स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ६७

विकिस्रोतः तः
Jump to navigation Jump to search

।। ईश्वर उवाच ।।
सप्तषष्टिकसंख्याकं केदारेश्वरसंज्ञकम् ।।
देवं शृणु वरारोहे दर्शनात्पापनाशनम् ।। १ ।।
सृष्टिकाले पुरा देवि देवा व्याप्ता हिमेन हि ।।
शीतार्त्ता विह्वलाः सर्वे ब्रह्माणं शरणं गताः ।। २ ।।
हिमाद्रिणार्दिताः सर्वे वयं देव जगत्पते ।।
त्राहि भीतांश्चतुवक्त्र पितामह नमोऽस्तु ते ।। ३ ।।
देवानां वचनं श्रुत्वा प्रोक्तं वै ब्रह्मणा प्रिये ।।
पीडिता हिमशैलेन शंकरश्वशुरेण च ।। ४ ।।
नाहं यातुं समर्थोऽस्मि सत्यमेतन्मयोदितम्।। ।।
महादेव मृते देवा गतिरन्या न विद्यते ।। ५ ।।
स एव शरणं देवः सर्वेषां नो भविष्यति ।।
तस्याज्ञया मया सर्वे पर्वता रचिताः पुरा ।। ६ ।।
कृता बुद्धिर्विचित्रा च हिमाद्रिश्च मया कृतः ।।
असेव्यः सर्वजंतूनामधृष्यो दुर्गमो गिरिः ।। ७।।
हिमाचलस्य तस्यैव शास्ता देवो महेश्वरः ।।
तस्माद्यास्यामहे देवा कैलासं पर्वतोत्तमम्।। ८ ।।
यत्र तिष्ठति विश्वात्मा देवदेवो महेश्वरः ।।
एवमुक्त्वा गतो ब्रह्मा देवैः सार्द्धं ममांतिकम् ।।
दृष्टोहं पूजितस्तैस्तु स्तुतोऽहं विविधैः स्तवैः ।। ९ ।।
मया संमानिता देवाश्चतुवक्त्रः प्रपूजितः ।।
पूजयित्वा मया पृष्टो ब्रह्मा गमनकारणम् ।।5.2.67.१ ०।।
किं कार्यं त्रिदशैः सार्द्धमागतोऽसि पितामह ।।
कथितं ब्रह्मणा सर्वं श्रुतं सर्वं मया प्रिये ।। ११ ।।
हिमाचलं समाहूय मर्यादा च कृता मया ।।
शैलानां राजराजत्वे हिमाद्रिश्च प्रतिष्ठितः ।। १२ ।।
देवानां विषयाश्चैव गंधर्वाणां तथैव च ।।
यक्षाणामथ नागानां किंनराणां तथैव च ।। १३ ।।
विद्याधराणां क्रीडार्थं पृथक्पृथङ्निवेशिताः ।।
रूपतो भाति शैलेंद्रः शुद्धस्फटिकसंनिभः ।। १४ ।।
जाह्नवीनिर्झरोष्णीषः शर्वाणीजनकस्तथा ।। १५ ।।
सर्वदेवमयो दिव्यः सर्वतीर्थमयः कृतः ।।
सर्वाश्रमनिवासश्च सर्वामरनिषेवितः ।। १६ ।।
एवं संस्थाप्य शैलेंद्रं लिंगमूर्त्तिरहं स्थितः ।।
विख्यातस्त्रिषु लोकेषु केदारेश्वरनामतः ।। १७ ।।
उदकं निर्मितं तत्र मंत्रपूर्णं मया प्रिये ।।
माहात्म्यं विविधं प्रोक्तं लिंगस्य च जलस्य च ।। १८ ।।
योत्रागत्य नरो भक्त्या सम्यङ्मां पूजयिष्यति ।।
जलं योऽत्रैव गृह्णाति विधानेन वरानने ।।
