सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०१०

विकिस्रोतः तः


अध्याय १०

युधिष्ठिर उवाच -
कस्मिन्कल्पे महाभागा नर्मदेयं द्विजोत्तम ।
विभक्ता ऋषिभिः सर्वैस्तपोयुक्तैर्महात्मभिः ॥ १०.१ ॥
एतद्विस्तरतः सर्वं ब्रूहि मे वदतां वर ।
कल्पान्ते यद्भवेत्कष्टं लोकानां तत्त्वमेव च ॥ १०.२ ॥
अतीते तु पुरा कल्पे यथेयं वर्ततेऽनघ ।
अस्यान्त्यस्य च कल्पस्य व्यवस्थां कथय प्रभो ।
एवमुक्तः सभामध्ये मार्कण्डो वाक्यमब्रवीत् ॥ १०.३ ॥

मार्कण्डेय उवाच -
वक्ष्येऽहं श्रूयतां सर्वैः कथेयं पूर्वतः श्रुता ॥ १०.४ ॥
महत्कथेयं वैशिष्टी कल्पादस्मात्परं तु या ।
लोकक्षयकरो घोर आसीत्कालः सुदारुणः ॥ १०.५ ॥
तस्मिन्नपि महाघोरे यथेयं वा मृता सती ।
परितुष्टैर्विभक्ता च शृणुध्वं तां कथामिमाम् ॥ १०.६ ॥
युगान्ते समनुप्राप्ते पितामहदिनत्रये ।
मानसा ब्रह्मणः पुत्राः साक्षाद्ब्रह्मेव सत्तमाः ॥ १०.७ ॥
सनकाद्या महात्मानो ये च वैमानिका गणाः ।
यमेन्द्रवरुणाद्याश्च लोकपाला दिनत्रये ॥ १०.८ ॥
कालापेक्षास्तु तिष्ठन्ति लोकवृत्तान्ततत्पराः ।
ततः कल्पक्षये प्राप्ते तेषां ज्ञानमनुत्तमम् ॥ १०.९ ॥
सर्वेषां नश्यते चायुर्युगरूपानुसारतः ।
भूर्लोकं ते परित्यज्य अगमंश्च भुवं तदा ॥ १०.१० ॥
स्वर्लोकं च महश्चैव जनश्चैव तपस्तदा ।
आश्रयं सत्यलोकं च सर्वलोकमनुत्तमम् ॥ १०.११ ॥
कालं युगसहस्रान्तं पुत्रपौत्रसमन्विताः ।
सत्यलोके च तिष्ठन्ति यावत्संजायते जगत् ॥ १०.१२ ॥
ब्रह्मपुत्राश्च ये केचित्कल्पादौ न भवन्ति ह ।
त्रैलोक्यं ते परित्यज्य अनाधारं भवन्ति च ॥ १०.१३ ॥
तैः सार्धं ये तु ते विप्रा अन्ये चापि तपोधनाः ।
यक्षरक्षःपिशाचाश्च अन्ये वैमानिका गणाः ॥ १०.१४ ॥
ऋषयश्च महाभागा वर्णाश्चान्ये पृथग्विधाः ।
सीदन्ति भूम्यां सहिता ये चान्ये तलवासिनः ॥ १०.१५ ॥
अनावृष्टिरभूत्तत्र महती शतवार्षिकी ।
लोकक्षयकरी रौद्रा वृक्षवीरुद्विनाशिनी ॥ १०.१६ ॥
त्रैलोक्यसंक्षोभकरी सप्तार्णवविशोषणी ।
ततो लोकाः क्षुधाविष्टा भ्रमन्तीव दिशो दश ॥ १०.१७ ॥
कंदैर्मूलैः फलैर्वापि वर्तयन्ते सुदुःखिताः ।
सरितः सागराः कूपाः सेवन्ते पावनानि च ॥ १०.१८ ॥
तत्रापि सर्वे शुष्यन्ति सरिद्भिः सह सागराः ।
ततो यान्यल्पसाराणि सत्त्वानि पृथिवीतले ॥ १०.१९ ॥
