स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०२८

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

मार्कण्डेय उवाच -
एतस्मिन्नन्तरे रुद्रो नर्मदातटमास्थितः ।
क्रीडते ह्युमया सार्द्धं नारदस्तत्र चागतः ॥ २८.१ ॥
प्रणम्य देवदेवेशमुमया सह शङ्करम् ।
व्यज्ञापयत्तदा देवं यद्वृत्तं त्रिपुरे तदा ॥ २८.२ ॥
गतोऽहं स्वामिनिर्देशाद्यत्र तद्बाणमन्दिरम् ।
दृष्टा बाणं यथान्यायं गतो ह्यन्तःपुरं महत् ॥ २८.३ ॥
तत्र भार्यासहस्राणि दृष्ट्वा बाणस्य धीमतः ।
यथायोग्यं यथाकाममागतः क्षोभ्य तत्पुरम् ॥ २८.४ ॥
नारदस्य वचः श्रुत्वा साधु साध्विति पूजयन् ।
चिन्तयामास देवेशो भ्रमणं त्रिपुरस्य हि ॥ २८.५ ॥
करमुक्तं यथा चक्रं विष्णुना प्रभविष्णुना ।
महावेगं महायामं रक्षितं तेजसा मम ॥ २८.६ ॥
स च मे भक्तिनिरतो बाणो लोके च विश्रुतः ।
भारती च मया दत्ता ब्राह्मणानां विशेषतः ॥ २८.७ ॥
एवं स सुचिरं कालं देवदेवो महेश्वरः ।
चिन्तयित्वा सुनिर्वाणं कार्यं प्रति जनेश्वरः ॥ २८.८ ॥
ततोऽसौ मन्दरं ध्यात्वा चापे कृत्वा गुणे महीम् ।
विष्णुं सनातनं देवं बाणे ध्यात्वा त्रिलोचनः ॥ २८.९ ॥
फले हुताशनं देवं ज्वलन्तं सर्वतोमुखम् ।
सुपर्णं पुङ्खयोर्मध्ये जवे वायुं प्रकल्प्य च ॥ २८.१० ॥
रथं महीमयं कृत्वा धुरि तावश्विनावुभौ ।
अक्षे सुरेश्वरं देवमग्रकील्यां धनाधिपम् ॥ २८.११ ॥
यमं तु दक्षिणे पार्श्वे वामे कालं सुदारुणम् ।
आदित्यचन्द्रौ चक्रे तु गन्धर्वानारकादिषु ॥ २८.१२ ॥
यन्तारं च सुरज्येष्ठं वेदान्कृत्वा हयोत्तमान् ।
खलीनादिषु चाङ्गानि रश्मींश्छन्दांसि चाकरोत् ॥ २८.१३ ॥
कृत्वा प्रतोदमोंकारं मुखग्राह्यं महेश्वरः ।
धातारं चाग्रतः कृत्वा विधातारं च पृष्ठतः ॥ २८.१४ ॥
मारुतात्सर्वतो दिग्भ्य ऊर्ध्वयन्त्रे तथैव च ।
महोरगपिशाचांश्च सिद्धविद्याधरांस्तथा ॥ २८.१५ ॥
गणांश्च भूतसङ्घांश्च सर्वे सर्वाङ्गसंधिषु ।
युगमध्ये स्थितो मेरुर्युगस्याधो महागिरिः ॥ २८.१६ ॥
सर्पा यन्त्रस्थिता घोराः शम्ये वरुणनैरृतौ ।
गायत्री चैव सावित्री स्थिते ते रश्मिबन्धने ॥ २८.१७ ॥
सत्यं रथध्वजे शौचं दमं रक्षां समन्ततः ।
रथं देवमयं कृत्वा देवदेवो महेश्वरः ॥ २८.१८ ॥
संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् ।
बद्धा परिकरं गाढं जटाजूटं नियम्य च ॥ २८.१९ ॥
सज्जं कृत्वा धनुर्दिव्यं योजयित्वा रथोत्तमम् ।
रथमध्ये स्थितो देवः शुशुभे च युधिष्ठिर ॥ २८.२० ॥