तस्योदरे भविष्यामि लिंगरूपी न संशयः ।। १९ ।।
इत्युक्ते वचने देवि सदेवासुरपन्नगाः ।।
यक्षरक्षःपिशाचाश्च भूतवैतालकिंनराः ।। 5.2.67.२० ।।
विद्याधरगणाश्चैव मम दर्शनलालसाः ।।
समायाता वरारोहे पीत्वा तत्र जलं शुभम् ।। २१ ।।
दृष्टोऽहं विधिना तैस्तु लिंगमूर्त्तिगतः प्रिये ।।
मम तुल्याश्च ते जातास्तस्मिन्नद्रिवरे स्थिताः ।।
जनलोकगतैः सिद्धैः पूज्यमाना वरानने ।। २२ ।।
अथ कालेन बहुना श्रुत्वा माहात्म्यमुत्तमम् ।।
केदारेश्वरदेवस्य जलस्य च विशेषतः ।। २३ ।।
मनुष्याः समुपायातास्ते रजोबहुला यतः ।।
तमःप्राया विशालाक्षि तदाहं माहिषं वपुः ।। २४ ।।
कृतवांस्तद्भयार्थाय न च ते भीतिमागताः ।।
इह देवोत्र देवोऽत्र बभ्रमुस्ते दिदृक्षवः ।। २५ ।।
न तैर्दृष्टो महादेवि यतोऽहं महिषाकृतिः ।।
स्थितोऽस्म्यलक्ष्यरूपेण ततस्ते दीनमानसाः ।।
उद्विग्ना निश्वसन्तश्च वैराग्यं परमं गताः ।। २६ ।।
नात्र देवो न तीर्थानि न गंगा पुण्यदायिनी ।।
न धर्मो न परो लोकः सर्वमे तद्विडम्बनम् ।। २७ ।।
एवं किल पुराणेषु श्रूयते सर्वदा श्रुतौ ।।
हिमालये च केदारं लिंगं मोक्षप्रदायकम्।। २८ ।।
एवं तु वदतां तेषां मानुषाणां यशस्विनि ।।
आकाशादुत्थिता वाणी मया प्रोक्तानुकंपया ।। २९ ।।
अमार्गं मा वदत्वत्र न निंद्याः श्रुतयोऽव्ययाः ।।
पुराणं नान्यथा प्रोक्तं ब्रह्मणा लोककर्तृणा ।। 5.2.67.३० ।।
ये निंदंति पुराणानि धर्मशास्त्राणि नास्तिकाः ।।
ते यांति नरकं घोरं यावदाभूतसंप्लवम् ।। ३१ ।।
सदा देवोत्र केदारः स्वर्गमोक्षप्रदायकः ।।
विद्यते त्रिदशैः पूज्यः सततं नैव दृश्यते ।। ३२ ।।
करोति पूजां हिमवान्मासानष्टौ च शाश्वतान् ।।
हिमाद्रिस्तेन पुण्येन नगेन्द्रस्तु कृतो नगैः ।।
सेव्यश्च रमणीयश्च सर्वतीर्थनमस्कृतः ।। ३३ ।।
सर्वरत्ननिधानश्च देवानां वल्लभस्तथा ।।
ग्रीष्मे चैव वसन्ते च देवदेवोऽत्र दृश्यते ।। ३४ ।।
नियतेनैव कालेन मानुषाणां च सर्वदा ।।
यदि बुद्धिः परा जाता सर्वदा मम दर्शने ।। ३५ ।।
आख्यास्ये तदुपायं च श्रूयतां सावधानतः ।।
मा विकल्पोऽत्र कर्त्तव्यः सर्वान्कामानवाप्स्यथ ।। ३६ ।।
क्षेत्राणामुत्तमं क्षेत्रं भुक्तिमुक्तिप्रदायकम् ।।
प्रलयेऽप्यक्षयं प्रोक्तं महाकालवनं नराः ।। ३७ ।।
तत्राहं संभविष्यामि लोकानामनुकंपया ।।
लिंगरूपेण शिप्रायास्तटे पुण्ये सुशोभने ।। ३८ ।।
