स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ७६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

।। ईश्वर उवाच ।। ।।
षट्सप्ततितमं देवमरुणेश्वरसंज्ञकम् ।।
विद्धि पापहरं देवि दर्शनात्कामदं नृणाम् ।। १ ।।
पुरा देवयुगे देवि प्रजापतिसुते शुभे ।।
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे ।। २ ।।
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता तथा ।।
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः ।। ३ ।।
कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः ।।
वरातिसर्गं श्रुत्वैव कश्यपादुत्तमं तु ते ।। ४ ।।
हर्षादभ्यधिकां प्रीतिं प्रापतुः स्म वरस्त्रियौ ।।
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यवर्चसः ।। ५ ।।
द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले ।।
ओजसा तेजसा चैव विक्रमेणाधिकौ च तौ ।। ६ ।।
तस्यै भर्त्ता वरं प्रादाल्लप्स्यसे पुत्रकोत्तमौ ।।
एवमस्त्विति तां चाह कश्यपो विनतां तदा ।। ७ ।।
यथा च प्रार्थितं लब्ध्वा वरं तुष्टाऽभवत्तदा ।।
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ ।। ८ ।।
कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् ।।
धार्यौ गर्भौ प्रयत्नेन इत्युक्त्वा स महातपाः ।। ९ ।।
ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् ।।
कालेन महता कद्रूर्नागानां सा शतीर्दश ।।
जनयामास चार्वंगी द्वे चांडे विनता तदा ।। 5.2.76.१० ।।
तयोरंडानि निदधुः प्रहृष्टाः परिचारिकाः ।।
सोपस्वेदेषु भांडेषु पंचवर्षशतानि च ।। ११ ।।
ततः पंचशते काले कद्रूपुत्रा विनिर्गताः ।।
अंडभ्यां विनतायास्तु मिथुनं न व्यदृश्यत ।। १२ ।।
ततः पुत्रार्थिनी देवी व्रीडिता सा तपस्विनी ।।
अंडं बिभेद विनता तत्र पुत्रं ददर्श ह ।। १३ ।।
पूर्वार्द्धकायसंपन्नमितरेणा प्रकाशितम् ।।
स पुत्रो रोषसंरब्धः शशापैनामिति श्रुतम् ।। १४ ।।
योऽहमेवं कृतो मातस्त्वया लोभपरीतया ।।
शरीरेणासमग्रेण तस्माद्दासी भविष्यसि ।। १५ ।।
पंचवर्षशतान्यस्या यया विस्पर्द्धसे सदा ।।
एष ते च सुतो मातर्दास्याद्वै मोक्षयिष्यति ।। १६ ।।
यद्येनमपि मातस्त्वं मामिवांडविभेदनात् ।।
न करिष्यस्यनंगं वा पुत्रं चाति तरस्विनम् ।।१७।।
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया।।
विशिष्टबलमीप्संत्या पंचवर्षशतान्यतः।।१८।।
एवं शप्त्वा ततो देवि विनतां मातरं स्वकम् ।।
अरुणो विललापाथ वाष्पशोकपरिप्लुतः ।। १९ ।।
हाहा मया नृशंसेन माता स्वजननी स्वका ।।
शप्ता विनापराधेन कथं यास्यामि सद्गतिम् ।।
माता देहारणिः पुंसां माता दुःखसहा परा ।।5.2.76.२०।।
गर्भक्लेशे परं दुःखं माता जानाति यादृशम् ।।
वात्सल्यं चाधिकं मातुर्दृश्यते न तु पैतृकम् ।। २१ ।।
गुरूणामेव सर्वेषां माता गुरुतरा स्मृता ।।
एकस्यापि सुतस्यैव न दृष्टा निष्कृतिः श्रुतौ ।।२२।।
यदि पिंडप्रदानं तु गयायां कुरुते सुतः ।।
गते पितरि पंचत्वं माता पुत्रस्य निर्वृतिः ।।
न च मातृविहीनस्य ममत्वं कुरुते पिता ।।२३।।