धनुषः शब्दनादेनाकम्पयच्च जगत्त्रयम् ।
स्थानं कृत्वा तु वैशाखं निभृतं संस्थितो हरः ॥ २८.२१ ॥
निरीक्ष्य सुचिरं कालं कोपसंरक्तलोचनः ।
ध्यात्वा तं परमं मन्त्रमात्मानं च निरुध्य सः ॥ २८.२२ ॥
मुमोच सहसा बाणं पुरस्य वधकाङ्क्षया ।
यदा त्रीणि समेतानि अन्तरिक्षस्थितानि तु ॥ २८.२३ ॥
ततः कालनिमेषार्धं दृष्ट्वैक्यं त्रिपुरस्य च ।
त्रिपर्वणा त्रिशल्येन ततस्तान्यवसादयत् ॥ २८.२४ ॥
ततो लोका भयत्रस्तास्त्रिपुरे भरतोत्तम ।
सर्वासुरविनाशाय कालरूपा भयावहाः ॥ २८.२५ ॥
अट्टहासान् प्रमुञ्चन्ति कष्टरूपा नरास्तदा ।
निमेषोन्मेषणं चैव कुर्वन्ति लिपिकर्मसु ॥ २८.२६ ॥
निष्पन्दनयना मर्त्याश्चित्रेष्वालिखिता इव ।
देवायतनगा देवा रटन्ति प्रहसन्ति च ।
स्वप्ने पश्यन्ति चात्मानं रक्ताम्बरविभूषितम् ॥ २८.२७ ॥
रक्तमाल्योत्तमाङ्गाश्च पतन्तः कार्दमे ह्रदे ।
पश्यन्ति नाम चात्मानं सतैलाभ्यङ्गमस्तकम् ॥ २८.२८ ॥
पश्यन्ति यानमारूढं रासभैश्च नृपोत्तम ।
संवर्तको महावायुर्युगान्तप्रतिमो महान् ॥ २८.२९ ॥
गृहानुन्मूलयामास वृक्षजातीननेकशः ।
भूमिकम्पाः सनिर्घाता उल्कापाताः सहस्रशः ॥ २८.३० ॥
रुधिरं वर्षते देवो मिश्रितं कर्करैर्बहु ।
अग्निकुण्डेषु विप्राणां हुतः सम्यग्घुताशनः ॥ २८.३१ ॥
ज्वलते धूमसंयुक्तो विस्फुलिङ्गकणैः सह ।
कुंजरा विमदा जातास्तुरगाः सत्त्ववर्जिताः ॥ २८.३२ ॥
अवादितानि वाद्यन्ते वादित्राणि सहस्रशः ।
ध्वजा ह्यकम्पिताः पेतुश्छत्राणि विविधानि च ॥ २८.३३ ॥
ज्वलति पादपास्तत्र पर्णानि च सभं ततः ।
सर्वं तद्व्याकुलीभूतं हाहाकारसमन्वितम् ॥ २८.३४ ॥
उद्यानानि विचित्राणि प्रबभञ्ज प्रभञ्जनः ।
तेन संप्रेरिताः सर्वे ज्वलन्ति विशिखाः शिखाः ॥ २८.३५ ॥
वृक्षगुल्मलतावल्ल्यो गृहाणि च समन्ततः ।
दिग्विभागैश्च सर्वैश्च प्रवृत्तो हव्यवाहनः ॥ २८.३६ ॥
सर्वं किंशुकपर्णाभं प्रज्वलच्चैव दृश्यते ।
गृहाद्गृहं तदा गन्तुं नैव धूमेन शक्यते ॥ २८.३७ ॥
हरकोपाग्निनिर्दग्धाः क्रन्दन्ते त्रिपुरे जनाः ।
प्रदीप्तं सर्वतो दिक्षु दह्यते त्रिपुरं परम् ॥ २८.३८ ॥
पतन्ति शिखराग्राणि विशीर्णानि सहस्रशः ।
पावको धूमसंपृक्तो दह्यमानः समन्ततः ॥ २८.३९ ॥
नृत्यन्वै व्याप्तदिग्देशः कान्तारेष्वभिधावति ।
देवागारेषु सर्वेषु गृहेष्वट्टालकेषु च ॥ २८.४० ॥
प्रवृत्तो हुतभुक्तत्र पुरे कालप्रचोदितः ।
ददाह लोकान्सर्वत्र हरकोपप्रकोपितः ॥ २८.४१ ॥
