स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ६१
।। ईश्वर उवाच ।। ।।
एकषष्टितमं विद्धि सौभाग्येश्वरमीश्वरम् ।।
यस्य दर्शनमात्रेण सौभाग्य मतुलं लभेत् ।। १ ।।
प्रधमं प्राकृते कल्पे राजाभूदश्ववाहनः ।।
प्राग्ज्योतिषपुरे रम्ये धर्मात्मा कीर्त्तिवर्द्धनः ।। २ ।।
अनेकयज्ञकृत्प्राज्ञः संग्रामेष्वप राजितः ।।
तस्य भार्या विशालाक्षि नाम्ना मदनमञ्जरी ।। ३ ।।
काशिराजसुता सुभ्रू रूपेणातीव शोभना ।।
दक्षा सुशीला धर्मिष्ठा गृहव्यापारको विदा ।। ४ ।।
चतुःषष्टिकलायुक्ता सदा भर्तृहिते रता ।।
पूर्णेन्दुवदना सौम्या सदा मधुरभाषिणी ।। ५ ।।
पूर्वकर्मवशाद्देवि दुर्भूगा समजायत ।।
सा नेष्टा तस्य नृपतेर्नेत्रोद्वेगकरी सदा ।। ६ ।।
श्रोत्रोद्वेगकरं वाक्यं तस्य राज्ञः करोति सा ।।
ददाह लोचने राजस्तस्याः संदर्शनं सदा ।। ७ ।।
मृर्छां प्राप्नोत्यसह्यां स तस्याः स्पर्शेन भूपतिः ।।
कदा चालोकितो राजा तया प्रेम्णा वरानने ।।
दह्यमानोऽतितीव्रेण वह्निना वाक्यमब्रवीत् ।। ।। ८ ।।
द्वास्थैतां दुर्भगां भार्यामादाय विपिने वने ।।
परित्यजाशु नैतत्ते विचार्यं वचनं मम ।। ९ ।।
ततो नृपस्य वचनमविचार्यमवेक्ष्य सः ।।
द्वास्थस्तत्याज तां सुभ्रूमारोप्य स्यंदनं वने ।। 5.2.61.१० ।।
सा च त्यक्ता वने शून्ये रुदती च मुहुर्मुहुः ।।
सस्मार तं महीपालं तममन्यत दैवतम् ।। ।। ११ ।।
अथ सा चारुसर्वांगी तत्रासक्तात्ममानसा ।।
निश्वासपरमा निन्ये दिनशेषं तथा निशाम् ।। १२ ।।
निश्वसन्त्यनवद्यांगी हाहेति रुदती मुहुः ।।
मन्दभाग्येति चात्मानं निनिन्द मदिरेक्षणा ।। १३ ।।
न विहारे न चाहारे रमणीये न तद्वने ।।
न कन्दरेषु शैलानां सा बबन्ध तदा रतिम् ।।
त्यक्ता तेन वरारोहे निनिन्द निजयौवनम् ।। १४ ।।
दुर्भगाहं क्व जातात्र दुष्टदैववशीकृता ।।
कथं प्राप्तः स मे भर्त्ता तादृशो नृपस त्तमः ।। १५ ।।
धन्योऽयमतिपुण्योऽयं योऽयं यौवनगोचरः ।।
अन्यासामसतीनां च रमिष्यति न संशयः ।। १६ ।।
अभीष्टा कस्यचित्कांता कांतः कस्याश्चिदीप्सितः ।।
परस्परानुरागाढयं दांपत्यमतिदुर्लभम् ।। १७ ।।
ममायं वल्लभो राजा न चाहं नृपवल्लभा ।।
परस्परानुरागो हि धन्यानामेव जायते ।। १८ ।।
यद्यद्य स महीपालो न मया संगमेष्यति ।।
तत्कामाग्निरवश्यं मां क्षपयिष्यति दुःसहः ।। १९ ।।
रमणीयमभूद्यत्तु पुंस्कोकिलनिनादितम् ।।
हीनं हि वल्लभेनैवं दहतीवाद्य मे वनम्।। 5.2.61.२० ।।
इत्थं सा मदनाविष्टा विलपन्ती पुनःपुनः ।।
