स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ५५

विकिस्रोतः तः
Jump to navigation Jump to search

।। ।। श्रीईश्वर उवाच ।। ।।
पंचाधिकं विजानीहि पंचाशत्तममीश्वरम् ।।
सिंहेश्वरं वरारोहे महाभयविनाशनम ।। १ ।।
सद्यःकल्पे त्वया देवि मदर्थं हि महत्तपः ।।
कृतं नीलोत्पलापांगि भीषणं संशितव्रतम् ।।
तपसा तव रौद्रेण दग्धं हि भुवनत्रयम् ।। २ ।।
दुष्करं हि तपो ज्ञात्वा भगवां श्चतुराननः ।।
आगत्योवाच देवेशो देवि त्वां शुभया गिरा ।। ३ ।।
किं पुत्रि प्राप्तुकामासि किमलभ्यं ददामि ते ।।
विरम्यतामतिक्लेशात्त पसोऽस्मान्ममाज्ञया ।। ४ ।।
त्वया च वचनं श्रुत्वा गुरोर्गौरवगर्भितम् ।।
प्रियं तथ्यं हितं तत्र वर्णनिर्णीतवांछितम् ।। ५ ।।
प्रत्युक्तः स तदा ब्रह्मा प्रणामनम्रया त्वया ।।
तपसा दुष्करेणाप्तः पतित्वे शंकरो मया ।। ६ ।।
स मां श्यामलवर्णेति बहुशः प्रोक्तवान्भवः ।।
श्यामाहं कांचनाकारा वल्लभेन च संयुता ।।
भर्त्ता भूतपतिर्वश्यः कथं स्यादिति मे तपः ।। ७ ।।
त्वदीयं वचनं श्रुत्वा वरार्हो वरदः प्रभुः ।।
एवं भविष्यतीत्याह ब्रह्मा लोकपितामहः ।। ८ ।।
कियता चैव कालेन वांछासिद्धिर्भविष्यति ।।
गौरीनाम्ना तु ते मूर्त्तिः कांत्या दीप्ता भविष्यति ।। ९ ।।
एतच्छ्रुत्वा त्वया वाक्यं ब्रह्मणः परमेष्ठिनः ।।
क्रुद्धा त्वं गिरिजेऽत्यर्थं कालेऽभीष्टं भविष्यति ।। 5.2.55.१० ।।
क्रोधात्सिंहः समुद्भूतो वदनात्ते भयावहः ।।
विवृतास्यो महारौद्रो जटाजटिलकंधरः ।। ११ ।।
प्रोद्धूतवल्गुलांगूलो दंष्ट्रोत्कटमुखोत्कटः ।।
तस्यास्ये पतितुं देवि व्यवसायः कृतस्त्वया ।। १२ ।।
सोऽपि सिंहः क्षुधाविष्टस्त्वां भक्षयितुमुद्यतः ।।
न चैवासौ समर्थोऽभूद्वीक्षितुं वा तपोधिकाम् ।। १३ ।।
स दह्यमानः सहसा तेजसा तपसा तव ।।
पराङ्मुखः समभवत्प्राणत्राणपरायणः ।। १४ ।।
ततस्तवाभूत्करुणा सिंहं प्रति यतव्रते ।।
क्षुधितस्य त्वया तस्य क्षीरं ह्यमृतसन्निभम् ।। १५ ।।
उत्पादितं स्तनाभ्यां तु तस्य सिंहस्य कारणात ।।
तथापि दह्यतेऽत्यर्थं दुष्टभावं यतो गतः ।। १६ ।।
तेनोक्तं दह्यमानेन मातर्दग्धोस्मि तेजसा ।।
त्वदीयेन दुराचारो दुष्टोहं पापविग्रहः ।। १७ ।।
त्वामत्तुकामो दुष्टात्मा त्वयाहं जनितोऽधुना ।।
तस्माद्यास्यामि नरकं मातृहा गुरुघातकः ।। ८ ।।
तस्य तद्वचनं श्रुत्वा दुःखितस्य सुतस्य तु ।।