विकलो मातृहीनस्तु पुत्रो हि प्रोच्यते तदा ।।
यदा स वृद्धो भवति तदा भवति दुःखितः ।।
तदा शून्यं जगत्सर्वं यदा माता वियुज्यते ।। २४ ।।
सोऽहं पापसमाचारो जातो मातृविहिंसकः ।।
मरिष्यामि न संदेहः साधयित्वा हुताशनम् ।। २५ ।।
जातोऽहं विकलांगस्तु प्राक्कृतेनैव कर्मणा ।।
न माता कारणं यस्मात्स्वकीयं कर्म भुज्यते ।। ।। २६ ।।
एवं विलपतस्तस्य कश्यपस्य सुतस्य च ।।
अरुणस्य विशालाक्षि नारदः समुपागतः ।। २७ ।।
दृष्ट्वारुणं सुदुःखार्त्तं विलपंतं पुनः पुनः ।।
प्रत्युवाच प्रसन्नात्मा नारदः प्रहसन्निव।।२८।।
अरुणोऽयमहो रौति कश्यपस्यात्मसंभवः ।।
विनतायाः सुतो ज्येष्ठः संभूतस्तपसां निधिः ।। ।। २९ ।।
उत्पादितोऽयमल्पाहैरर्द्धकायो महाबलः ।।
एनमाश्वासयिष्यामि विनतागर्भसंभवम् ।।
मोहेन विलपंतं च श्रेयो मे भविता धुवम् ।। ।। 5.2.76.३० ।।
इति संचिंत्य मनसि वाक्यैर्मध्वमृतोपमैः ।।
प्रत्युवाचारुणं तत्र नारदो द्विजसत्तमः ।। ३१ ।।
तात कश्यपदायाद विनतागर्भसंभव ।।
तेजोराशे दुराधर्ष संतापं मा कृथा वृथा।। ३२ ।।
भाविनोऽर्था भवंतीह दुःखस्य च सुखस्य च ।।
यत्त्वया विनता शप्ता रहस्यं देवनिर्मितम्।। ।। ३३ ।।
यदि तेस्ति घृणा चित्ते शप्तात्मजननी त्वया ।।
तदा गच्छ ममादेशान्महाकालवनं शुभम् ।।३४।।
उत्तरे देवदेवस्य यात्रेशस्य च पुण्यदम्।।
विद्यते त्रिदशैः पूज्यं सर्वदा सर्वदं शिवम् ।। ३५ ।।
अरुणस्त्वेवमुक्तस्तु नारदेन महात्मना ।।
आजगाम क्षणार्द्धेन महाकालवनं शुभम् ।। ३६ ।।
ददर्श तत्र तल्लिंगं तेजःकूटोपमं शुभम् ।।
पूजयामास विधिवत्पुष्पैर्भावसमन्वितः ।। ३७ ।।
लिंगेनोक्तोऽरुणो देवि सारथ्यं कुरु सर्वदा ।।
सूर्यस्य भ्रमतस्तस्य त्वत्तुल्यो नास्ति सारथिः ।। ३८ ।।
मया दत्तं तु सामर्थ्यं सूर्यस्य पुरतः सदा ।।
उदयस्तेऽरुण प्राग्वै पश्चात्सूर्य उदेष्यति ।। ३९ ।।
त्वन्नाम्ना त्रिषु लोकेषु ख्यातोऽहमरुणेश्वरः ।।
भविष्यामि न संदेहो नृणामर्थप्रदायकः ।। 5.2.76.४० ।।
ये मां पश्यंति सततं त्वन्नाम्ना चारुणेश्वरम् ।।
ते यास्यंति परं स्थानं दाहप्रलयवर्जितम् ।। ४१ ।।
मोदिष्यंति कुलैः सार्द्धं पितृमातृसमुद्भवैः ।।
कल्पकोटिसहस्रं तु ये पश्यंति समाहिताः ।। ४२ ।।
न दुःखं जायते तेषां ये पश्यंति रवेर्द्दिने।।
संसारसागरोत्थं वै यावदिंद्राश्चतुर्दश ।।४३।।
यः पश्यति चतुर्दश्यां कृष्णायामरुणेश्वरम् ।।४४।।
स नेष्यति पितॄन्स्वर्गे नरकस्थान्न संशयः ।।
संक्रांतौ रविवारे च यः पश्येदरुणेश्वरम् ।।
शुंडीरस्वामिनो यात्रा कृता तेन न संशयः ।।४५।।
इत्युक्तस्तेन लिंगेन विनतानंदनस्तदा।।
आगतः कृतकृत्यात्मा यत्र देवो दिवस्पतिः ।।४६।।
अस्य लिंगस्य माहात्म्यात्कश्यपस्यात्मसंभवः ।।
अरुणो दृश्यते व्योम्नि सूर्यस्य पुरतः सदा ।। ४७ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
अरुणेश्वरदेवस्य पुष्पवंतेश्वरं शृणु ।। ४८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्येऽरुणेश्वरमाहात्म्यवर्णनंनाम षट्सप्ततितमोऽध्यायः ।। ७६ ।।