स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०२२

विकिस्रोतः तः
Jump to navigation Jump to search


श्री मार्कण्डेय उवाच -
अतः परं प्रवक्ष्यामि सा विशल्या ह्यभूद्यथा ।
आश्चर्यभूता लोकस्य सर्वपापक्षयंकरी ॥ २२.१ ॥
ब्रह्मणो मानसः पुत्रो मुख्यो ह्यग्निरजायत ।
मुख्यो वह्निरितिप्रोक्त ऋषिः परमधार्मिकः ॥ २२.२ ॥
तस्य स्वाहाभवत्पत्नी स्मृता दाक्षायणी तु सा ।
तस्यां मुख्या महाराज त्रयः पुत्रास्तदाऽभवन् ॥ २२.३ ॥
अग्निराहवनीयस्तु दक्षिणाग्निस्तथैव च ।
गार्हपत्यस्तृतीयस्तु त्रैलोक्यं यैश्च धार्यते ॥ २२.४ ॥
तथा वै गार्हपत्योऽग्निर्जज्ञे पुत्रद्वयं शुभम् ।
पद्मकः शङ्कुनामा च तावुभावग्निसत्तमौ ॥ २२.५ ॥
वसन्नग्निर्नदीतीरे समाश्रित्य महत्तपः ।
रुद्रमाराधयामास जितात्मा सुसमाहितः ॥ २२.६ ॥
दशवर्षसहस्राणि चचार विपुलं तपः ।
तमुवाच महादेवः प्रसन्नो वृषभध्वजः ॥ २२.७ ॥
भोभो ब्रूहि महाभाग यत्ते मनसि वर्तते ।
दाता ह्यहमसंदेहो यद्यपि स्यात्सुदुर्लभम् ॥ २२.८ ॥

अग्निरुवाच -
नर्मदेयं महाभागा सरितो याश्च षोडश ।
भवन्तु मम पत्न्यस्तास्त्वत्प्रसादान्महेश्वर ॥ २२.९ ॥
तासु वै चिन्तितान् पुत्रानग्र्यानुत्पादयाम्यहम् ।
एष एव वरो देव दीयतां मे महेश्वर ॥ २२.१० ॥

ईश्वर उवाच -
एतास्तु धिष्णिनाम्न्यो वै भविष्यन्ति सरिद्वराः ।
पत्न्यस्तव विशालाक्ष्यो वेदे ख्याता न संशयः ॥ २२.११ ॥
तासां पुत्रा भविष्यन्ति ह्यग्नयो येऽध्वरे स्मृताः ।
धिष्ण्यानाम सुविख्याता यावदाभूतसम्प्लवम् ॥ २२.१२ ॥
एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत ।
नर्मदा च सरिच्छ्रेष्ठा तस्य भार्या बभूव ह ॥ २२.१३ ॥
कावेरी कृष्णवेणी च रेवा च यमुना तथा ।
गोदावरी वितस्ता च चन्द्रभागा इरावती ॥ २२.१४ ॥
विपाशा कौशिकी चैव सरयूः शतरुद्रिका ।
शिप्रा सरस्वती चैव ह्रादिनी पावनी तथा ॥ २२.१५ ॥
एताः षोडशा नद्यो वै भार्यार्थं संव्यवस्थिताः ।
तदात्मानं विभज्याशु धिष्णीषु स महाद्युतिः ॥ २२.१६ ॥
व्यभिचारात्तु भर्तुर्वै नर्मदाद्यासु धिष्णिषु ।
उत्पन्नाः शुचयः पुत्राः सर्वे ते धिष्ण्यपाः स्मृताः ॥ २२.१७ ॥
तस्याश्च नर्मदायास्तु धिष्णीन्द्रो नाम विश्रुतः ।
बभूव पुत्रो बलवान्रूपेणाप्रतिमो नृप ॥ २२.१८ ॥
ततो देवासुरं युद्धमभवल्लोमहर्षणम् ।
मयतारकमित्येवं त्रिषु लोकेषु विश्रुतम् ॥ २२.१९ ॥
तत्र दैत्यैर्महाघोरैर्मयतारपुरोगमैः ।
ताडितास्ते सुरास्त्रस्ता विष्णुं वै शरणं ययुः ॥ २२.२० ॥
त्रायस्व नो हृषीकेशा घोरादस्मान्महाभयात् ।
दैत्यान्सर्वान्संहरस्व मयतारपुरोगमान् ॥ २२.२१ ॥
एवमुक्तः स भगवान्दिशो दश व्यलोकयत् ।
ततो भगवता दृष्टौ रणे पावकमारुतौ ॥ २२.२२ ॥
आहूतौ विष्णुना तौ तु सकाशं जग्मतुः क्षणात् ।
स्थितौ तौ प्रणतौ चाग्रे देवदेवस्य धीमतः ॥ २२.२३ ॥
ततो धिष्णिः पावकेन्द्रो देवेनोक्तो महात्मना ।
निर्दहेमान्महाघोरान्नार्मदेय महासुरान् ॥ २२.२४ ॥
अथैवमुकौ तौ देवौ रणे पावकमारुतौ ।
दैत्यान् ददहतुः सर्वान्मयतारपुरोगमान् ॥ २२.२५ ॥
दह्यमानास्तु ते सर्वे शस्त्रैरग्निं त्ववेष्टयन् ।
दिव्यैरग्न्यर्कसङ्काशैः शतशोऽथ सहस्रशः ॥ २२.२६ ॥
तांश्चाग्निः शस्त्रनिकरैर्निर्ददाह महासुरान् ।
ज्वालामालाकुलं सर्वं वायुना निर्मितं तदा ॥ २२.२७ ॥
दह्यमानास्ततो दैत्या अग्निज्वालासमावृताः ।
प्रविश्य पातालतलं जले लीनाः सहस्रशः ॥ २२.२८ ॥
ततः कुमारमग्निं तु नर्मदापुत्रमव्ययम् ।
पूजयित्वा सुराः सर्वे जग्मुस्ते त्रिदशालयम् ॥ २२.२९ ॥
सशल्यस्तु महातेजा रेवापुत्रो वृतोऽग्निभिः ।
नर्मदामागतः क्षिप्रं मातरं द्रष्टुमुत्सुकः ॥ २२.३० ॥
तं दृष्ट्वा पुत्रमायान्तं शस्त्रौघेण परिक्षतम् ।
नर्मदा पुण्यसलिला अभ्युत्थाय सुविस्मिता ॥ २२.३१ ॥
पर्यष्वजत बाहुभ्यां प्रस्नवापीडितस्तनी ।
सशल्यं पुत्रमादाय कापिलं ह्रदमाविशत् ॥ २२.३२ ॥
प्रविष्टमात्रे तु ह्रदे कापिले पापनाशिनि ।
सशल्यं तं विशल्यं च क्षणात्कृतवती तदा ॥ २२.३३ ॥
स विशल्योऽभवद्यस्मात्प्राप्य तस्याः शिवं जलम् ।
कपिला नामतस्तेन विशल्या चोच्यते बुधैः ॥ २२.३४ ॥
अन्येऽपि तत्र ये स्नाताः शुचयस्तु समाहिताः ।
पापशल्यैः प्रमुच्यन्ते मृता यान्ति सुरालयम् ॥ २२.३५ ॥
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं पुरा त्वया ।
उत्पत्तिकारणं तात विशल्याया नरेश्वर ॥ २२.३६ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये विशल्यासम्भवो नाम द्वाविंशोऽध्यायः ॥