स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०१३
अध्याय १३
श्रीमार्कण्डेय उवाच -
एवं भगवती पुण्या स्तुता सा मुनिपुंगवैः ।
चिन्तयामास सर्वेषां दास्यामि वरमुत्तमम् ॥ १३.१ ॥
ततः प्रसुप्तांस्ताञ्ज्ञात्वा रात्रौ देवी जगाम ह ।
एकैकस्य ऋषेः स्वप्ने दर्शनं चारुहासिनी ॥ १३.२ ॥
ततोऽर्धरात्रे सम्प्राप्त उत्थिता जलमध्यतः ।
विमलाम्बरसंवीता दिव्यमालाविभूषिता ॥ १३.३ ॥
घृतातपत्रा सुश्रोणी पद्मरागविभूषिता ।
जगाद मा भैरिति तानेकैकं तु पृथक्पृथक् ॥ १३.४ ॥
वसध्वं मम पार्श्वे तु भयं त्यक्त्वा क्षुधादिजम् ॥ १३.५ ॥
एवमुक्त्वा तदा देवी स्वप्नान्ते तान्महामुनीन् ।
जगामादर्शनं पश्चात्प्रविश्य जलमात्मिकम् ॥ १३.६ ॥
ततः प्रभाते मुनयो मिथ ऊचुर्मुदन्विताः ।
तथा दृष्टा मया दृष्टा स्वप्ने देवी सुदर्शना ॥ १३.७ ॥
अभयं दत्तमस्माकं सिद्धिश्चाप्यचिरेण तु ।
प्रशस्तं दर्शनं तस्या नर्मदाया न संशयः ॥ १३.८ ॥
अथान्यदिवसे राजन्मत्स्यानां रूपमुत्तमम् ।
पश्यन्ति सपरीवाराः स्वकीयाश्रमसन्निधौ ॥ १३.९ ॥
तान्दृष्ट्वा विस्मयाविष्टा मत्स्यांस्तत्र महर्षयः ।
पूजयामासुरव्यग्रा हव्यकव्येन देवताः ॥ १३.१० ॥
तान्मत्स्यसङ्घान्सम्प्राप्य महादेव्याः प्रसादतः ।
सपुत्रदारभृत्यास्ते वर्तयन्ति पृथक्पृथक् ॥ १३.११ ॥
दिने दिने तथाप्येवमाश्रमेषु द्विजातयः ।
मत्स्यानां सञ्चयं दृष्ट्वा विस्मिताश्चाभवंस्तदा ॥ १३.१२ ॥
मृतांस्तांस्तु सुपुष्टाङ्गान् पाठीनांश्च विशेषतः ।
द्वारे द्वारे चाश्रमाणां तापसानां युधिष्ठिर ॥ १३.१३ ॥
हृष्टपुष्टास्तदा सर्वे नर्मदातीरवासिनः ।
ऋषयस्ते भयं सर्वे तत्यजुः क्षुत्तृषोद्भवम् ॥ १३.१४ ॥
ते जपन्तस्तपन्तश्च तिष्ठन्ति भरतर्षभ ।
अर्चयन्ति पित्ःन्देवान्नर्मदातटमाश्रिताः ॥ १३.१५ ॥
तैर्जपद्भिस्तपद्भिश्च सततं द्विजसत्तमैः ।
भ्राजते सा सरिच्छ्रेष्ठा ताराभिर्द्यौर्ग्रहैरिव ॥ १३.१६ ॥
तत्र तैर्बहुलैः शुभ्रैर्ब्राह्मणैर्वेदपरागैः ।
नर्मदा धर्मदा पूर्वं संविभक्ता यथाक्रमम् ॥ १३.१७ ॥
ऋषिभिर्दशकोटिभिर्नर्मदातीरवासिभिः ।
विभक्तेयं विभक्ताङ्गी नर्मदा शर्मदा नृणाम् ॥ १३.१८ ॥
यज्ञोपवीतैश्च शुभैरक्षसूत्रैश्च भारत ।
कूलद्वये महापुण्या नर्मदोदधिगामिनी ॥ १३.१९ ॥
पृथगायतनैः शुभ्रैर्लिङ्गैर्वालुकमृन्मयैः ।
भ्राजते या सरिच्छ्रेष्ठा नक्षत्रैरिव शर्वरी ॥ १३.२० ॥
एवं त ऋषयः सर्वे तर्पयन्तः सुरान्पित्ःन् ।
न्यवसन्नर्मदातीरे यावदाभूतसम्प्लवम् ॥ १३.२१ ॥
किंचिद्गते ततस्तस्मिन्घोरे वर्षशताधिके ।
अर्धरात्रे तदा कन्या जलादुत्तीर्य भारत ॥ १३.२२ ॥
विद्युत्पुंजसमाभासा व्यालयज्ञोपवीतिनी ।
त्रिशूलाग्रकरा सौम्या तानुवाच ऋषींस्तदा ॥ १३.२३ ॥
आगच्छध्वं मुनिगणा विशध्वं मामयोनिजाम् ।
