स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०३३
अध्याय ३३
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र अग्नितीर्थमनुत्तमम् ।
यत्र संनिहितो ह्यग्निर्गतः कामेन मोहितः ॥ ३३.१ ॥
युधिष्ठिर उवाच -
कथं देवो जगद्धाता कामेन कलुषीकृतः ।
कथं च नित्यदा वास एकस्थानेषु जायते ॥ ३३.२ ॥
एतत्त्वाश्चर्यमतुलं सर्वलोकेष्वनुत्तमम् ।
कथयस्व महाभाग परं कौतूहलं मम ॥ ३३.३ ॥
श्रीमार्कण्डेय उवाच -
साधु साधु महाप्राज्ञ पृष्टः प्रश्नस्त्वयानघ ।
कथयामि यथापूर्वं श्रुतमेतन्महेश्वरात् ॥ ३३.४ ॥
आसीत्कृतयुगे राजा नाम्ना दुर्योधनो महान् ।
हस्त्यश्वरथसम्पूर्णो मेदिनीपरिपालकः ॥ ३३.५ ॥
रूपयौवनसम्पन्नं दृष्ट्वा तं पृथिवीपतिम् ।
दिव्योपभोगसम्पन्नं प्रार्थयामास नर्मदा ॥ ३३.६ ॥
स तु तां चकमे कन्यां त्यक्त्वाऽन्यं प्रमदाजनम् ।
मुदा परमया युक्तो माहिष्मत्याः पतिर्नृप ॥ ३३.७ ॥
रमते स तया सार्द्धं काले वै नृपसत्तम ।
नर्मदा जनयामास कन्यां पद्मदलेक्षणाम् ॥ ३३.८ ॥
अङ्गप्रत्यङ्गसम्पन्ना यस्माल्लोकेषु विश्रुता ।
तस्यां पिता च माता च चक्रतुः प्रेमबन्धनम् ॥ ३३.९ ॥
कालेनातिसुदीर्घेण यौवनस्था वराङ्गना ।
प्रार्थ्यमानापि राजन्वै नात्मानं दातुमिच्छति ॥ ३३.१० ॥
ततोऽन्यदिवसे वह्निर्द्विजरूपो महातपाः ।
राजानं प्रार्थयामास रहो गत्वा शनैः शनैः ॥ ३३.११ ॥
भोभो रघुकुलश्रेष्ठ द्विजोऽहं मन्दसन्ततिः ।
दरिद्रो ह्यसहायश्च भार्यार्थे वरयामि ताम् ॥ ३३.१२ ॥
कन्या सुदर्शना नाम रूपेणाप्रतिमा भुवि ।
तां ददस्व महाभाग वर्धते तव मन्दिरे ॥ ३३.१३ ॥
ब्रह्मचर्येण निर्विण्ण एकाकी कामपीडितः ।
याचमानस्य मे तात प्रसादं कर्तुमर्हसि ॥ ३३.१४ ॥
राजोवाच -
नाहं द्रव्यविहीनस्य असवर्णस्य कर्हिचित् ।
दास्यामि स्वां सुतां शुभ्रां गम्यतां द्विजपुंगव ॥ ३३.१५ ॥
एवमुक्तस्तदा वह्निः परां पीडामुपागतः ।
न किंचिदुक्त्वा राजानं तत्रैवान्तरधीयत ॥ ३३.१६ ॥
गते चादर्शनं विप्रे राजा मन्त्रिपुरोहितैः ।
मन्त्रयित्वाथ काले तु तुष्टो मखमुखे स्थितः ॥ ३३.१७ ॥
यजतश्च मखे भक्त्या ब्राह्मणैः सह भारत ।
ततश्चादर्शनं वह्निः सर्वेषां पश्यतामगात् ॥ ३३.१८ ॥
विप्रा दुर्मनसो भूत्वा गता राज्ञो हि मन्दिरम् ।
वह्निनाशं विमनसो राजानमिदमब्रुवन् ॥ ३३.१९ ॥
ब्राह्मणा ऊचुः ।
दुर्योधन महाराज श्रूयतां महदद्भुतम् ।
न श्रुतं न च दृष्टं वा कौतुकं नृपपुंगव ॥ ३३.२० ॥
अग्निकार्यप्रवृत्तानां सर्वेषां विधिवन्नृप ।
केनापि हेतुना वह्निर्दृश्यते न ज्वलत्युत ॥ ३३.२१ ॥
तच्छ्रुत्वा विप्रियं घोरं राजा विप्रमुखाच्च्युतम् ।
आसनात्पतितो भूमौ छिन्नमूल इव द्रुमः ॥ ३३.२२ ॥
आश्वस्य च मुहूर्तेन उन्मत्त इव संस्तदा ।
निरीक्ष्य च दिशः सर्वा इदं वचनमब्रवीत् ॥ ३३.२३ ॥
किमेतदाश्चर्यपरमिति भोभो द्विजोत्तमाः ।
