स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ६२

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
द्विषष्टिकं विजानीहि देवं रूपेश्वरं प्रिये॥
यस्य दर्शनमात्रेण रूपवाञ्जायते नरः ॥ १ ॥
पाद्मकल्पे महादेवि पद्मोनाम महीपतिः ॥
पद्मगर्भसमुद्भूतो बभूवातिपराक्रमी ॥
पृथिव्याश्चतुरंताया जातो धर्मरतो बली ॥ २ ॥
स कदाचिन्महाबाहुः प्रभूतबलवाहनः॥
वनं जगाम गहनं हयनागशतैर्वृतः ॥ ३ ॥
बिल्वार्कखदिराकीर्णं कपित्थधवसंकुलम् ॥
मृगसिंहैर्वृतं घोरैरन्यैश्चापि वनेचरैः ॥ ४॥
तत्र वन्यसहस्राणि हत्वा सबलवाहनः ॥
राजा मृगप्रसंगेन वनमन्यद्विवेश सः ॥ ९ ॥
एक एवोत्तमबलः क्षुत्पिपासासमन्वितः।
स वनस्यांतमासाद्य महदारण्यमासदत् ॥ ६॥
तच्चाप्यतीत्य नृपतिर्ददर्शाश्रममुत्तमम् ॥
मनःप्रह्लादजननं दृष्टिकांतमतीव च ॥ ७॥
पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम् ॥
ततोऽगच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान् ॥ ८॥
नापश्यदाश्रमे तस्मिंस्तमृषिं संशितव्रतम्॥
उवाच क इहेत्युच्चैर्वनं संनाद्यन्निव ॥९॥
श्रुत्वाथ तं तथा शब्दं कन्या श्रीरिव रूपिणी ॥
निश्चक्रामाश्रमात्तस्मात्तापसाकारधारिणी॥5.2.62.१०॥
सा तं दृष्ट्वैव राजानं पद्मगर्भसमुद्भवम्॥
आसनेनार्चयित्वा च पप्रच्छ नाम तं तदा ॥११॥
उवाच स्मयमानाथ किं कार्यं क्रियतामिति॥
तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम्॥१२॥
दृष्ट्वा चैवानवद्यांगीं यथावत्प्रतिपूजितः ॥
आगतोऽहं महाभागे मुनिश्रेष्ठमुपासितुम् ॥ १३ ॥
क्व गतो भगवान्भद्रे तन्ममाचक्ष्व शोभने ॥
एवमुक्ता तु सा कन्या तेन राज्ञा तदाश्रमे ॥
हसंती प्रत्युवाचेदं वाक्यं समधुराक्षरम्॥ १४॥
कन्याहं पृथिवीपाल कौमारब्रह्मचारिणः ॥
तपस्विनो धृतिमतो धर्मज्ञस्य मनस्विनः ॥ १५॥
सुता कण्वस्य मामेवं विद्धि त्वं मनुजाधिप ।।
कण्वं हि पितरमन्ये पितरं स्वमजानती ।। १६ ।।
तस्यास्तद्वचनं श्रुत्वा नृपेणोक्तं वरानने ।।
सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे ।। १७ ।।
भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते ।।
सुवर्णरत्नवासांसि कुंडले परिहारके ।। १८ ।।
आहरामि तवाद्याहं भार्या मे भव शोभने ।।
गांधर्वेण च मां भीरु विवाहेनैव सुंदरि ।।
विवाहानां च रंभोरु गांधर्वः श्रेष्ठ उच्यते ।। १९ ।।
नृपस्य वचनं श्रुत्वा कन्या वचनमब्रवीत् ।।
मुहूर्त्तं संप्रतीक्षस्व स मां तुभ्यं प्रदास्यति ।। 5.2.62.२० ।।
।।राजोवाच ।। ।।
इच्छामि त्वां वरारोहे भजमानमनिंदिते ।।
तदर्थं मां स्थितं विद्धि त्वया मेऽपहृतं मनः ।। २१ ।।
आत्मनो बंधुरात्मैव गतिरात्मैव चात्मनः ।।
आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः ।। ।। २२ ।।
।। कन्योवाच ।। ।।
यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम ।।
सत्यं मे प्रतिजानीहि दत्तमात्मानमद्य मे ।। २३ ।।
इति तस्या वचः श्रुत्वा परिणीता नृपेण हि ।।
गांधर्वेण विवाहेन कामासक्तेन पार्वति ।। २४ ।।
कामिता सा नृपेणेव ततो गंतुं समुद्यतः ।।
एतस्मिन्नंतरे देवि कण्वश्चाश्रममभ्यगात् ।। २५ ।।