दहते त्रैपुरं लोकं बालवृद्धसमन्वितम् ।
सपुरं सगृहद्वारं सवाहनवनं नृप ॥ २८.४२ ॥
केचिद्भोजनसक्ताश्च पानासक्तास्तथापरे ।
अपरा नृत्यगीतेषु संसक्ता वारयोषितः ॥ २८.४३ ॥
अन्योन्यं च परिष्वज्य हुताशनशिखार्दिताः ।
दह्यमाना नृपश्रेष्ठ सर्वे गच्छन्त्यचेतनाः ॥ २८.४४ ॥
अथान्ये दानवास्तत्र दह्यन्तेऽग्निविमोहिताः ।
न शक्ताश्चान्यतो गन्तुं धूमेनाकुलिताननाः ।
हंसकारण्डवाकीर्णा नलिन्यो हेमपङ्कजाः ॥ २८.४५ ॥
दह्यन्ते विविधास्तत्र वाप्यः कूपाश्च भारत ।
दृश्यन्तेऽनलदग्धानि पुरोद्यानानि दीर्घिकाः ।
अम्लानैः पङ्कजैश्छन्ना विस्तीर्णावसुयोजनाः ॥ २८.४६ ॥
गिरिकूटनिभास्तत्र प्रासादा रत्नशोभिताः ।
दृश्यन्तेऽनलसंदग्धा विशीर्णा धरणीतले ॥ २८.४७ ॥
नरस्त्रीबालवृद्धेषु दह्यमानेषु सर्वतः ।
निर्दयं ज्वलते वह्निर्हाहाकारो महानभूत् ।
काचिच्च सुखसंसुप्ताप्रमत्तान्या नृपोत्तम ॥ २८.४८ ॥
क्रीडित्वा च सुविस्तीर्णशयनस्था वराङ्गना ।
काचित्सुप्ता विशालाक्षी हारावलिविभूषिता ।
धूमेनाकुलिता दीना न्यपतद्धव्यवाहने ॥ २८.४९ ॥
काचित्तस्मिन्पुरे दीप्ते पुत्रस्नेहानुलालसा ।
पुत्रमालिङ्गते गाढं दह्यते त्रिपुरेऽग्निना ॥ २८.५० ॥
काचित्कनकवर्णाभा इन्द्रनीलविभूषिता ।
भर्तारं पतितं दृष्ट्वा पतिता तस्य चोपरि ॥ २८.५१ ॥
काचिदादित्यवर्णाभा प्रसुप्ता तु प्रियोपरि ।
अग्निज्वालाहता गाढं कंठमालिङ्गते नृप ॥ २८.५२ ॥
मेधवर्णा परा नारी चलत्कनकमेखला ।
श्वेतवस्त्रोत्तरीया तु पपात धरणीतले ॥ २८.५३ ॥
काचित्कुन्देन्दुवर्णाभा नीलरत्नविभूषिता ।
शिरसा प्राञ्जलिर्भूत्वा विज्ञापयति पावकम् ॥ २८.५४ ॥
कस्याश्चिज्ज्वलते वस्त्रं केशाः कस्याश्च भारत ।
ज्वलज्ज्वलनसङ्काशैर्हेमभाण्डैस्त्रसंहित च ॥ २८.५५ ॥
काचित्प्रभूतदुःखार्ता विललाप वराङ्गना ।
भस्मीभूतं पतिं दृष्ट्वा क्रन्दन्ती कुररी यथा ॥ २८.५६ ॥
आलिङ्ग्य गाढं सहसा पतिता तस्य मूर्धनि ।
काचिच्च बहुदुःखार्ता व्यलपत्स्त्री स्ववेश्मनि ॥ २८.५७ ॥
भस्मसाच्च कृतं दृष्ट्वा क्रन्दते कुररी यथा ।
मातरं पितरं काचिद्दृष्ट्वा विगतचेतनम् ॥ २८.५८ ॥
वेपते पतिता भूमौ खेदिता वडवा यथा ।
इतश्चेतश्च काचिच्च दह्यमाना वराङ्गना ॥ २८.५९ ॥
नापश्यद्बालमुत्सङ्गे विपरीतमुखी स्थिता ।
कुम्भिलस्य गृहं दग्धं पतितं धरणीतले ॥ २८.६० ॥
कूष्माण्डस्य च धूम्रस्य कुहकस्य बकस्य च ।
विरूपनयनस्यापि विरूपाक्षस्य चैव हि ॥ २८.६१ ॥
