स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०३२
अध्याय ३२
श्रीमार्कण्डेय उवाच -
पत्त्रेश्वरं ततो गच्छेत्सर्वपापप्रणाशनम् ।
यत्र सिद्धो महाभागश्चित्रसेनसुतो बली ॥ ३२.१ ॥
युधिष्ठिर उवाच -
कोऽसौ सिद्धस्तदा ब्रह्मंस्तस्मिंस्तीर्थे महातपाः ।
पुत्रः कस्य तु को हेतुरेतदिच्छामि वेदितुम् ॥ ३२.२ ॥
श्रीमार्कण्डेय उवाच -
चित्रोनाम महातेजा इन्द्रस्य दयितः पुरा ।
तस्य पुत्रो नृपश्रेष्ठ पत्त्रेश्वर इति श्रुतः ॥ ३२.३ ॥
रूपवान् सुभगश्चैव सर्वशत्रुभयंकरः ।
इन्द्रस्य दयितोऽत्यर्थं जय इत्येव चापरः ॥ ३२.४ ॥
स कदाचित्सभामध्ये सर्वदेवसमागमे ।
मेनकानृत्यगीतेन मोहितः सुचिरं किल ॥ ३२.५ ॥
तिष्ठते गतमर्यादो गतप्राण इव क्षणात् ।
तावत्सुरपतिर्देवः शशापाथाजितेन्द्रियम् ॥ ३२.६ ॥
यस्मात्त्वं स्वर्गसंस्थोऽपि मर्त्यधर्ममुपेयिवान् ।
तस्मान्मर्त्ये चिरं कालं क्षपयिष्यस्यसंशयम् ॥ ३२.७ ॥
एवमुक्तः सुरेन्द्रेण चित्रसेनसुतो युवा ।
वेपमानः सुरश्रेष्ठः कृताञ्जलिरुवाच ह ॥ ३२.८ ॥
पत्त्रेश्वर उवाच -
मया पापेन मूढेन अजितेन्द्रियचेतसा ।
प्राप्तं वै यत्फलं तस्य प्रसादं कर्तुमर्हसि ॥ ३२.९ ॥
शक्र उवाच -
नर्मदातटमाश्रित्य द्वादशाब्दं जितेन्द्रियः ।
आराधय शिवं शान्तं पुनः प्राप्स्यसि सद्गतिम् ॥ ३२.१० ॥
सत्यशौचरतानां च धर्मिष्ठानां जितात्मनाम् ।
लोकोऽयं पापिनां नैव इति शास्त्रस्य निश्चयः ॥ ३२.११ ॥
एवमुक्ते महाराज सहस्राक्षेण धीमता ।
गन्धर्वतनयो धीमान्प्रणम्यागात्तु भूतलम् ॥ ३२.१२ ॥
रेवाया विमले तोये ब्रह्मावर्तसमीपतः ।
स्नात्वा जप्त्वा विधानेन अर्चयित्वा च शङ्करम् ॥ ३२.१३ ॥
वाय्वम्बुपिण्याकफलैश्च पुष्पैः पर्णैश्च मूलाशनयावकेन ।
तताप पञ्चाग्नितपोभिरुग्रैस्ततश्च तोषं समगात्स देवः ॥ ३२.१४ ॥
पिनाकपाणिं वरदं त्रिशूलिनमुमापतिं ह्यन्धकनाशनं च ।
चन्द्रार्धमौलिं गजकृत्तिवाससं दृष्ट्वा पपाताग्रगतं समीक्ष्य ॥ ३२.१५ ॥
ईश्वर उवाच -
वरं वृणीष्व भद्रं ते वरदोऽहं तवानघ ।
यमिच्छसि ददाम्यद्य नात्र कार्या विचारणा ॥ ३२.१६ ॥
पत्त्रेश्वर उवाच -
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।
अत्र त्वं सततं तीर्थे मम नाम्ना भव प्रभो ॥ ३२.१७ ॥
एतच्छ्रुत्वा महादेवो हर्षगद्गदया गिरा ।
तथेत्युक्त्वा ययौ हृष्ट उमया सह शङ्करः ॥ ३२.१८ ॥
सोऽपि तत्तीर्थमाप्लुत्य गते देवे दिवं प्रति ।
स्नात्वा जाप्यविधानेन तर्पयित्वा पितॄन् पुनः ॥ ३२.१९ ॥
स्थापयामास देवेशं तस्मिंस्तीर्थे विधानतः ।
पत्त्रेश्वरं तु विख्यातं त्रिषु लोकेषु भारत ॥ ३२.२० ॥
इन्द्रलोकं गतः शापान्मुक्तः सोऽपि नरेश्वर ।
हृष्टः प्रमुदितो रम्यं जयशब्दादिमङ्गलैः ॥ ३२.२१ ॥
एष ते कथितः प्रश्नः पृष्टो यो वै युधिष्ठिर ।
तत्र स्नानेन चैकेन सर्वपापैः प्रमुच्यते ॥ ३२.२२ ॥
यस्त्वर्चयेन्महादेवं तस्मिंस्तीर्थे युधिष्ठिर ।
स्नात्वाभ्यर्च्य पित्ःन् देवान् सोऽश्वमेधफलं लभेत् ॥ ३२.२३ ॥
मृतो वर्षशतं साग्रं क्रीडित्वा च शिवे पुरे ।
राजा वा राजतुल्यो वा पश्चान्मर्त्येषु जायते ॥ ३२.२४ ॥
वेदवेदाङ्गतत्त्वज्ञो जीवेच्च शरदः शतम् ।
व्याधिशोकविनिर्मुक्तः पुनः स्मरति तज्जलम् ॥ ३२.२५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पत्रेश्वरतीर्थमाहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः ॥