सा कन्या पितरं दृष्ट्वा ह्रिया नोपजगाम तम् ।।
विज्ञायाथ च तां विप्रो दिव्यज्ञानो महातपाः ।। २६ ।।
उवाच परमं कुद्धस्तां कन्यां काममोहिताम् ।।
त्वयापि दुष्टे रहसि मामवज्ञाय यत्कृतः ।। २७ ।।
स्वयं स्वयंवरो मोहात्तस्मात्कृष्णा भविष्यसि ।।
कुत्सिता निर्घृणा दीना निर्लज्जा रूपवर्जिता ।। २८ ।।
अयं ते नृपतिर्भर्त्ता दुष्टरूपो भविष्यति ।। २९ ।।
इत्युक्ता तत्क्षणाज्जाता सा कन्या रूपवर्जिता ।।
कुरूपो नृपतिर्जातः शापात्तस्य महात्मनः ।। 5.2.62.३० ।।
अथ प्रसादयामास सा कन्या पितरं तदा ।।
बालानभिज्ञा मूढाहं मन्मथेन प्रपीडिता ।। ३१ ।।
अज्ञानाच्च कृतं पापं तात त्वं क्षंतुमर्हसि ।।
अयं महीपतिस्तात प्रत्यग्लीनो महाव्रतः ।। ३२ ।।
न चाहं प्रार्थिता तेन मयासौ प्रार्थितो नृपः ।।
तस्मादनुग्रहं तात कर्त्तुमर्हसि चावयोः ।। ३३ ।।
इति तस्या वचः श्रुत्वा स विप्रोऽतिकृपान्वितः ।।
उवाच स्वां दुहितरमाश्वास्यैवं पुनःपुनः ।। ३४ ।।
नैव वागनृतं पुत्रि यावदद्य स्मराम्यहम् ।।
दैवमत्र परं मन्ये धिग्बुद्धिं धिक्पराक्रमम् ।। ३५ ।।
अकार्यं कारितो येन बलादहमनिंदिते ।।
उपदेशं प्रदास्यामि तत्त्वं कर्तुमिहार्हसि ।। ३६ ।।
महाकालवने पुण्ये लिंगं रूपप्रदायकम् ।।
पशुपेश्वरपूर्वे तु विद्यतेऽभीष्टदायकम् ।।३७ ।।
तत्त्वं गच्छ त्वरा युक्ता सह भर्त्रा नृपेण हि ।।
रूपं प्राप्स्यसि दुष्प्राप्यं लिंगदर्शनमात्रतः ।। ३८ ।।
इत्युक्ता सा तदा कन्या सह भर्त्रा गता प्रिये ।।
महाकालवने रम्ये यत्र लिंगमनुत्तमम् ।। ३९ ।।
ददर्श परया भक्त्या स च राजा नरोत्तमः ।।
तत्क्षणाद्दिव्यदेहा सा रूपेणातिमनोहरा ।।
दिव्यवस्त्रपरीधाना दिव्यालंकारभूषिता ।। 5.2.62.४० ।।
स च राजा तथा जातः कंदर्पसदृशाकृतिः ।।
रूपेणाप्रतिमो लोके तस्य लिंगस्य दर्शनात् ।। ४१ ।।
अतो लोकेषु विख्यातो देवो रूपेश्वरः प्रिये ।।
रूपदो धनदोऽत्यर्थं पुत्रदः स्वर्गदस्तथा ।। ४२ ।।
स च राजा स्वकं प्राप्तो राष्ट्रं सस्यादिसंयुतम् ।।
प्रियया परया सार्धं चक्रे राज्यमकंटकम् ।। ४३ ।।
राज्यं कृत्वा गतः स्वर्गं भार्यया सह पार्वति ।।
देदीप्यमानो वपुषा द्वितीय इव भास्करः ।। ४४ ।।
विमानेन सुदीप्तेन वंद्यमानो दिवालये ।।
दर्शनात्तस्य लिंगस्य प्राप्तः पदमनामयम् ।। ४५ ।।
ये पश्यंति विशालाक्षि देवं रूपेश्वरं शिवम् ।।
न ते रूपेण हीयंते यशसा च कुलेन च ।। ४६ ।।
सदा रूपकरं लिंगं भुक्तिमुक्तिफलप्रदम् ।।
ये पश्यंति वरारोहे तेषां लोकाः सदाऽक्षयाः ।। ४७ ।।
येऽर्चयंति नरा नित्यं देवं रूपेश्वरं परम् ।।
तेऽर्चिता यांति यानेन मम लोकं सनातनम् ।। ४८ ।।
स एव सुकृती लोके कुलं तेनाप्यलंकृतम्।।
यः पूजयति रूपेशं रूपसौभाग्यदायकम् ।। ४९ ।।
यः पूजयति देवेशं प्रसंगादपि पार्वति ।।
धनवान्रूपवान्सोऽपि राजा भवति भूतले ।। 5.2.62.५० ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
रूपेश्वरस्य देवस्य धनुःसाहस्रकं ७ब् ।। ५१ ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां पंचम आवन्त्यखण्डे चतुरशीतिलिंगमाहात्म्ये रूपेश्वरमाहात्म्यवर्णनंनाम द्विषष्टितमोऽध्यायः ।। ६२ ।। ।। छ ।। ।। ।।