शुम्भो डिम्भश्च रौद्रश्च प्रह्लादश्चासुरोत्तमः ।
दण्डपाणिर्विपाणिश्च सिंहवक्त्रस्तथानघ ॥ २८.६२ ॥
दुन्दुभश्चैव संह्रादो डिण्डिर्मुण्डिस्तथैव च ।
बाणभ्राता च बाणश्च क्रव्यादव्याघ्रवक्त्रकौ ॥ २८.६३ ॥
एवमन्येऽपि ये केचिद्दानवा बलदर्पिताः ।
तेषां गृहे तथा वह्निर्ज्वलते निर्दयो नृप ।
दह्यमानाः स्त्रियस्तात विलपन्ति गृहे गृहे ॥ २८.६४ ॥
करुणाक्षरवादिन्यो निराधारा गताः शिवम् ।
यदि वैरं सुरारेश्च पुरुषोपरिपावक ॥ २८.६५ ॥
स्त्रियः किमपराध्यन्ति गृहपञ्जरकोकिलाः ।
अनिर्दयो नृशंसस्त्वं कस्ते कोपः स्त्रियं प्रति ॥ २८.६६ ॥
किं त्वया न श्रुतं लोके अवध्याः सर्वथा स्त्रियः ।
किं तु तुभ्यं गुणो ह्यस्ति दहने पवनेरितः ॥ २८.६७ ॥
न कारुण्यं त्वया किंचिद्दाक्षिण्यं च स्त्रियं प्रति ।
दयां म्लेच्छा हि कुर्वन्ति वचनं वीक्ष्य योषिताम् ॥ २८.६८ ॥
म्लेच्छानामपि च म्लेच्छो दुर्निवार्यो ह्यचेतनः ।
एवं विलपमानानां स्त्रीणां तत्रैव भारत ॥ २८.६९ ॥
ज्वालाकलापबहुलः प्रज्वलत्येव पावकः ।
एवं दृष्ट्वा ततो बाणो दह्यमान उवाच ह ॥ २८.७० ॥
अवज्ञाय विनष्टोऽहं पापात्मा हरमञ्जसा ।
मया पापेन मूर्खेण ये लोका नाशिता ध्रुवम् ॥ २८.७१ ॥
गोब्राह्मणा हता नित्यमिह लोके परत्र च ।
नाशितान्यन्नपानानि मठारामाश्रमास्तथा ॥ २८.७२ ॥
ऋषीणामाश्रमाश्चैव देवारामा गणालयाः ।
तेन पापेन मे ध्वंसस्तपसश्च बलस्य च ॥ २८.७३ ॥
किं धनेन करिष्यामि राज्येणान्तःपुरेण च ॥ २८.७४ ॥
वरं शङ्करपादौ च शरणं यामि मूढधीः ।
न माता न पिता चैव न बन्धुर्नापरो जनः ॥ २८.७५ ॥
मुक्त्वा चैव महेशानं परमार्तिहरं परम् ।
आत्मना च कृतं पापमात्मनैव तु भुज्यते ॥ २८.७६ ॥
अहं पुनः समस्तैश्च दह्यामि सह साधुभिः ।
एवमुक्त्वा शिवं लिङ्गं कृत्वा तन्मस्तकोपरि ॥ २८.७७ ॥
निर्जगाम गृहाच्छीघ्रं पावकेनावगुण्ठितः ।
स खिन्नः स्विन्नगात्रस्तु प्रस्खलंस्तु मुहुर्मुहुः ॥ २८.७८ ॥
हरं गद्गदया वाचा स्तुवन्वै शरणं ययौ ।
त्वत्कोपानलनिर्दग्धो यदि वध्योऽस्मि शङ्कर ॥ २८.७९ ॥
त्वत्प्रसादान्महादेव मा मे लिङ्गं प्रणश्यतु ।
अर्चितं मे सुरश्रेष्ठ ध्यातं भक्त्या मया विभो ॥ २८.८० ॥
प्राणादिष्टतमं देव तस्माद्रक्षितुमर्हसि ।
यदि तेऽहमनुग्राह्यो वध्यो वा सुरसत्तम ॥ २८.८१ ॥
प्रतिजन्म महादेव त्वद्भक्तिरचलास्तु मे ।
पशुकीटपतङ्गेषु तिर्यग्योनिगतेषु च ।
स्वकर्मणा महादेव त्वद्भक्तिरचलास्तु मे ॥ २८.८२ ॥
