स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०२३
अध्याय २३
मार्कण्डेय उवाच -
तत्रैव सङ्गमे राजन्भक्त्या परमया नृप ।
प्राणांस्त्यजन्ति ये मर्त्यास्ते यान्ति परमां गतिम् ॥ २३.१ ॥
संन्यस्तसर्वसंकल्पो यस्तु प्राणान्परित्यजेत् ।
अमरेश्वरमासाद्य स स्वर्गे नियतं वसेत् ॥ २३.२ ॥
शैलेन्द्रं यः समासाद्य आत्मानं मुञ्चते नरः ।
विमानेनार्कवर्णेन स गच्छेदमरावतीम् ॥ २३.३ ॥
नरं पतन्तमालोक्य नगादमरकण्टकात् ।
ब्रुवन्त्यप्सरसः सर्वा मम भर्ता भवेदिति ॥ २३.४ ॥
समं जलं धर्मविदो वदन्ति सारस्वतं गाङ्गमिति प्रबुद्धाः ।
तस्योपरिष्टात्प्रवदन्ति तज्ज्ञा रेवाजलं नात्र विचारणास्ति ॥ २३.५ ॥
अनेकविद्याधरकिन्नराद्यैरध्यासितं पुण्यतमाधिवासैः ।
रेवाजलं धारयतो हि मूर्ध्ना स्थानं सुरेन्द्राधिपतेः समीपे ॥ २३.६ ॥
नर्मदा सर्वदा सेव्या बहुनोक्तेन किं नृप ।
यदीच्छेन्न पुनर्द्रष्टुं घोरं संसारसागरम् ॥ २३.७ ॥
त्रयाणामपि लोकानां महती पावनी स्मृता ।
यत्र तत्र मृतस्यापि ध्रुवं गाणेश्वरी गतिः ॥ २३.८ ॥
अनेकयज्ञायतनैर्वृताङ्गी न ह्यत्र किंचिद्यदतीर्थमस्ति ।
तस्यास्तु तीरे भवता यदुक्तं तपस्विनो वाप्यतपस्विनो वा ॥ २३.९ ॥
म्रियन्ति ये पापकृतो मनुष्यास्ते स्वर्गमायान्ति यथाऽमरेन्द्राः ॥ २३.१० ॥
एवं तु कपिला चैव विशल्या राजसत्तम ।
ईश्वरेण पुरा सृष्टा लोकानां हितकाम्यया ॥ २३.११ ॥
तत्र स्नात्वा नरो राजन्सोपवासो जितेन्द्रियः ।
अश्वमेधस्य महतोऽसंशयं फलमाप्नुयात् ॥ २३.१२ ॥
अनाशकं च यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।
सर्वपापविनिर्मुक्तो याति वै शिवमन्दिरम् ॥ २३.१३ ॥
पृथिव्यां सागरान्तायां स्नानदानेन यत्फलम् ।
विशल्यासङ्गमे स्नात्वा सकृत्तत्फलमश्नुते ॥ २३.१४ ॥
एवं पुण्या पवित्रा च कथिता तव भूपते ।
भूयो मां पृच्छसि च यत्तच्चैव कथयाम्यहम् ॥ २३.१५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे विशल्यासङ्गममाहात्म्यवर्णनं नाम त्रयोविंशोऽध्यायः ॥