स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०२०

विकिस्रोतः तः
Jump to navigation Jump to search


युधिष्ठिर उवाच -
श्रुता मे विविधा धर्माः संहारास्त्वत्प्रसादतः ।
कृता देवेन सर्वेण ये च दृष्टास्त्वयानघ ॥ २०.१ ॥
साम्प्रतं श्रोतुमिच्छामि प्रभावं शार्ङ्गधन्वनः ।
त्वयानुभूतं विप्रेन्द्र तन्मे त्वं वक्तुमर्हसि ॥ २०.२ ॥

श्रीमार्कण्डेय उवाच -
अतः परं प्रवक्ष्यामि प्रजासंहारलक्षणम् ।
यच्चिह्नं दृश्यते तत्र यथा कल्पो विधीयते ॥ २०.३ ॥
उल्कापाताः सनिर्घाता भूमिकम्पस्तथैव च ।
पतते पांशुवर्षं च निर्घोषश्चैव दारुणः ॥ २०.४ ॥
यक्षकिन्नरगन्धर्वाः पिशाचोरगराक्षसाः ।
सर्वे ते प्रलयं यान्ति युगान्ते समुपस्थिते ॥ २०.५ ॥
पर्वताः सागरा नद्यः सरांसि विविधानि च ।
वृक्षाः शेषं समायान्ति वल्लीजातं तृणानि च ॥ २०.६ ॥
एवं हि व्याकुलीभूते सर्वौषधिजलोज्झिते ।
काष्ठभूते तु संजाते त्रैलोक्ये सचराचरे ॥ २०.७ ॥
यावत्पश्यामि मध्याह्ने स्नानकाल उपस्थिते ।
त्रैलोक्यं ज्वलनाकारं दुर्निरीक्षं दुरासदम् ॥ २०.८ ॥
द्वौ सूर्यौ पूर्वतस्तात पश्चिमोत्तरयोस्तथा ।
तथैव दक्षिणे द्वौ च सूर्यौ दृष्टौ प्रतापिनौ ॥ २०.९ ॥
द्वौ सूर्यौ नागलोकस्थौ मध्ये द्वौ गगनस्य च ।
इत्येते द्वादशादित्यास्तपन्ते सर्वतो दिशम् ॥ २०.१० ॥
पृथिवीमदहन्सर्वां सशैलवनकाननाम् ।
नादग्धं दृश्यते किंचिदृते रेवां च मां तथा ॥ २०.११ ॥
पृथिव्यां दह्यमानायां हविर्गन्धश्च जायते ।
ततो मे शुष्यते गात्रं तृषाप्येवं दुरासदा ॥ २०.१२ ॥
न हि विन्दामि पानीयं शोषितं च दिवाकरैः ।
यावत्कमण्डलुं वीक्षे शुष्कं तत्रापि तज्जलम् ॥ २०.१३ ॥
ततोऽहं शोकसंतप्तो विशेषात्क्षुत्तृषार्दितः ।
उत्पपात क्षितेरूर्ध्वं पश्यमानो दिवं प्रति ॥ २०.१४ ॥
तावत्पश्यामि गगने गृहं शृङ्गारभूषितम् ।
ततस्तज्ज्ञातुकामोऽहं प्रस्थितो राजसत्तम ॥ २०.१५ ॥
प्राकारेण विचित्रेण कपाटार्गलभूषितम् ।
विचित्रशिखरोपेतं द्वारदेशमुपागतः ॥ २०.१६ ॥
षडशीतिसहस्राणि योजनानां समुच्छ्रये ।
तदर्धं तु पृथक्त्वेन काञ्चनं रत्नभूषितम् ॥ २०.१७ ॥
तत्र मध्ये परां शय्यां पश्यामि नृपसत्तम ।
शय्योपरि शयानं तु पुरुषं दिव्यमूर्धजम् ॥ २०.१८ ॥
विकुञ्चिताग्रकेशान्तं समस्तं योजनायतम् ।
मुकुटेन विचित्रेण दीप्तिकान्तेन शोभितम् ॥ २०.१९ ॥
श्यामं कमलपत्राभं सुप्रभं च सुनासिकम् ।
सिंहास्यमायतभुजं गल्लश्मश्रुवराङ्कितम् ॥ २०.२० ॥