ददर्श तापसं तत्र त्रिकालज्ञं दृढव्रतम् ।। २१ ।।
मेखलाजिनकौपीनदण्डकाष्ठोपजीवनम् ।।
महौजसं महाभागं मुमुक्षुं मुनिपुंगवम् ।।२२।।
उदयादित्यसंकाशं विभावसुसमद्युतिम् ।।
तं दृष्ट्वा सहसोत्थाय सा राज्ञी दुर्मता सती ।। २३ ।।
विनयेनोपसंयम्य प्रणिपत्याभिवाद्य च ।।
वियोगकारणं राज्ञः पप्रच्छ प्रणता सती ।। २४ ।।
भगवन्काशिराजस्य सुताहमतिवल्लभा ।।
भगिनी शत्रुसेनस्य मातुश्चातीव वल्लभा ।। २५ ।।
अश्ववाहनसंज्ञेन नृपेणोढा महामुने ।।
धर्मतो धर्मकल्पेन प्रजपतिसमेन तु ।। २६ ।।
सा किमर्थं न चाभीष्टा जाताऽहं तस्य भूपतेः ।।
स चातीव ममाभीष्टो नृपतिः सर्वदा विभो ।। ।। २७ ।।
दुर्भगाहं कथं जाता कर्मणा केन तापस ।।
कथं भवति वश्यो मे भर्त्ता नृपतिसत्तमः ।।
सौभाग्यं च कथं मे स्यादिति सत्यं च कथ्यताम् ।। २८ ।।
तस्यास्तद्वचनं श्रुत्वा स मुनिः संशितव्रतः ।।
ज्ञानेन कथयामास तस्या दौर्भाग्यकारणम् ।। २९ ।।
पाणिग्रहणकाले त्वं ग्रहैः पापैर्विलोकिता ।।
भर्ता ते नृपतिः पुत्रि ग्रहैः सौम्यैर्विलोकितः ।। 5.2.61.३० ।।
तेन ते वल्लभो राजा न त्वं भूपस्य वल्लभा ।।
इति तस्य वचः श्रुत्वा सा राज्ञी दीनमानसा ।।
पप्रच्छ विनयोपेता भक्तिनम्रात्मकन्धरा ।।३१।।
भगवन्केन दानेन स्नानेन नियमेन च ।।
कर्मणा केन सौभाग्यं परमं हि कथं भवेत् ।। ३२ ।।
इति तस्या वचः श्रुत्वा स मुनिः संशितव्रतः ।।
कथयामास माहात्म्यं सौभाग्यं येन लभ्यते ।। ३३ ।।
महाकालवने पुत्रि लिगं सौभाग्यदायकम्।।
मतंगेश्वरपार्श्वे तु विद्यतेऽभीष्टदायकम् ।।
तस्य दर्शनमात्रेण सौभाग्यं समवाप्स्यसि ।।३४।।
इंद्राण्याराधितं लिंगं पुरा सौभाग्यकारणात् ।।
सौभाग्यं परमं लब्धं नष्टः शक्रोऽपि लब्धवान् ।।
तस्माद्गच्छ ममादेशान्महाकालवनं शुभम् ।। ३५ ।।
सौभाग्यं भविता तत्र कांतेन सह दर्शनम्।।
पुत्रो भविष्यति शुभे तस्य लिंगस्य दर्शनात् ।। ३६ ।।
इत्युक्ता सा तदा तेन तापसेन वरानने ।।
विद्यते यत्र तल्लिंगं महाकालवनं गता ।।३७।।
ददर्श प्रणयोपेता लिंगं सौभाग्यदायकम् ।।
दर्शनात्तस्य लिंगस्य राजा सस्मार तां प्रियाम् ।। ३८ ।।
पप्रच्छ जमदग्निं तु क्व गता मे प्रिया विभो ।।
भक्षिता विपिने विप्र सिंहव्याघ्रनिशाचरैः ।। ३९ ।।
मया त्यक्ता नृशंसेन अहं तस्यास्तु वल्लभः ।।
एवं ब्रुवाणो नृपतिः प्रत्युक्तो जमदग्निना ।। 5.2.61.४० ।।
न भक्षिता सा भूपाल सिंहव्याघ्रनिशाचरैः ।।
सा चाविप्लुतचारित्रा त्वद्भक्ता च पतिव्रता ।। ।। ४१ ।।
महाकालवनं राजन्गता सौभाग्यकाम्यया ।।