तान्येवाग्रे प्रलीयन्ते भिन्नान्युरुजलेन वै ।
अथ संक्षीयमाणासु सरित्सु सह सागरैः ॥ १०.२० ॥
ऋषीणां षष्टिसाहस्रं कुरुक्षेत्रनिवासिनाम् ।
ये च वैखानसा विप्रा दन्तोलूखलिनस्तथा ॥ १०.२१ ॥
हिमाचलगुहागुह्ये ये वसन्ति तपोधनाः ।
सर्वे ते मामुपागम्य क्षुत्तृषार्तास्तपोधनाः ॥ १०.२२ ॥
ऊचुः प्राञ्जलयः सर्वे सीदयामो महामुने ।
सरित्सागरशैलान्तं जगत्संशुष्यते द्विज ॥ १०.२३ ॥
कुत्र यास्याम सहिता यावत्कालस्य पर्ययः ।
दीर्घायुरसि विप्रेन्द्र न मृतस्त्वं युगक्षये ॥ १०.२४ ॥
भूतं भव्यं भविष्यच्च सर्वं तव हृदि स्थितम् ।
तस्मात्त्वं वेत्सि सर्वं च कथयस्व महाव्रत ॥ १०.२५ ॥
कीदृक्कालं महाभाग क्षपिष्यामोऽथ सुव्रत ।
अनावृष्टिहतं सर्वं सीदते सचराचरम् ॥ १०.२६ ॥
परित्राहि महाभाग न यथा याम संक्षयम् ।
ततः संचिन्त्य मनसा त्वरन्विप्रानथाब्रवम् ॥ १०.२७ ॥
कुरुक्षेत्रं त्यजध्वं च पुत्रदारसमन्विताः ।
त्यक्त्वोदीचीं दिशं सर्वे यामो याम्यामनुत्तमाम् ॥ १०.२८ ॥
नगरग्रामघोषाढ्यां पुरपत्तनशोभिताम् ।
गच्छामो नर्मदातीरं बहुसिद्धनिषेवितम् ॥ १०.२९ ॥
रुद्राङ्गीं तां महापुण्यां सर्वपापप्रणाशिनीम् ।
पश्यामस्तां महाभागां न्यग्रोधावारसंकुलाम् ॥ १०.३० ॥
माहेश्वरैर्भागवतैः सांख्यैः सिद्धैः सुसेविताम् ।
अनावृष्टिभयाद्भीताः कूलयोरुभयोरपि ॥ १०.३१ ॥
आश्रमे ह्याश्रमान्दिव्यान्कारयामो जितव्रताः ।
एवमुक्तास्तु ते सर्वे समेतानुचरैः सह ॥ १०.३२ ॥
नर्मदातीरमासाद्य स्थिताः सर्वेऽकुतोभयाः ।
किंचित्पूर्वमनुस्मृत्य पुरा कल्पादिभिर्भयम् ॥ १०.३३ ॥
प्राप्तास्तु नर्मदातीरमादावेव कलौ युगे ।
ततो वर्षशतं पूर्णं दिव्यं रेवातटेऽवसन् ॥ १०.३४ ॥
षड्विंशच्च सहस्राणि वर्षाणां मानुषाणि च ।
तत्राश्चर्यं मया दृष्टमृषीणां वसतां नृप ॥ १०.३५ ॥
अनावृष्टिहते लोके संशुष्के स्थावरे चरे ।
भिन्ने युगादिकलने हाहाभूते विचेतने ॥ १०.३६ ॥
चातुर्वर्णे प्रलीने तु नष्टे होमबलिक्रमे ।
निःस्वाहे निर्वषट्कारे शौचाचारविवर्जिते ॥ १०.३७ ॥
इयमेका सरिच्छ्रेष्ठा ऋषिकोटिनिषेविता ।
नान्या काचित्त्रिलोकेऽपि रमणीया नरेश्वर ॥ १०.३८ ॥
यथेयं पुण्यसलिला इन्द्रस्येवामरावती ।
देवतायतनैः शुभ्रैराश्रमैश्च सुकल्पितैः ॥ १०.३९ ॥