त्रिवलीभङ्गसुभगं कर्णकुण्डलभूषितम् ।
विशालाभं सुपीनाङ्गं पार्श्वस्वावर्तभूषितम् ॥ २०.२१ ॥
शोभितं कटिभागेन विभक्तं जानुजङ्घयोः ।
पद्माङ्किततलं देवमाताम्रसुनखाङ्गुलिम् ॥ २०.२२ ॥
मेघनादसुगम्भीरं सर्वावयवसुन्दरम् ।
शय्यामध्यगतं देवमपश्यं पुरुषोत्तमम् ॥ २०.२३ ॥
शङ्खचक्रगदापाणिं शयानं दक्षिणेन तु ।
अक्षसूत्रोद्यतकरं सूर्यायुतसमप्रभम् ॥ २०.२४ ॥
तं दृष्ट्वा भक्तिमान्देवं स्तोतुकामो व्यवस्थितः ।
जयेश जय वागीश जय दिव्याङ्गभूषण ॥ २०.२५ ॥
जय देवपते श्रीमन्साक्षाद्ब्रह्म सनातन ।
तव लोकाः शरीरस्थास्त्वं गतिः परमेश्वर ॥ २०.२६ ॥
त्वदाधारा हि देवेश सर्वे लोका व्यवस्थिताः ।
त्वं श्रेष्ठः सर्वसत्त्वानां त्वं कर्ता धरणीधरः ॥ २०.२७ ॥
त्वं हौत्रमग्निहोत्राणां सूत्रमन्त्रस्त्वमेव च ।
गोकर्णं भद्रकर्णं च त्वं च माहेश्वरं पदम् ॥ २०.२८ ॥
त्वं कीर्तिः सर्वकीर्तीनां दैन्यपापप्रणाशिनी ।
त्वं नैमिषं कुरुक्षेत्रं त्वं च विष्णुपदं परम् ॥ २०.२९ ॥
त्वया तु लीलया देव पदाक्रान्ता च मेदिनी ।
त्वया बद्धो बलिर्देव त्वयेन्द्रस्य पदं कृतम् ॥ २०.३० ॥
त्वं कलिर्द्वापरं देव त्रेता कृतयुगं तथा ।
प्रलम्बदमनश्च त्वं स्रष्टा त्वं च विनाशकृत् ॥ २०.३१ ॥
त्वया वै धार्यते लोकास्त्वं कालः सर्वसंक्षयः ।
त्वया हि देव सृष्टास्ताः सर्वा वै देवयोनयः ॥ २०.३२ ॥
त्वं पन्थाः सर्वलोकानां त्वं च मोक्षः परा गतिः ।
ब्रह्मा त्वदुद्भवो देवो रजोरूपः सनातनः ।
रुद्रः क्रोधोद्भवोऽप्येवं त्वं च सत्त्वे व्यवस्थितः ॥ २०.३३ ॥
एतच्चराचरं देव क्रीडनार्थं त्वया कृतम् ।
एवं संतप्तदेहेन स्तुतो देवो मया प्रभुः ॥ २०.३४ ॥
भक्त्या परमया राजन्सर्वभूतपतिः प्रभुः ।
स्तुवन्वै तत्र पश्यामि वारिपूर्णांस्ततो घटान् ॥ २०.३५ ॥
ततो मया विस्मृता या तृषा सा वर्धिता पुनः ।
उपासर्पं ततस्तस्य पार्श्वं वै पुरुषस्य हि ॥ २०.३६ ॥
पानीयं पातुकामेन चिन्तितं च मया पुनः ।
नापश्यत हि मां चैष सुप्तोऽपि न च बुध्यते ॥ २०.३७ ॥
यस्तु पापेन संमूढः सुखं सुप्तं प्रबोधयेत् ।
जायते तस्य पापस्य ब्रह्महत्याफलं महत् ॥ २०.३८ ॥
एवं संचिन्त्यमाने तु द्वितीयो ह्यागतः पुमान् ।
नेक्षते जल्पते किंचिद्वामस्कन्धे मृगाजिनी ॥ २०.३९ ॥
जटी कमण्डलुधरो दण्डी मेखलया वृतः ।
भस्मोन्मृदितसर्वाङ्गो महातेजास्त्रिलोचनः ॥ २०.४० ॥
यावत्तं स्तोतुकामोऽहमपश्यं स्वच्छचक्षुषा ।
तावत्सर्वाङ्गसम्भूत्यामहत्या रूपसम्पदा ॥ २०.४१ ॥