भार्या रक्ष्या महीपाल इति सा श्रुतिरुत्तमा ।। ४२ ।।
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता ।।
आत्मा हि जायते तस्यां सा रक्ष्यातो नरेश्वर ।।४३।।
धर्महानिश्चानुदिनमभार्यस्य भवेन्नृप ।।
नित्यक्रियाया विभ्रंशः स चापि पतनाय वै ।। ४४ ।।
पत्न्यानुकूलया भाव्यं यथाशीलेऽपि भर्त्तरि ।।
दुःशीला दुर्भगा भार्या पोषणीया नरेश्वर ।। ४५ ।।
इति तस्य वचः श्रुत्वा समायातो नरेश्वरः ।।
महाकालवने रम्ये ददर्श स्वां प्रियां तदा ।। ४६ ।।
सौभाग्यालंकृतां सुभ्रू पूजयंतीं महेश्वरम् ।।
दृष्ट्वा स्नेहेन चालिंग्य प्रत्युवाच स तां प्रियाम्।। ४७ ।।
विरहेण त्वदीयेन संतप्तोऽहं वरानने ।।
अद्य मे सफलं चक्षुर्जीवितं च सुजीवितम् ।। ४८ ।।
यत्त्वां पश्यामि सुभगे कृतार्थोहं कृतस्त्वया ।।
एवं दृष्टातिहर्षेण सा ददर्श तदा पतिम् ।।
उवाच च प्रसीदेति भूयो भूयो मुदान्विता ।। ४९ ।।
ततः स राजा रभसात्परिष्वज्याह भामिनीम् ।।
प्रिये प्रसन्न एवाहं भूयो भूयो ब्रवीमि किम् ।। 5.2.61.५० ।।
ततः समागमो जातो जातः पुत्रोऽतिधार्मिकः ।।
तस्य लिंगस्य माहात्म्याद्दत्तोनाम स गीयते ।। ५१ ।।
सौभाग्यमतुलं लब्धं तया देव्या हिमात्मजे ।।
सौभाग्येश्वरसंज्ञं तु ततःप्रभृति भूतले ।। ५२।।
ये पश्यंति विशालाक्षि सौभाग्येश्वरमीश्वरम्।।
तेषां कुले न दौर्भाग्यं जायते पर्वतात्मजे ।। ५३ ।।
भविष्यति न दारिद्र्यं वियोगो न च बन्धुभिः ।।
पुत्रमित्रकलत्राणां लिंगस्य च समर्चनात् ॥ ५४॥
नोपसर्गभयं तेषां ये पश्यंति वरानने ॥
सौभाग्येश्वरसंज्ञं तु न ग्रहादिभयं भवेत् ॥ ५५ ॥
सर्वबाधाविनिर्मुक्तो धनधान्यसमन्वितः ॥
मनुष्यो जायते देवि सौभाग्येश्वरदर्शनात् ॥
संपूज्यः सर्वलोकेषु सौभाग्येकनिधिर्भवेत् ॥ ५६ ॥||
जायते भूपतिर्लोके सार्वभौमो वरानने ॥
नापुत्रा नाधना नारी न दीना न च दुःखिता ॥
जायते दुर्भगा नैव सौभाग्येश्वरदर्शनात् ॥ ५७ ॥
न वैधव्यं न च व्याधिर्नाकालमरणं श्रिये॥
न पुत्रभर्तृजं दुःखं जायते लिंगदर्शनात् ॥ ५८॥
यथा लक्ष्मीर्हरेर्नित्यं सावित्री ब्रह्मणः स्मृता ॥
रोहिणी वल्लभा चेंदोः शची शक्रस्य वल्लभा ॥
तथा सा जायते नारी सौभाग्येश्वरदर्शनात् ॥ ५९ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
सौभाग्येश्वरदेवस्य शृणु रूपेश्वरं प्रिये ॥ 5.2.61.६० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीति लिंगमाहात्म्ये सौभाग्येश्वरमाहात्म्यवर्णनंनामैकषष्टितमोऽध्यायः ॥ ६१ ॥