शोभते नर्मदा देवी स्वर्गे मन्दाकिनी यथा ।
यावद्वृक्षा महाशैला यावत्सागरसंभवा ॥ १०.४० ॥
उभयोः कूलयोस्तावन्मण्डितायतनैः शुभैः ।
हूयद्भिरग्निहोत्रैश्च हविर्धूमसमाकुला ॥ १०.४१ ॥
बभूव नर्मदा देवी प्रावृट्काल इव शर्वरी ।
देवतायतनैर्नैकैः पूजासंस्कारशोभिता ॥ १०.४२ ॥
सरिद्भिर्भ्राजते श्रेष्ठा पुरी शाक्री च भास्करी ।
केचित्पञ्चाग्नितपसः केचिदप्यग्निहोत्रिणः ॥ १०.४३ ॥
केचिद्धूमकमश्नन्ति तपस्युग्रे व्यवस्थिताः ।
आत्मयज्ञरताः केचिदपरे भक्तिभागिनः ॥ १०.४४ ॥
वैष्णवज्ञानमासाद्य केचिच्छैवं व्रतं तथा ।
एकरात्रं द्विरात्रं च केचित्षष्ठाहभोजनाः ॥ १०.४५ ॥
चान्द्रायणविधानैश्च कृच्छ्रिणश्चातिकृच्छ्रिणः ।
एवंविधैस्तपोभिश्च नर्मदातीरशोभितैः ॥ १०.४६ ॥
यजद्भिः शंकरं देवं केशवं भाति नित्यदा ।
एकत्वे च पृथक्त्वे च यजतां च महेश्वरम् ॥ १०.४७ ॥
कलौ युगे महाघोरे प्राप्ताः सिद्धिमनुत्तमाम् ।
यस्य यस्य हि या भक्तिर्विज्ञानं यस्य यादृशम् ॥ १०.४८ ॥
यस्मिन्यस्मिंश्च देवे तु तांतामीशोऽददात्प्रभुः ।
स्वभावैकतया भक्त्या तामेत्यान्तः प्रलीयते ॥ १०.४९ ॥
संसारे परिवर्तन्ते ये पृथग्भाजिनो नराः ।
ये महावृक्षमीशानं त्यक्त्वा शाखावलम्बिनः ॥ १०.५० ॥
पुनरावर्तमानास्ते जायन्ते हि चतुर्युगे ।
देवान्ते स्थावरान्ते च संसारे चाभ्रमन्क्रमात् ॥ १०.५१ ॥
पुनर्जन्म पुनः स्वर्गे पुनर्घोरे च रौरवे ।
ये पुनर्देवमीशानं भवं भक्तिसुसंस्थिताः ॥ १०.५२ ॥
यजन्ति नर्मदातीरे न पुनस्ते भवन्ति च ।
आ देहपतनात्केचिदुपासन्तः परं गताः ॥ १०.५३ ॥
केचिद्द्वादशभिर्वर्षैः षड्भरन्ये तपोधनाः ।
त्रिभिः संवत्सरैः केचित्केचित्संवत्सरेण तु ॥ १०.५४ ॥
षड्भिर्मासैस्तु संसिद्धास्त्रिभिर्मासैस्तथापरे ।
मुनयो देवमाश्रित्य नर्मदां च यशस्विनीम् ॥ १०.५५ ॥
छित्त्वा संसारदोषांश्च अगमन्ब्रह्म शाश्वतम् ।
एवं कलियुगे घोरे शतशोऽथ सहस्रशः ॥ १०.५६ ॥
नर्मदातीरमाश्रित्य मुनयो रुद्रमाविशन् ॥ १०.५७ ॥
ये नर्मदातीरमुपेत्य विप्राः शैवे व्रते यत्नमुपप्रपन्नाः ।
त्रिकालमम्भः प्रविगाह्य भक्त्या देवं समभ्यर्च्य शिवं व्रजन्ति ॥ १०.५८ ॥
ध्यानार्चनैर्जाप्यमहाव्रतैश्च नारायणं वा सततं स्मरन्ति ।
ते धौतपाण्डुरपटा इव राजहंसाः संसारसागरजलस्य तरन्ति पारम् ॥ १०.५९ ॥
सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजमुच्यते ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ १०.६० ॥
यो वा हरं पूजयते जितात्मा मासं च पक्षं च वसेन्नरेन्द्र ।
रेवां समाश्रित्य महानुभावः स देवदेवोऽथ भवेत्पिनाकी ॥ १०.६१ ॥
कीटाः पतंगाश्च पिपीलिकाश्च ये वै म्रियन्तेऽम्भसि नर्मदायाः ।
ते दिव्यरूपास्तु कुलप्रसूताः शतं समा धर्मपरा भवन्ति ॥ १०.६२ ॥
कालेन वृक्षाः प्रपतन्ति येऽपि महातरंगौघनिकृत्तमूलाः ।
ते नर्मदांभोभिरपास्तपापा देदीप्यमानास्त्रिदिवं प्रयान्ति ॥ १०.६३ ॥
अकामकामाश्च तथा सकामा रेवान्तमाश्रित्य म्रियन्ति तीरे ।
जडान्धमूकास्त्रिदिवं प्रयान्ति किमत्र विप्रा भवभावयुक्ताः ॥ १०.६४ ॥
मासोपवासैरपि शोषिताङ्गा न तां गतिं यान्ति विमुक्तदेहाः ।
म्रियन्ति रेवाजलपूतकायाः शिवार्चने केशवभावयुक्ताः ॥ १०.६५ ॥
नीवारश्यामाकयवेङ्गुदाद्यैरन्यैर्मुनीन्द्रा इह वर्तयन्ति ।
आप्रित्य कूलं त्रिदशानुगीतं ते नर्मदाया न विशन्ति मृत्युम् ॥ १०.६६ ॥
भ्रमन्ति ये तीरमुपेत्य देव्यास्त्रिकालदेवार्चनसत्यपूताः ।
विण्मूत्रचर्मास्थितिरोपधानाः कुक्षौ युवत्या न वसन्ति भूयः ॥ १०.६७ ॥
किं यज्ञदानैर्बहुभिश्च तेषां निषेवितैस्तीर्थवरैः समस्तैः ।
रेवातटं दक्षिणमुत्तरं वा सेवन्ति ते रुद्रचरानुपूर्वम् ॥ १०.६८ ॥
ते वञ्चिताः पङ्गुजडान्धभूता लोकेषु मर्त्याः पशुभिश्च तुल्याः ।
ये नाश्रिता रुद्रशरीरभूतां सोपानपङ्क्तिं त्रिदिवस्य रेवाम् ॥ १०.६९ ॥
युगं कलिं घोरमिमं य इच्छेद्द्रष्टुं कदाचिन्न पुनर्द्विजेन्द्रः ।
स नर्मदातीरमुपेत्य सर्वं सम्पूजयेत्सर्वविमुक्तसंगः ॥ १०.७० ॥
विघ्नैरनेकैरतियोज्यमाना ये तीरमुझन्ति न नर्मदायाः ।
ते चैव सर्वस्य हितार्थभूता वन्द्याश्च ते सर्वजनस्य मान्याः ॥ १०.७१ ॥
भृग्वत्रिगार्गेयवशिष्ठकङ्काः शतैः समेतैर्नियतास्त्वसंख्यैः ।
सिद्धिं परां ते हि जलप्लुताङ्गाः प्राप्तास्तु लोकान्मरुतां न चान्ये ॥ १०.७२ ॥
ज्ञानं महत्पुण्यतमं पवित्रं पठन्त्यदो नित्यविशुद्धसत्त्वाः ।
गतिं परां यान्ति महानुभावा रुद्रस्य वाक्यं हि यथा प्रमाणम् ॥ १०.७३ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये नर्मदास्नानफलश्रुतिकथनं नाम दशमोऽध्यायः ॥