अपश्यं संवृतां नारीं सर्वाभरणभूषिताम् ।
दृष्ट्वा तां पतितो भूमौ जयस्वेति ब्रुवंस्ततः ॥ २०.४२ ॥
जय रुद्राङ्गसम्भूते जयवाहिनि सनातनि ।
जय कौमारि माहेन्द्रि वैष्णवी वारुणी तथा ॥ २०.४३ ॥
जय कौबेरि सावित्रि जय धात्रि वरानने ।
तृष्णया तप्तदे हस्य रक्षां कुरु चराचरे ॥ २०.४४ ॥

श्रीदेव्युवाच -
प्रसन्ना विप्रशार्दूल तव वाक्यैः सुशोभनैः ।
वर्तते मानसे यत्ते मया ज्ञातं द्विजोत्तम ॥ २०.४५ ॥
शृणु विप्र ममाप्यस्ति व्रतमेतत्सुदारुणम् ।
स्त्रीलघुत्वान्मयारब्धं दुष्करं मन्दमेधया ॥ २०.४६ ॥
यदि भावी च मे पुत्रो धर्मिष्ठो लोकविश्रुतः ।
विप्रस्य तु स्तनं दत्त्वा पश्चाद्दास्यामि बालके ॥ २०.४७ ॥
स मे पुत्रः समुत्पन्नो यथोक्तो मे महामुने ।
स्तनं पिब त्वं विप्रेन्द्र यदि जीवितुमिच्छसि ॥ २०.४८ ॥

श्रीमार्कण्डेय उवाच -
अकार्यमेतद्विप्राणां यस्त्विमं पिबते स्तनम् ।
पुनश्चैवोपनयनं व्रतसिद्धिं न गच्छति ॥ २०.४९ ॥
ब्राह्मणत्वं त्रिभिर्लोकैर्दुर्लभं पद्मलोचने ।
संस्कारैः संस्कृतो विप्रो यैश्च जायेत तच्छृणु ॥ २०.५० ॥
प्रथमं चैव नारीषु संस्कारैर्बीजवापतम् ।
बीजप्रक्षेपणादेव बीजक्षेपः स उच्यते ॥ २०.५१ ॥
तदन्ते च महाभागे गर्भाधानं द्वितीयकम् ।
पुंसवनं तृतीयं तु सीमन्तं च चतुर्थकम् ॥ २०.५२ ॥
पञ्चमं जातकर्म स्यान्नाम वै षष्ठमुच्यते ।
निष्क्रामः सप्तमश्चैव ह्यन्नप्राशनमष्टमम् ॥ २०.५३ ॥
नवमं वै चूडकर्म दशमं मौञ्जिबन्धनम् ।
ऐषिकं दार्विकं चैव सौमिकं भौमिकं तथा ॥ २०.५४ ॥
पत्नीसंयोजनं चान्यद्दैवकर्म ततः परम् ।
मानुष्यं पितृकर्म स्याद्दशमाष्टासु शोभने ॥ २०.५५ ॥
भूतं भव्यं तथेष्टं च पार्वणं च ततः परम् ॥ २०.५६ ॥
श्राद्धं श्रावण्यामाग्रयणं च चैत्राश्वयुज्यां दशपौर्णमास्याम् ।
निरूढपशुसवनसौत्रामण्यग्निष्टोमात्यग्निष्टोमाः ॥ २०.५७ ॥
षोडषीवाजपेयातिरात्राप्तोर्यामोदशवाजपेयाः ।
सर्वभूतेषु क्षान्तिरनसूया शौचमङ्गलमकार्पण्यमस्पृहेति ॥ २०.५८ ॥
एभिरष्टचत्वारिंशद्भिः संस्कारैः संकृतो ब्राह्मणो भवति ॥ २०.५९ ॥
एवं ज्ञात्वा महाभागे न तु मां पातुमर्हसि ।
शिशुपेयं स्तनं भद्रे कथं वै मद्विधः पिबेत् ॥ २०.६० ॥
ममैतद्वचनं श्रुत्वा नारी वचनमब्रवीत् ॥ २०.६१ ॥
यदि त्वं न पिबेः स्तन्यं पयो बालो मरिष्यति ।
श्रूयते त्रिषु लोकेषु वेदेषु च स्मृतिष्वपि ।
मुच्यते सर्वपापेभ्यो भ्रूणहत्या न मुञ्चति ॥ २०.६२ ॥
भवित्री तव हत्या च महाभागवतः पुनः ।