कथ्यतां कारणं सर्वं शास्त्रदृष्ट्या विभाव्य च ॥ ३३.२४ ॥
मम वा दुष्कृतं किंचिदुताहो भवतामिह ।
येन नष्टोऽग्निशालायां हुतभुक्केन हेतुना ॥ ३३.२५ ॥
मन्त्रच्छिद्रमथान्यद्वा नैव किंचिददक्षिणम् ।
क्रियाहीनं कृतं वाथ केन वह्निर्न दृश्यते ॥ ३३.२६ ॥
अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनस्तु ऋत्विजः ।
दातारं दक्षिणाहीनो नास्ति यज्ञसमो रिपुः ॥ ३३.२७ ॥
ब्राह्मणा ऊचुः ।
न मन्त्रहीना हि वयं न च राजन्व्रतैस्तथा ।
द्रव्येण च न हीनस्त्वमन्यत्पापं विचिन्त्यताम् ॥ ३३.२८ ॥
राजोवाच -
तथापि यूयं सहिता उपायं चिन्तयन्त्विति ।
येन श्रेयो भवेन्नित्यमिह लोके परत्र च ॥ ३३.२९ ॥
एवमुक्तास्ततः सर्वे ब्राह्मणाः कृतनिश्चयाः ।
निराहाराः स्थिताः शर्वे यत्र नष्टो हुताशनः ॥ ३३.३० ॥
ततः स्वप्ने महातेजा हुतभुग्ब्राह्मणांस्तदा ।
उवाच श्रूयतां सर्वैर्मम नाशस्य कारणम् ॥ ३३.३१ ॥
प्रार्थितोऽयं मया राजा सुतां दातुं न चेच्छति ।
तेन नष्टोऽग्निशरणादहं भो द्विजसत्तमाः ॥ ३३.३२ ॥
यदि मे स्वसुतां राजा ददाति परमार्चिताम् ।
तदास्य ज्वलमानोऽहं गृहे तिष्ठामि नान्यथा ॥ ३३.३३ ॥
तच्छ्रुत्वा वचनं विप्रा वैश्वानरमुखोद्गतम् ।
विस्मयोत्फुल्लनयना राजानमिदमब्रुवन् ॥ ३३.३४ ॥
भवतो मतमाज्ञाय सर्वे गत्वाग्निमन्दिरम् ।
निराहाराः स्थिता रात्रौ पश्यामो जातवेदसम् ॥ ३३.३५ ॥
तेनोक्ताः स्वसुतां चेत्तु राजा मे दातुमिच्छति ।
ततोऽस्य भूयोऽपि गृहे ज्वलेऽहं नान्यथा द्विजाः ॥ ३३.३६ ॥
एवं ज्ञात्वा महाराज स्वसुतां दातुमर्हसि ॥ ३३.३७ ॥
राजोवाच -
भवतां तस्य वा कार्यं देवस्य वचनं हृदि ।
समयं कर्तुमिच्छामि कन्यादाने ह्यनुत्तमम् ॥ ३३.३८ ॥
मम संनिहितो नित्यं गृहे तिष्ठतु पावकः ।
ददामि रुचिरापाङ्गीं नान्यथा करवाणि वै ॥ ३३.३९ ॥
एवं ते ब्राह्मणाः श्रुत्वा तथाग्निं प्राप्य सत्वरम् ।
कथयित्वा विवाहेन योजयामासुराशु वै ॥ ३३.४० ॥
सुदर्शनाया लाभेन परितुष्टो हुताशनः ।
ज्वलते सन्निधौ नित्यं माहिष्मत्यां युधिष्ठिर ॥ ३३.४१ ॥
ततः प्रभृति तत्तीर्थमग्नितीर्थं प्रचक्षते ।
ये तत्र पक्षसन्धौ तु स्नानदानैस्तु भाविताः ॥ ३३.४२ ॥
तर्पयन्ति पितॄन् देवांस्तेऽश्वमेधफलैर्युताः ।
सुवर्णं ये प्रयच्छन्ति तस्मिंस्तीर्थे नराधिप ॥ ३३.४३ ॥
पृथ्वीदानफलं तत्र जायते नात्र संशयः ।
अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ॥ ३३.४४ ॥
स मृतो ह्यग्निलोके तु क्रीडते सुरपूजितः ।
एष ते ह्यग्नितीर्थस्य सम्भवः कथितो मया ॥ ३३.४५ ॥
सर्वपापहरः पुण्यः श्रुतमात्रो नरोत्तम ।
धन्यः पापहरो नित्यमित्येवं शङ्करोऽब्रवीत् ॥ ३३.४६ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डेऽग्नितीर्थमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