एवमुक्त्वा महाभागो बाणो भक्तिमतां वरः ।
स्तोत्रेण देवदेवेशं छन्दयामास भारत ॥ २८.८३ ॥

बाण उवाच -
शिव शङ्कर सर्वहराय नमो भवभीतभयार्तिहराय नमः ।
कुसुमायुधदेहविनाशंकर प्रमदाप्रियकामक देव नमः ॥ २८.८४ ॥
जय पार्वतीश परमार्थसार जय विरचितभीमभुजङ्गहार ।
जय निर्मलभस्मविलिप्तगात्र जय मन्त्रमूल जगदेकपात्र ॥ २८.८५ ॥
जय विषधरकपिलजटाकलाप जय भैरवविघृतपिनाकचाप ।
जय विषमनयनपरिमुक्तसङ्ग जय शङ्कर धृतगाङ्गतरङ्ग ॥ २८.८६ ॥
जय भीमरूप खट्वाङ्गहस्त शशिशेखर जय जगतां प्रशस्त ।
जय सुखरेश सुरलोकसार जय सर्वसकलनिर्दग्धसार ॥ २८.८७ ॥
जय कीर्तनीय जगतां पवित्र जय वृषाङ्क बहुविधचरित्र ।
जय विरचितनरकङ्कालमाल अघासुरदेहकङ्कालकाल ॥ २८.८८ ॥
जय नीलकंठ वरवृषभगमन जय सकललोकदुरितानुशमन ।
जय सिद्धसुरासुरविनतचरण जय रुद्र रौद्रभवजलधितरण ॥ २८.८९ ॥
जय गिरिश सुरेश्वरमाननीय जय सूक्ष्मरूप संचितनीय ।
जय दग्धत्रिपुर विश्वसत्त्व जय सकलशास्त्रपरमार्थतत्त्व ॥ २८.९० ॥
जय दुरवबोध संसारतार कलिकलुषमहार्णवघोरतार ।
जय सुरासुरदेवगणेश नमो हयवानरसिंहगजेन्द्रमुख ॥ २८.९१ ॥
अतिह्रस्वस्थूलसुदीर्घतम उपलब्धिर्न शक्यते ते ह्यमरैः ।
प्रणतोऽस्मि निरञ्जन ते चरणौ जय साम्ब सुलोचनकान्तिहर ॥ २८.९२ ॥
अप्राप्य त्वां किमत्यन्तमुच्छ्रयी न विनाशयेत् ।
अतिप्रमाथि च तदा तपो महत्सुदारुणम् ॥ २८.९३ ॥
न पुत्रबान्धवा दारा न समस्तः सुहृज्जनः ।
सङ्कटेऽभ्युपगच्छन्ति व्रजन्तमेकगामिनम् ॥ २८.९४ ॥
यदेव कर्म कैवल्यं कृतं तेन शुभाशुभम् ।
तदेव सार्थवत्तस्य भवत्यग्रे तु गच्छतः ॥ २८.९५ ॥
निर्धनस्यैव चरतो न भयं विद्यते क्वचित् ।
धनीभयैर्न मुच्येत धनं तस्मात्त्यजाम्यहम् ॥ २८.९६ ॥
लुब्धाः पापानि कुर्वन्ति शुद्धांशा नैव मानवाः ।
श्रुत्वा धर्मस्य सर्वस्वं श्रुत्वा चैवावधार्य तत् ॥ २८.९७ ॥
त्वं विष्णुस्त्वं जगन्नाथो ब्रह्मरूपः सनातनः ।
इन्द्रस्त्वं देवदेवेश सुरनाथ नमोऽस्तु ते ॥ २८.९८ ॥
त्वं क्षितिर्वरुणश्चैव पवनस्त्वं हुताशनः ।
त्वं दीक्षा यजमानश्च आकाशं सोम एव च ॥ २८.९९ ॥
त्वं सूर्यस्त्वं तु वित्तेशो यमस्त्वं गुरुरेव च ।
त्वया व्याप्तं जगत्सर्वं त्रैलोक्यं भास्वता यथा ॥ २८.१०० ॥
एतद्बाणकृतं स्तोत्रं श्रुत्वा देवो महेश्वरः ।
क्रोधं मुक्त्वा प्रसन्नात्मा तदा वचनमब्रवीत् ॥ २८.१०१ ॥

ईश्वर उवाच -
न भेतव्यं न भेतव्यमद्यप्रभृति दानव ।
सौवर्णे भवने तिष्ठ मम पार्श्वेऽथवा पुनः ॥ २८.१०२ ॥