सोमेश्वरस्य देवस्य पश्चिमे स्थानमुत्तमम् ।।
प्रसिद्धमुपयास्यामि केदारेश्वरनामतः ।। ३९ ।।
सर्वदा दर्शनं तत्र मया सार्द्धं भविष्यति ।।
सर्वेषां च प्रदास्यामि सर्वा न्कामान्न संशयः ।। 5.2.67.४० ।।
इह यावत्फलं तस्माद्दास्यामि ह्यधिकं ततः ।।
इति ते मानवाः सर्वे श्रुत्वा वाणीं मनोरमाम् ।।
आकाशादुत्थितां दिव्यां मनःप्रह्रादकारिकाम् ।। ४१ ।।
गता वनं महाकालं संस्मरन्तो महेश्वरम् ।।
विकल्पेन विचित्रेण सत्यमेवेति नान्यथा ।। ४२ ।।
स्नात्वा शिप्राजले पुण्ये यावत्पश्यन्ति भास्करम् ।।
तावदृष्टिपथोत्पन्नं लिंगं पापप्रणाशनम् ।। ४३ ।।
अथ ते हर्षिताः प्रोचुः केदारोऽयं न संशयः ।।
दृष्टोऽस्माकं न सन्देहो गंगा शिप्राजले स्थिता ।। ४४ ।।
ततस्ते पूजयामासुः पुष्पैर्नानाविधैस्तथा ।।
पूजितोऽहं विशालाक्षि तेषां तुष्टो वरानने।। ।। ४५ ।।
दुर्लभोऽतिवरो दत्तः कैलासे स्थानमुत्तमम् ।।
अक्षयं च पदं दत्तं पुनरावृत्तिवर्जितम् ।। ४६ ।।
अतोऽहं त्रिदशैः प्रोक्तः केदारेश्वरना मतः ।।
प्रार्थितः परया भक्त्या लोकानामनुकंपया ।। ४७ ।।
इहागत्य नरा ये च त्वां पश्यंति सुभक्तितः ।।
तेषां फलं त्वया देव दातव्यमधिकं यतः ।। ४८ ।।
हिमाद्रौ हिमनाथस्य यात्रायाः प्रत्यहं फलम् ।।
लभन्ते च नरा नित्यं नात्र कार्या विचारणा ।। ४९ ।।
ब्रह्महा वा सुरापो वा स्ते यी वा गुरुतल्पगः ।।
तत्संपर्की नरो यस्तु त्वां दृष्ट्वा किल्विषाकरः ।। 5.2.67.५० ।।
सोऽपि याति परं स्थानं पुनरावृत्तिवर्जितम् ।।
चांद्रायणानां विधि वच्छतानां चैव यत्फलम् ।।
तत्फलं समवाप्नोति केदारेश्वरदर्शनात् ।। ५१ ।।
ते नराः पशवो लोके तेषां जन्म निरर्थकम् ।।
यैर्न दृष्टो महाकाले केदारेश्वरसंज्ञकः ।। ५२ ।।
कौमारे यौवने बाल्ये वार्द्धके यदुपार्जितम्।।
तत्पापं संक्षयं याति केदारेश्वरदर्शनात् ।। ५३ ।।
हिमालयकृता यात्रा तस्याः प्रोक्तं च यत्फलम्।।
तत्फलं समवाप्नोति केदारेश्वरदर्शनात्।।५४।।
 इत्युक्तोऽहं तदा देवि देवैः प्रणतिपूर्वकम् ।।
तथेति च मया प्रोक्तं तेऽपि देवा दिवं गताः ।। ५५ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
केदारेश्वरदेवस्य पिशाचाख्यमतः शृणु ।। ५६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये केदारेश्वरमाहात्म्यवर्णनंनाम सप्तषष्टितमोऽध्यायः ।। ६७ ।।