ममत्वेन विशालाक्षि सिंहस्य कथितं त्वया ।।१९।।
अधमं विद्यते क्षेत्रं महाकालवनं सुत।।
तत्र गच्छ ममादे शाच्छीघ्रं देवविनिमितम् ।। 5.2.55.२० ।।
कंटेश्वरस्य देवस्य समीपे लिंगमुत्तमम् ।।
सिंहनादात्समुत्पन्नं शंकरस्य महात्मनः ।। २१ ।।
अंधकासुरयुद्धे वै पीडिते वासवे पुरा ।।
त्वदीयं वचनं श्रुत्वा सिंहस्त्वरितविक्रमः ।। २२ ।।
गतो महाकालवनं दृष्टो देवोऽथ तत्क्षणात्।।
दिव्यदेहो मृगारिस्तु जातो लिंगस्य दर्शनात् ।। २३ ।।
ममत्वात्तस्य लिंगस्य त्वं गता तत्र पार्वति ।।
सिंहिकारूपमास्थाय शीघ्रं सिंहस्त्वया प्रिये ।। २४ ।।
दृष्टो दिव्यशरीरस्तु लिंगस्यास्य प्रभावतः ।।
तव तुष्टिः परा जाता दृष्ट्वा सिंहं महाद्युतिम् ।। २५ ।।
कृतं नाम त्वया देवि लिंगस्यास्य वरानने ।।
दिव्यदेहस्तु सिहोयं जातो लिंगस्य दर्शनात् ।। २६ ।।
अतः सिंहेश्वरो देवो भुवि ख्यातो भविष्यति ।।
एतस्मिन्नंतरे ब्रह्मा संप्राप्तस्तत्र सुव्रते ।।
उवाच त्वां वरारोहे देवैः परिवृतस्तदा ।।२७।।
य एष सिंहः संभूतस्तव क्रोधात्सुतो यतः ।।
ततोऽसौ वाहनो देवि भविष्यति न संशयः ।। २८ ।।
लिंगं सिंहेश्वरं भक्त्या यः पश्यति समाहितः ।।
तस्य वासोऽक्षयो दिव्यो भविष्यति त्रिविष्टपे ।।२९।।
कीर्तनान्मुच्यते पापाद्दृष्ट्वा भद्राणि पश्यति ।।
स्पर्शनादस्य लिंगस्य पुनात्यासप्तमं कुलम् ।। 5.2.55.३० ।।
मनसा चिंतितान्कामांस्तांश्च प्राप्नोति पुष्कलान् ।।
तदैव पुरुषो मुक्तो जन्मदुःखजरादिभिः ।। ३१ ।।
यदा पश्यति सिंहेशं संसारार्णवतारकम् ।।
व्यालव्याघ्रादयश्चौरास्तथा साहसिकाश्च ये ।।३२।।
तेभ्यो भयं न भवति श्रीसिंहेश्वरदर्शनात् ।।
यज्ञानां तपसां चैव दानादीनां च यत्फलम् ।।
तत्फलं जायते सम्यग्दृष्ट्वा सिंहेश्वरं शिवम् ।। ३३ ।।
मदीयं लोकमाप्नोति सुरासुरनमस्कृतम् ।।
यः पश्यति प्रयत्नेन देवं सिंहेश्वरं तदा ।। ३४ ।।
इत्युक्त्वासौ जगामाथ ब्रह्मा लोके स्वकं प्रिये ।।
यद्वपुस्तव पूर्वं स्यात्कालकांतिकलंकितम् ।।
प्रभावात्तपसस्तस्य गौरत्वं प्राप्तमद्भुतम् ।। ३५ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
सिंहेश्वरस्य देवस्य रेवंतेशमतः शृणु ।। ३६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखंडे चतुरशीतिलिंगमाहात्म्ये सिंहेश्वरमाहात्म्यवर्णनंनाम पंचपंचाशत्तमोऽध्यायः ।। ।। ५५ ।।