पुत्रपौत्रप्रपौत्रैश्च बान्धवैः सह भार्यया ।
अद्यप्रभृति वत्स त्वमवध्यः सर्वशत्रुषु ॥ २८.१०३ ॥

मार्कण्डेय उवाच -
भूयस्तस्य वरो दत्तो देवदेवेन भारत ।
स्वर्गे मर्त्ये च पाताले पूजितः ससुरासुरैः ॥ २८.१०४ ॥
अक्षयश्चाव्ययश्चैव वस त्वं वै यथासुखम् ।
ततो निवारयामास रुद्रः सप्तशिखं तदा ॥ २८.१०५ ॥
तृतीयं रक्षितं तस्य पुरं देवेन शम्भुना ।
ज्वालामालाकुलं चान्यत्पतितं धरणीतले ॥ २८.१०६ ॥
अर्धेन प्रस्थितादूर्ध्वं तस्य ज्वाला दिवं गताः ।
हाहाकारो महांस्तत्र ऋषिसङ्घैरुदीरितः ॥ २८.१०७ ॥
दैवतैश्च महाभागैः सिद्धविद्याधरादिभिः ।
एकं तु पतितं तत्र श्रीशैले खण्डमुत्तरम् ॥ २८.१०८ ॥
द्वितीयं पतितं राजञ्छैले ह्यमरकण्टके ।
प्रज्वलत्पतितं तत्र तेन ज्वालेश्वरं स्मृतम् ॥ २८.१०९ ॥
दग्धे तु त्रिपुरे राजन्पतिते खण्ड उत्तमे ।
रुद्रो देवः स्थितस्तत्र ज्वालामालानिवारकः ॥ २८.११० ॥
हाहाकारपराणां तु ऋषीणां रक्षणाय च ।
स्वयं मूर्तिर्महेशानुमावृषभसंयुतः ॥ २८.१११ ॥
मनसापि स्मरेद्यस्तु भक्त्या ह्यमरकण्टकम् ।
चान्द्रायणाधिकं पुण्यं स लभेन्नात्र संशयः ॥ २८.११२ ॥
अतिपुण्यो गिरिश्रेष्ठो यस्माद्भरतसत्तम ।
अस्मान्नित्यं भवेद्राजन्सर्वपापक्षयंकरः ॥ २८.११३ ॥
नानाद्रुमलताकीर्णो नानापुष्पोपशोभितः ।
नानागुल्मलताकीर्णो नानावल्लीभिरावृतः ॥ २८.११४ ॥
सिंहव्याघ्रसमाकीर्णो मृगयूथैरलंकृतः ।
श्वापदानां च घोषेण नित्यं प्रमुदितोऽभवत् ॥ २८.११५ ॥
ब्रह्मेन्द्रविष्णुप्रमुखैर्ह्यमरैश्च सहस्रशः ।
सेव्यते देवदेवेशः शङ्करस्तत्र पर्वते ॥ २८.११६ ॥
पतनं कुरुते योऽस्मिन्पर्वतेऽमरकण्टके ।
क्रीडते क्रमशो राजन्भुवनानि चतुर्दश ॥ २८.११७ ॥
ऐन्द्रं वाह्नं च कौबेरं वायव्यं याम्यमेव च ।
नैरृत्यं वारुणं चैव सौम्यं सौरं तथैव च ॥ २८.११८ ॥
ब्राह्मं च पदमक्लिष्टं वैष्णवं तदनन्तरम् ।
उमारुद्रं महाभाग ऐश्वरं तदनन्तरम् ॥ २८.११९ ॥
परं सदाशिवं शान्तं सूक्ष्मं ज्योतिरतीन्द्रियम् ।
तस्मिन्याति लयं धीरो विधिना नात्र संशयः ॥ २८.१२० ॥

युधिष्ठिर उवाच -
कोऽप्यत्र विधिरुद्दिष्टः पतने ऋषिसत्तम ।
एतन्मे सर्वमाचक्ष्व संशयोऽस्ति महामुने ॥ २८.१२१ ॥

श्रीमार्कण्डेय उवाच -
शृणुष्व कथयिष्यामि तं विधिं पाण्डुनन्दन ।
यत्कृत्वा प्रथमं कर्म निपतेत्तदनन्तरम् ॥ २८.१२२ ॥
कृत्वा कृच्छ्रत्रयं पूर्वं जप्त्वा लक्षं दशैव तु ।
शाकयावकभुक्चैव शुचिस्त्रिषवणो नृप ॥ २८.१२३ ॥
