स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ५२

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

।। श्रीविश्वेश्वर उवाच ।। ।।
द्व्यधिकं देवि जानीहि पंचाशत्तममीश्वरम् ।।
ओंकारेश्वर इत्याख्या यस्यास्ति भुवनत्रये ।। १ ।।
प्राकृते कल्पसंज्ञे तु प्रथमे प्रथमं मया ।।
वक्त्रादुत्पादितो देवि पुरुषः कपिलाकृतिः ।। २ ।।
ततः स पुरुषो दिव्यः किं करोमीत्युपस्थितः ।।
विभजात्मानमित्युक्तो मयांतर्द्धानगोऽभवत् ।। ३ ।। ।
निर्वाणस्येव दीपस्य गतिस्तस्य न लक्षिता ।।
ततस्तस्याभवच्चिंता कथमात्मा विभज्यते ।। ४ ।।
एवं चिंतयतस्तस्य चतुर्मित्योत्थितस्ततः ।।
त्रिवर्णस्वररूपी च चतुर्वर्गफलप्रदः ।। ५ ।।
ऋग्यजुःसामनामा च ब्रह्मविष्णुशिवात्मकः ।।
व्याप्नुवन्सकलाँल्लोकान्प्रभावैः पृथुभिस्तदा ।। ६ ।।
ओंकार इति तस्याख्या मया दता प्रसादतः ।।
तदोक्ताभिरुदाराभिर्वाणीभिः समलंकृतः ।। ७ ।।
हृदयात्तस्य देवस्य वषट्कारः समुत्थितः ।।
छंदसां प्रवरा देवी चतुर्विंशाक्षरा परा ।। ८ ।।
षट्कुक्षिः सा त्रिपादा च पंचशीर्षोपलक्षिता ।।
समीपवर्त्तिनी देवी पार्श्वे तत्र व्यवस्थिता ।। ९ ।।
गायत्री मधुराभाषा सावित्री लोकविश्रुता ।।
स चोंकारो मया प्रोक्तो गायत्र्या सह पार्वति ।।
सृष्टिं कुरु ममादेशाद्विचित्रामनया सह ।। 5.2.52.१० ।।
इत्युक्तस्त्रिशिखो भूत्वा हिरण्यसदृशाकृतिः ।।
सृष्टिमुत्पादयामास स्वशरीरान्ममाज्ञया ।। ११ ।।
पूर्वं देवगणाश्चैव त्रयस्त्रिंशच्च देवताः ।।
मनुष्या ऋषयश्चैव वेदप्रामाण्यतः कृताः ।। १२ ।।
तेषां देहे प्रविष्टानां प्रादुर्भावः पुनर्भवेत् ।।
यथा सूर्यस्य सततमुदयास्तमनं भवेत् ।। १३ ।।
संहृत्योंकारमखिलान्सदेवासुरपन्नगान् ।।
कृतात्मगर्भे भगवानोंकारो जगतः प्रभुः ।। १४ ।।
ससर्ज सर्वभूतानि कल्पांते पर्वतात्मजे ।।
अव्यक्तः शाश्वतश्चैव तस्य सर्वमिदं जगत् ।। १५ ।।
कर्त्ता चैव विकर्त्ता च संहर्ता च महांस्तु यः ।।
ओंकारपूर्वका वेदा यज्ञाश्चोंकारपूर्वकाः ।। १६ ।।
ओंकारपूर्वकं ज्ञानं तपश्चोंकारपूर्वकम् ।।
स्वयंभूरिति विज्ञेयः स ब्रह्मा भुवनाधिपः ।। १७ ।।
स वायुरिति विज्ञेयः सर्वज्ञः स प्रजाकरः ।।
विश्वे देवास्तथा साध्या रुद्रादित्यास्तथाश्विनौ ।। १८ ।।
प्रजानां पतयश्चैव सप्त चैव महर्षयः ।।
वसवोऽप्सरसश्चैव गंधर्वाश्चैव राक्षसाः ।। १९ ।।
दैत्याः पिशाचा रक्षांसि भूतानि विविधानि च ।।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा म्लेच्छादयो भुवि ।।
सर्वे चतुष्पदाश्चैव तिर्यग्योनिगतास्तदा ।। 5.2.52.२०।।
जंगमानि च सत्त्वानि यच्चान्यज्जीवसंज्ञकम्।।
कृत्वा सर्वमशेषं च ममांतिकमुपागतः।।२१।।
प्रणम्य प्रयतो भूत्वा वचनं चेदमब्रवीत् ।।
कृता सृष्टिर्मया देव त्वत्प्रसादान्महेश्वर ।।२२।।
देहि मे परमं स्थानं यथा कीर्त्तिर्ध्रुवा भवेत् ।।
ओंकारस्य वचः श्रुत्वा मया प्रोक्तं वरानने ।।२३।।
ममाभीष्टकरं स्थानं नित्यमव्ययमक्षयम् ।।
महाकालवनं दिव्यं सर्वसंपत्करं शुभम् ।।२४।।
तत्र ते भविता कीर्त्तिः शाश्वती नात्र संशयः ।।
शूलेश्वरस्य देवस्य पूर्वभागे व्यव स्थितम् ।।२५।।
त्रिकल्पप्रभवं लिंगं त्वन्नाम्ना ख्यातिमेष्यति ।।
ओंकारेश्वर इत्याख्या भविष्यति जगत्त्रये ।। २६ ।।
इत्युक्तो हि मया देवि ओंकारो हृष्टमानसः ।।
ददर्श तत्र तल्लिंगं तस्मिँल्लिंगे लयं गतः ।।२७।।
ततः प्रभृति वेदेषु ओंकारः क्रियते द्विजैः ।।
पुण्यार्थं मंगलार्थं च प्रथमं सर्ववस्तुषु ।। ।। २८ ।।
लयंगतो यदोंकारस्तदाप्रभृति पार्वति ।।
मयोच्यमानं लिंगस्य प्रभावातिशयं शृणु ।। २९ ।।
यद्युगादिसहस्रेषु व्यतीपातशतेषु च ।।
अयनानां सहस्रेषु यत्पुण्यं समुदाहृतम् ।।
तत्पुण्यमधिकं देवि ॐकारेश्वरदर्शनात् ।।5.2.52.३०।।
चतुर्ष्वपि च वेदेषु समधीतेषु यत्फलम् ।।
ततोऽधिकं फलं प्रोक्तमोंकारेश्वरदर्शनात् ।।३१।।
ब्रह्मचर्येण यत्पुण्यं यावज्जीवं कृतेन च ।।
तत्पुण्यमधिकं प्रोक्तमोंकारेश्वरदर्शनात् ।।३२।।
करीषसाधने पुण्यं यच्च पुण्यमनाशके ।।
तत्पुण्यमधिकं देवि ॐकारेश्वरदर्शनात् ।। ३३ ।।
पूजायां यत्फलं प्रोक्तं तस्य संख्या न विद्यते ।। ३४ ।।
किं यज्ञैर्बहुवित्ताढ्यैः किं तपोभिः सुदुष्करैः ।।
ॐकारदर्शनादेव तत्फलं लभते यतः ।। ३५ ।।
पूजनात्स्पर्शनाद्वापि कीर्त्तनाच्छ्रवणात्तथा ।।
ॐकारेश्वरदेवस्य नराः स्युर्मुक्तिभाजनाः ।। ३६ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
ॐकारेश्वरदेवस्य शृणु विश्वेश्वरं परम् ।। ३७ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य ॐकारेश्वरमाहात्म्यवर्णनंनाम द्विपंचाशत्तमोऽध्यायः ।। ५२ ।।