स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०२७

विकिस्रोतः तः
Jump to navigation Jump to search


अध्याय २७

श्रीमार्कण्डेय उवाच -
नारदस्य वचः श्रुत्वा राज्ञी वचनमब्रवीत् ।
प्रसादं कुरु विप्रेन्द्र गृह्ण दानं यथेप्सितम् ॥ २७.१ ॥
सुवर्णमणिरत्नानि वस्त्राणि विविधानि च ।
तत्ते दारयामि विप्रेन्द्र यच्चान्यदपि दुर्लभम् ॥ २७.२ ॥
राज्ञ्यास्तु वचनं श्रुत्वा नारदो वाक्यमब्रवीत् ।
अन्येषां दीयतां भद्रे ये द्विजाः क्षीणवृत्तयः ॥ २७.३ ॥
वयं तु सर्वसम्पन्ना भक्तिग्राह्याः सदैव हि ।
इत्युक्ता सा तदा राज्ञी वेदवेदाङ्गपारगान् ॥ २७.४ ॥
आहूय ब्राह्मणान्निःस्वान्दातुं समुपचक्रमे ।
यत्किंचिन्नारदेनोक्तं दानसौभाग्यवर्धनम् ॥ २७.५ ॥
तेन दानेन मे नित्यं प्रीयेतां हरिशङ्करौ ।
ततो राज्ञी च सा प्राह नारदं मुनिपुंगवम् ॥ २७.६ ॥

राज्ञ्युवाच -
दानं दत्तं त्वयोक्तं यद्भर्तृकर्मपरं हि तत् ।
आजन्मजन्म मे भर्ता भवेद्बाणो द्विजोत्तम ॥ २७.७ ॥
नान्यो हि दैवतं तात मुक्त्वा बाणं द्विजोत्तम ।
तेन सत्येन मे भर्ता जीवेच्च शरदां शतम् ॥ २७.८ ॥
नान्यो धर्मो भवेत्स्त्रीणां दैवतं हि पतिर्यथा ।
तथापि तव वाक्येन दानं दत्तं यथाविधि ॥ २७.९ ॥
स्वकं कर्म करिष्यामो भर्तारं प्रति मानद ।
ब्रह्मर्षे गच्छ चेदानीं त्वमाशीर्वादः प्रदीयताम् ॥ २७.१० ॥
तथेति तामनुज्ञाप्य नारदो नृपसत्तम ।
सर्वासां मानसं हृत्वा अन्यतः कृतमानसः ॥ २७.११ ॥
जगामादर्शनं विप्रः पूज्यमानस्तु खेचरैः ।
ततो गतमनस्कास्ता भर्तारं प्रति भारत ॥ २७.१२ ॥
विवर्णा निष्प्रभा जाता नारदेन विमोहिताः ॥ २७.१३ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये त्रिपुरक्षोभणवर्णनं नाम सप्तविंशोऽध्यायः ॥