त्रिकालमर्चयेदीशं देवदेवं त्रिलोचनम् ।
दशांशेन तु राजेन्द्र होमं तत्रैव कारयेत् ॥ २८.१२४ ॥
लक्षवारं जपेद्देवं गन्धमाल्यैश्च पूजयेत् ।
रात्रौ स्वप्ने तदा पश्येद्विमानस्थं ततः क्षिपेत् ॥ २८.१२५ ॥
अनेनैव विधानेन आत्मानं यस्तु निक्षिपेत् ।
स्वर्गलोकमनुप्राप्य क्रीडते त्रिदशैः सह ॥ २८.१२६ ॥
त्रिंशद्वर्षसहस्राणि त्रिंशत्कोट्यस्तथैव च ।
मुक्त्वा मनोरमान्भोगांस्तदा गच्छेन्महीतलम् ॥ २८.१२७ ॥
पृथिवीमेकच्छत्रेण भुनक्ति लोकपूजितः ।
व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ २८.१२८ ॥
ज्वालेश्वरं तु तत्तीर्थं त्रिषु लोकेषु विश्रुतम् ।
तत्र ज्वाला नदी पार्थ प्रस्रुता शिवनिर्मिता ॥ २८.१२९ ॥
निर्वाप्य तद्बाणपुरं रेवया सह संगता ।
तत्र स्नात्वा महाराज विधिना मन्त्रसंयुतः ॥ २८.१३० ॥
तिलसंमिश्रतोयेन तर्पयेत्पितृदेवताः ।
पिण्डदानेन च पित्ःन् पैण्डरीकफलं लभेत् ॥ २८.१३१ ॥
अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।
मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ २८.१३२ ॥
अमराणां शतैश्चैव सेवितो ह्यमरेश्वरः ।
तथैव ऋषिसङ्घैश्च तेन पुण्यतमो महान् ॥ २८.१३३ ॥
समन्ताद्योजनं तीर्थं पुण्यं ह्यमरकण्टकम् ।
रुद्रकोटिसमोपेतं तेन तत्पुण्यमुत्तमम् ॥ २८.१३४ ॥
तस्य पर्वतराजस्य यः करोति प्रदक्षिणम् ।
प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः ॥ २८.१३५ ॥
वाचिकं मानसं चैव कायिकं त्रिविधं च यत् ।
नश्यते पातकं सर्वमित्येवं शङ्करोऽब्रवीत् ॥ २८.१३६ ॥
अमरेश्वरपार्श्वे च तीर्थं शक्रेश्वरं नृप ।
तपस्तप्त्वा पुरा तत्र शक्रेण स्थापितं किल ॥ २८.१३७ ॥
कुशावर्तं नाम तीर्थं ब्रह्मणा च कृतं शुभम् ।
ब्रह्मकुण्डमिति ख्यातं हंसतीर्थं तथा परम् ॥ २८.१३८ ॥
अम्बरीषस्य तीर्थं च महाकालेश्वरं तथा ।
कावेर्याः पूर्वभागे च तीर्थं वै मातृकेश्वरम् ॥ २८.१३९ ॥
एतानि दक्षिणे तीरे रेवाया भरतर्षभ ।
संसेवनस्नानदानैः पापसङ्घहराणि च ॥ २८.१४० ॥
भृगुतुङ्गे महाराज प्रसिद्धो भैरवः शिवः ।
तस्य याम्यविभागे च तीर्थं वै चपलेश्वरम् ॥ २८.१४१ ॥
एतौ स्थितौ दुःखहरौ रेवाया उत्तरे तटे ।
तावभ्यर्च्य तथा नत्वा सम्यग्यात्राफलं भवेत् ।
अदृष्टपूजितौ तौ हि नराणां विघ्नकारकौ ॥ २८.१४२ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे त्रिपुरविध्वंसने ज्वालेश्वरतीर्थामरेश्वतीर्थमाहात्म्यवर्णनं नामाष्टाविंशोऽध्यायः ॥