समेताः पुत्रदारैश्च ततः सिद्धिमवाप्स्यथ ॥ १३.२४ ॥
यस्य यस्य हि या वाञ्छा तस्य तां तां ददाम्यहम् ।
विष्णुं ब्रह्माणमीशानमन्यं वा सुरमुत्तमम् ॥ १३.२५ ॥
तत्र सर्वान्नयिष्यामि प्रसन्ना वरदा ह्यहम् ।
प्राणायामपरा भूत्वा मां विशध्वं समाहिताः ॥ १३.२६ ॥
सह पुत्रैश्च दारैश्च त्यक्त्वाश्रमपदानि च ।
कालक्षेपो न कर्तव्यः प्रलयोऽयमुपस्थितः ॥ १३.२७ ॥
संहारः सर्वभूतानां कल्पदाहः सुदारुणः ।
एकाहमभवं पूर्वं महाघोरे जनक्षये ॥ १३.२८ ॥
शेषा नद्यः समुद्राश्च सर्व एव क्षयंगताः ।
वरदानान्महेशस्य तेनाहं न क्षयं गता ॥ १३.२९ ॥
अमृतः शाश्वतो देवः स्थाणुरीशः सनातनः ।
स पूजितः प्रार्थितो वा किं न दद्याद्द्विजोत्तमाः ॥ १३.३० ॥
एवमुक्त्वा ऋषीव्रेवा प्रविवेश जलं ततः ।
करात्तशूला सा देवी व्यालयज्ञोपवीतिनी ॥ १३.३१ ॥
ततस्ते तद्वचः श्रुत्वा विस्मयापन्नमानसाः ।
अभिवन्द्य च मां सर्वे क्षामयन्तः पुनः पुनः ॥ १३.३२ ॥
क्षम्यतां नो यदुक्तं हि वसतां तव संश्रये ।
गृहांस्त्यक्त्वा महाभागाः सशिष्याः सहबान्धवाः ॥ १३.३३ ॥
जप्त्वा चैकाक्षरं ब्रह्म हृदि ध्यात्वा महेश्वरम् ।
स्नात्वा च मन्त्रपूताभिरथ चाद्भिर्जितव्रताः ॥ १३.३४ ॥
विविशुर्नर्मदातोयं सपक्षा इव पर्वताः ।
द्योतयन्तो दिशः सर्वाः कुशहस्ताः सहाग्रयः ॥ १३.३५ ॥
गतेषु तेषु राजेन्द्र अहमेकः स्थितस्तदा ।
अमरेशं समासाद्य पूजयन्नर्मदां नदीम् ॥ १३.३६ ॥
अनुभूताः सप्तकल्पा मायूराद्या मया नृप ।
प्रसादाद्वेधसः सर्वे रेवया सह भारत ॥ १३.३७ ॥
जन्मतोऽद्य दिनं यावन्न जानेऽस्याः पुरास्थितिम् ॥ १३.३८ ॥
इयं हि शांकरी शक्तिः कला शम्भोरिलाह्वया ।
नर्मदा दुरितध्वंसकारिणी भवतारिणी ॥ १३.३९ ॥
यदाहमपि नाभूवं पुराकल्पेषु पाण्डव ।
चतुर्दशसु कल्पेषु तेष्वियं सुखसंस्थिता ॥ १३.४० ॥
चतुर्दश पुरा कल्पा न मृता येषु नर्मदा ।
तानहं सम्प्रवक्ष्यामि देवी प्राह यथा मम ॥ १३.४१ ॥
कापिलं प्रथमं विद्धि प्राजापत्यं द्वितीयकम् ।
ब्राह्मं सौम्यं च सावित्रं बार्हस्पत्यं प्रभासकम् ॥ १३.४२ ॥
माहेन्द्रमग्निकल्पं च जयन्तं मारुतं तथा ।
वैष्णवं बहुरूपं च ज्यौतिषं च चतुर्दशम् ॥ १३.४३ ॥
एते कल्पा मया ख्याता न मृता येषु नर्मदा ।
मायूरं पञ्चदशमं कौर्मं चैवात्र षोडशम् ॥ १३.४४ ॥
बकं मात्स्यं च पाद्मं च वटकल्पं च भारत ।
एकविंशतिमं चैतं वाराहं सांप्रतीनकम् ॥ १३.४५ ॥
इमे सप्त मया साकं रेवया परिशीलिताः ।
एकविंशतिकल्पास्तु नर्मदायाः शिवाङ्गतः ॥ १३.४६ ॥
संजाताया नृपश्रेष्ठ मया दृष्टा ह्यनेकशः ।
कथिता नृपतिश्रेष्ठ भूयः किं कथयामि ते ॥ १३.४७ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्य एकविंशतिकल्पकथानकवर्णनं नाम त्रयोदशोऽध्यायः ॥