रणिपत्य द्विजोत्तमान् ।
मुदा परमया युक्तः कृताञ्जलिरभाषत ॥ ३८.६० ॥
ब्राह्मणा जङ्गमं तीर्थं निर्जलं सार्वकामिकम् ।
येषां वाक्योदकेनैव शुध्यन्ति मलिनो जनाः ॥ ३८.६१ ॥
न तत्क्षेत्रं न तत्तीर्थमूषरं पुष्कराणि च ।
ब्राह्मणे मन्युमुत्पाद्य यत्र गत्वा स शुध्यति ॥ ३८.६२ ॥
न तच्छास्त्रं यन्न विप्रप्रणीतं न तद्दानं यन्न विप्रप्रदेयम् ।
न तत्सौख्यं यन्नविप्रप्रसादान्न तद्दुःखं यन्न विप्रप्रकोपात् ॥ ३८.६३ ॥
पृथिव्यां यानि तीर्थानि गङ्गाद्याः सरितस्तथा ।
एकस्य विप्रवाक्यस्य कलां नार्हन्ति षोडशीम् ॥ ३८.६४ ॥
अभिनन्द्य द्विजान्सर्वाननुज्ञातो महर्षिभिः ।
ततोऽगमत्तदा देवो नर्मदातटमुत्तमम् ॥ ३८.६५ ॥
परमं व्रतमास्थाय गुहावासी समार्बुदम् ।
तपश्चचार भगवाञ्जपस्नानरतः सदा ॥ ३८.६६ ॥
समाप्ते नियमे तात स्थापयित्वा महेश्वरम् ।
वन्द्यमानः सुरैः सार्द्धं कैलासमगमत्प्रभुः ॥ ३८.६७ ॥
नर्मदायास्तटे तेन स्थापितः परमेश्वरः ।
तेनैव कारणेनासौ नर्मदेश्वर उच्यते ॥ ३८.६८ ॥
योऽर्चयेन्नर्मदेशानं यतिर्वै संजितेन्द्रियः ।
स्नात्वा चैव महादेवमश्वमेधफलं लभेत् ॥ ३८.६९ ॥
ददाति यः पितृभ्यस्तु तिलपुष्पकुशोदकम् ।
त्रिःसप्तपूर्वजास्तस्य स्वर्गे मोदन्ति पाण्डव ॥ ३८.७० ॥
यस्तु भोजयते विप्रांस्तस्मिंस्तीर्थे नराधिप ।
पायसं घृतमिश्रं तु स लभेत्कोटिजं फलम् ॥ ३८.७१ ॥
सुवर्णं रजतं वापि ब्राह्मणेभ्यो युधिष्ठिर ।
ददाति तोयमध्यस्थः सोऽग्निष्टोमफलं लभेत् ॥ ३८.७२ ॥
अष्टम्यांवा चतुर्दश्यां निराहारो वसेत्तु यः ।
नर्मदेश्वरमासाद्य प्राप्नुयाज्जन्मनः फलम् ॥ ३८.७३ ॥
अग्निप्रवेशं यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।
तस्य व्याधिभयं न स्यात्सप्तजन्मसु भारत ॥ ३८.७४ ॥
अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।
अनिवर्तिका गतिस्तस्य रुद्रलोके भविष्यति ॥ ३८.७५ ॥
एष ते विधिरुद्दिष्टस्तस्योत्पत्तिर्नरोत्तम ।
पुराणे विहिता तात संज्ञा तस्य तु विस्तरात् ॥ ३८.७६ ॥
एतं कीर्तयते यस्तु नर्मदेश्वरसम्भवम् ।
भक्त्या शृणोति च नरः सोऽपि स्नानफलं लभेत् ॥ ३८.७७ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये नर्मदेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टत्रिंशोऽध्यायः ॥