स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०३६
मार्कण्डेय उवाच -
ततो गच्छेच्च राजेन्द्र दारुतीर्थमनुत्तमम् ।
दारुको यत्र संसिद्ध इन्द्रस्य दयितः पुरा ॥ ३६.१ ॥
युधिष्ठिर उवाच -
दारुकेण कथं तात तपश्चीर्णं पुरानघ ।
विधानं श्रोतुमिच्छामि त्वत्सकाशाद्द्विजोत्तम ॥ ३६.२ ॥
श्रीमार्कण्डेय उवाच -
हन्त ते कथयिष्यामि विचित्रं यत्पुरातनम् ।
वृत्तं स्वर्गसभामध्ये ऋषीणां भावितात्मनाम् ॥ ३६.३ ॥
सूतो वज्रधरस्येष्टो मातलिर्नाम नामतः ।
स पुत्रं शप्तवान्पूर्वं कस्मिंश्चित्कारणान्तरे ॥ ३६.४ ॥
शापाहतो वेपमान इन्द्रस्य चरणौ शुभौ ।
प्रपीड्य मूर्ध्ना देवेशं विज्ञापयति भारत ॥ ३६.५ ॥
तमुवाचाभिशप्तं चाप्यनाथं च सुरेश्वरः ।
कर्मणा केन शापस्य घोरस्यान्तो भविष्यति ॥ ३६.६ ॥
नर्मदातटमाश्रित्य तोषयन्वै महेश्वरम् ।
तिष्ठ यावद्युगस्यान्तं पुनर्जन्म ह्यवाप्स्यसि ॥ ३६.७ ॥
पुनर्भूत्वा तु पूतस्त्वं दारुको नाम विश्रुतः ।
संसेव्य परमं देवं शङ्खचक्रगदाधरम् ॥ ३६.८ ॥
मानुषं भावमापन्नस्ततः सिद्धिमवाप्स्यसि ।
एवमुक्तस्तु देवेन सहस्राक्षेण धीमता ॥ ३६.९ ॥
प्रणम्य शिरसा भूमिमागतोऽसौ ह्यचेतनः ।
नर्मदातटमाश्रित्य कर्षयन्निजविग्रहम् ॥ ३६.१० ॥
व्रतोपवाससंखिन्नो जपहोमरतः सदा ।
महादेवं महात्मानं वरदं शूलपाणिनम् ॥ ३६.११ ॥
भक्त्या तु परया राजन्यावदाभूतसम्प्लवम् ।
अंशावतरणाद्विष्णोः सूतो भूत्वा महामतिः ॥ ३६.१२ ॥
तोषयन् वै जगन्नाथं ततो यातो हि सद्गतिम् ॥ ३६.१३ ॥
एष तत्सम्भवस्तात दारुतीर्थस्य सुव्रत ।
कथितोऽयं मया पूर्वं यथा मे शङ्करोऽब्रवीत् ॥ ३६.१४ ॥
ततो युधिष्ठिरः श्रुत्वा विस्मयं परमं गतः ।
भ्रात्ःन् विलोकयामास हृष्टरोमा मुहुर्मुहुः ॥ ३६.१५ ॥
श्रीमार्कण्डेय उवाच -
तस्मिंस्तीर्थे नरः स्नात्वा विधिपूर्वं नरेश्वर ।
उपास्य संध्यां देवेशमर्चयेद्यश्च शङ्करम् ॥ ३६.१६ ॥
वेदाभ्यासं तु तत्रैव यः करोति समाहितः ।
सोऽश्वमेधफलं राजंल्लभते नात्र संशयः ॥ ३६.१७ ॥
तस्मिंस्तीर्थे तु यो भक्त्या भोजयेद्ब्राह्मणाञ्छुचिः ।
स तु विप्रसहस्रस्य लभते फलमुत्तमम् ॥ ३६.१८ ॥
स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ।
यत्कृतं शुद्धभावेन तत्सर्वं सफलं भवेत् ॥ ३६.१९ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दारुकतीर्थमाहात्म्यवर्णनं नाम षट्त्रिंशोऽध्यायः ॥