जन्मानि च शतान्यष्टौ क्लिश्यते भ्रूणहत्यया ॥ २०.६३ ॥
मृतः शुनत्वं चाप्नोति वर्षाणां तु शतत्रयम् ।
ततस्तस्य क्षये जाते काकयोनिं व्रजेत्पुनः ॥ २०.६४ ॥
तत्रापि च शतान्यष्टौ क्लिश्यते पापकर्मणि ।
वराहो दश जन्मानि तदन्ते जायते कृमिः ॥ २०.६५ ॥
ततश्चारोहिणीं प्राप्य गोगजाश्वनृजन्मभाक् ।
श्रूयते श्रुतिशास्त्रेषु वेदेषु च परंतप ॥ २०.६६ ॥
सर्वपापाधिकं पापं बालहत्या द्विजोत्तम ।
बालहत्यायुतो विप्रः पच्यते नरके ध्रुवम् ॥ २०.६७ ॥
वर्षाणि च शतान्यष्टौ प्राप्नोति यमयातनाम् ।
तस्मादल्पतरो दोषः पिबतो मे स्तनं तव ॥ २०.६८ ॥
तथैवापिबतः पापं जायते बहुवर्षिकम् ।
क्षुधातृषाविरामस्ते पुण्यं च पिबतः स्तनम् ॥ २०.६९ ॥
अतो न चेतः संदिग्धं कर्तव्यमिह कर्हिचित् ।
एहि विप्र यथाकामं बालार्थे पिब मे स्तनम् ॥ २०.७० ॥
ततोऽहं वचनं श्रुत्वा स्तनं पातुं समुद्यतः ।
न च तृप्तिं विजानामि पिबतः स्तनमुत्तमम् ॥ २०.७१ ॥
त्रिंशद्वर्षसहस्राणि भारतैवं शतानि च ।
ततः प्रबुद्धोत्सङ्गेऽहं मायानिद्राविमोहितः ॥ २०.७२ ॥
निद्राविगतमोहोऽहं यावत्पश्यामि पाण्डव ।
तावत्सुप्तं न पश्यामि न च तं बालकं विभो ॥ २०.७३ ॥
चतुरस्तांश्च वै कुम्भान् पश्यामि तत्र भारत ।
न च पश्यामि तां देवीं गता वै कुत्रचिच्च ते ॥ २०.७४ ॥
एवं विमृश्यमानस्य चिन्तयानस्य तिष्ठतः ।
ईषद्धसितया वाचा देवी वचनमब्रवीत् ॥ २०.७५ ॥

श्रीदेव्युवाच -
कृष्णः स पुरुषः सुप्तो द्वितीयोऽप्यागतो हरः ।
ये चत्वारश्च ते कुम्भाः समुद्रास्ते द्विजोत्तम ॥ २०.७६ ॥
यश्च बालस्त्वया दृष्टो ब्राह्मा लोकपितामहः ।
अहं च पृथिवी ज्ञेया सप्तद्वीपा सर्वता ॥ २०.७७ ॥
या गता त्वां परित्यज्य भूतले सुप्रतिष्ठिता ।
इमां च प्रेक्षसे विप्र नर्मदां सरितां वराम् ॥ २०.७८ ॥
सर्वसत्त्वोपकाराय बृहते पुण्यलक्षणा ।
रेवानदी तु विख्याता न मृता तेन नर्मदा ॥ २०.७९ ॥
एवं ज्ञात्वा शमं गच्छ स्वस्थो भव महामुने ।
इत्युक्त्वा मां तदा देवी तत्रैवान्तरधीयत ॥ २०.८० ॥
एवं हि शेते भगवान्सत्त्वस्थः प्रलये सदा ।
सत्त्वरूपो महादेवो यदाधारे जगत्स्थितम् ॥ २०.८१ ॥
एवं मयानुभूतं तु दृष्टमाश्चर्यमुत्तमम् ।
सर्वपापहरं पुण्यं कथितं ते नरोत्तम ॥ २०.८२ ॥
विष्णोश्चरितमित्युक्तं यत्त्वया परिपृच्छितम् ।
भूय एव महाबाहो किमन्यच्छ्रोतुमिच्छसि ॥ २०.८३ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे वाराहकल्पवृत्तान्तवर्णनं नाम विंशोऽध्यायः ॥