स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ००७
← अध्यायः ६ | स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम् अध्यायः ७ वेदव्यासः |
अध्यायः ८ → |
अध्याय ७
श्रीमार्कण्डेय उवाच -
पुनरेकार्णवे घोरे नष्टे स्थावरजंगमे ।
सलिलेनाप्लुते लोके निरालोके तमोद्भवे ॥ ७.१ ॥
ब्रह्मैको विचरंस्तत्र तमीभूते महार्णवे ।
दिव्यवर्षसहस्रं तु खद्योत इव रूपवान् ॥ ७.२ ॥
शेते योजनसाहस्रमप्रमेयमनुत्तमम् ।
द्वादशादित्यसंकाशं सहस्रचरणेक्षणम् ॥ ७.३ ॥
प्रसुप्तं चार्णवे घोरे ह्यपश्यत्कूर्मरूपिणम् ।
तं दृष्ट्वा विस्मयापन्नो ब्रह्मा बोधयते शनैः ॥ ७.४ ॥
स्तुतिभिर्मंगलैश्चैव वेदवेदांगसंभवैः ।
वाचस्पते विबुध्यस्व महाभूत नमोऽस्तु ते ॥ ७.५ ॥
तवोदरे जगत्सर्वं तिष्ठते परमेश्वर ।
तद्विमुञ्च महासत्त्व यत्पूर्वं संहृतं त्वया ॥ ७.६ ॥
व्यतीता रजनी ब्राह्मी दिनं समनुवर्तते ।
निरीक्ष्य सर्वलोकेश येन संभवते जगत् ॥ ७.७ ॥
स निशम्य वचस्तस्य उत्थितः परमेश्वरः ।
समुद्गिरन् स लोकांस्त्रीन् ग्रस्तान् कल्पक्षये तदा ॥ ७.८ ॥
देवदानवगन्धर्वाः सयक्षोरगराक्षसाः ।
सचन्द्रार्कग्रहाः सर्वे शरीरात्तस्य निर्गताः ॥ ७.९ ॥
ततो ह्येकार्णवं सर्वं विभज्य परमेश्वरः ।
विस्तीर्णोपलतोयौघां सरित्सरविवर्धिताम् ॥ ७.१० ॥
पश्यते मेदिनीं देवः सवृक्षौषधिपल्वलाम् ।
हिमवन्तं गिरिश्रेष्ठं श्वेतं पर्वतमुत्तमम् ॥ ७.११ ॥
शृङ्गवन्तं महाशैलं ये चान्ये कुलपर्वताः ।
जंबुद्वीपं कुशं क्रौञ्चं सगोमेदं सशाल्मलम् ॥ ७.१२ ॥
पुष्करान्ताश्च ये द्वीपा ये च सप्तमहार्णवाः ।
लोकालोकं महाशैलं सर्वं च पुरतः स्थितम् ॥ ७.१३ ॥
चतुःप्रकृतिसंयुक्तं जगत्स्थावरजंगमम् ।
युगान्ते तु विनिष्क्रान्तमपश्यत्स महेश्वरः ॥ ७.१४ ॥
विप्रकीर्णशिलाजालामपश्यत्स वसुंधराम् ।
कूर्मपृष्ठोपगां देवीं महार्णवगतां प्रभुः ॥ ७.१५ ॥
तस्मिन् विशीर्णशैलाग्रे सरित्सरोविवर्जिते ।
नानातरंगभिन्नोद आवर्तोद्वर्तसंकुले ॥ ७.१६ ॥
नानौषधिप्रज्वलिते नानोत्पलशिलातले ।
नानाविहंगसंघुष्टां मत्स्यकूर्मसमाकुलाम् ॥ ७.१७ ॥
दिव्यमायामयीं देवीमुत्कृष्टाम्बुदसन्निभाम् ।
नदीमपश्यद्देवेशो ह्यनौपम्यजलाशयाम् ॥ ७.१८ ॥
मध्ये तस्याम्बुदश्यामां पीनोरुजघनस्तनीम् ।
वस्त्रैरनुपमैर्दिव्यैर्नानाभरणभूषिताम् ॥ ७.१९ ॥
सनूपुररवोद्दामां हारकेयूरमण्डिताम् ।
तादृशीं नर्मदां देवीं स्वयं स्त्रीरूपधारिणीम् ॥ ७.२० ॥
योगमायामयैश्चित्रैर्भूषणैः स्वैर्विभूषिताम् ।
अव्यक्ताङ्गीं महाभागामपश्यत्स तु नर्मदाम् ॥ ७.२१ ॥
अर्धोद्यतभुजां बालां पद्मपत्रायतेक्षणाम् ।
स्तुवन्तीं देवदेवेशमुत्थितां तु जलात्तदा ॥ ७.२२ ॥
विस्मयाविष्टहृदयो ह्यहमुद्वीक्ष्य तां शुभाम् ।
स्नात्वा जले शुभे तस्याः स्तोतुमभ्युद्यतस्ततः ॥ ७.२३ ॥
अर्चयामास संहृष्टो मन्त्रैर्वेदांगसंभवैः ।
सृष्टं च तत्पुरा राजन्पश्येयं सचराचरम् ॥ ७.२४ ॥
सदेवासुरगन्धर्वं सपन्नगमहोरगम् ।
पश्याम्येषा महाभागा नैव याता क्षयं पुरा ॥ ७.२५ ॥
महादेवप्रसादाच्च तच्छरीरसमुद्भवा ।
भूयो भूयो मया दृष्टा कथिता ते नृपोत्तम ॥ ७.२६ ॥
प्रादुर्भावमिमं कौर्म्यं येऽधीयन्ते द्विजोत्तमाः ।
येऽपि शृण्वन्ति विद्वांसो मुच्यन्ते तेऽपि किल्बिषैः ॥ ७.२७ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कूर्मकल्पसमुद्भवो नाम सप्तमोऽध्यायः ॥