स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ५१

विकिस्रोतः तः
Jump to navigation Jump to search

।। ईश्वर उवाच ।। ।।
एकाधिकं विजानीहि पंचाशत्तममीश्वरम् ।।
देवं शूलेश्वरं देवि सर्व व्याधिविनाशनम् ।। १ ।।
आद्ये कल्पे प्रवृत्ते च राज्यहेतोर्वरानने ।।
देवानां दानवानां च युद्धमासीत्सुदारुणम् ।।
दैत्यानामीश्वरे जंभे देवानां च शचीपतौ ।। २ ।।
ततो देवाः पराभूता दैत्या विजयिनोऽभवन् ।।
अंधको मंदरं प्राप्तो दूतं मे प्राहिणोत्तदा ।। ३ ।।
स दूतो मामुवाचोच्चैः सगर्वो दुष्टमानसः ।।
अन्धकेनाहमादिष्टः शृणु शंकर मद्वचः ।। ४ ।।
गौरीं मे देहि पत्न्यर्थं मंदरस्त्यज्यतामयम् ।।
एवं कृते कृतार्थस्त्वमन्यथा नास्ति ते गतिः ।। ५ ।।
उक्तोऽहं तेन दूतेन त्वया सह महागिरौ ।।
स्मिताननः क्षणं भूत्वा मया प्रोक्तमिदं वचः ।। ६ ।।
गच्छ दूत ममादेशादंधकं ब्रूहि सत्वरम्।।
इहाभ्येत्याहवं कृत्वा जित्वेमां सुन्दरीं नय ।। ७ ।।
इत्युक्तः प्रययौ दूतस्तेनाख्यातं वचो मम ।।
अन्धकोऽपि तदा दैत्यः समरार्थी तु मन्दरम् ।।
समायातः सहामात्यो बलेन चतुरंगिणा ।। ८ ।।
मया सह ततस्तस्य घोरं युद्धमभूच्चिरम् ।।
अन्धकस्य रथो घोरश्छिन्नो भिन्नः समं ततः ।। ९ ।।
ततः कुद्धोंऽधको देवि रथात्तस्मादवप्लुतः ।।
मद्रथं बलवान्गृह्य मया सह बलोत्कटः ।।
युयुधे स महादैत्यः शूलेन ताडितो मया ।। ।। 5.2.51.१० ।।
मया धृतोन्तरिक्षे स शूलप्रोतो महासुरः ।।
शूलप्रोतोऽथ वै दुष्टस्तावत्स भ्रामितो मया ।। ११ ।।
सुस्राव तस्य गात्रेभ्यः शोणितोघ स्ततो महान् ।।
बिन्दौबिन्दौ तु रक्तस्य तत्तुल्या दानवास्तथा ।। १२ ।।
संभूताः कोटिशो देवि तैरहं पुनरर्द्दितः ।।
किं कर्त्तव्यमिति ध्यायन्स्थि तोऽहं तत्र भामिनि ।। १३ ।।
मया चोत्पादिता दुर्गा रक्तदंता सुभीषणा ।।
अन्धकस्य तदा पीतं रक्तं वहुविधं तया ।। १४ ।।
तस्मिन्पीते ततो रक्ते नोत्तस्थुर्देवि चापरे ।।
पूर्वोत्थितास्तयैवाशु निहता दानवाधिपाः ।।
तेन शूलवरेणैव तत्क्षणान्निधनं गताः ।। १५ ।।
स मामुवाच हृष्टात्मा कृतां जलिपुटोंऽधकः ।।
त्वयि भक्तिः सदा मेस्तु दुर्लभं तव दर्शनम् ।। १६ ।।
स्वामिना निहतश्चाहं कोऽन्यो धन्यतरो हि मत् ।।
त्वच्छूलेन विनिर्भिन्नो ह्यन्तरिक्षे ततोऽप्यहम् ।। १७ ।।
संकल्पाक्षेपविक्षेपं कल्पकार्यप्रवर्त्तकम् ।।
सहस्रवक्त्रशिरसं त्वामहं शरणं व्रजे ।। १८ ।।
गिरींद्रतनयानाथं गिरींद्रशिखरालयम् ।।
महालयकृतावासं त्वामहं शरणं व्रजे ।। १९ ।।
एवं स्तुतोऽहं दैत्येन शूलप्रोतेन सुन्दरि ।।
ततो मे करुणा जाता कृतोंधको गणस्तदा ।।5.2.51.२०।।
स च शूलवरो देवि मया प्रोक्तो मुदा तदा ।।
एहि शूल हतो दैत्यस्त्वया दुष्टोंधको मृधे ।।२१।।
परितुष्टः प्रयच्छामि परमं स्थानमुत्तमम्।।
न देवैर्न च गन्धर्वैर्नापि तत्परमर्षिभिः।।२२।।
संप्राप्यं मामनाराध्य तथा विध्वस्तकल्मषैः।।
मामुवाच ततः शूलः प्रणम्यानतकन्धरः ।।२३।।
यदि प्रसन्नो भगवन्करुणा मयि ते यदि ।।
कथयस्व परं स्थानं मनो मे यत्र शुद्ध्यति ।।
दुष्टसंपर्कसंजातमन्यत्पातकमात्मनः ।। २४ ।।
ततो मया समादिष्टः करुणाश्लिष्टचेतसा ।।
महाकालवनं रम्यमतिपुण्यफलप्रदम् ।। २५ ।।
तत्रास्मत्प्राप्तिदं लिंगं लोकानुग्रहकारकम् ।।
पृधुकेश्वरपूर्वेण तदाराधय यत्नतः ।। २६ ।।
मदीयं वचनं श्रुत्वा स जगाम त्वरान्वितः ।।
ददर्श तत्र तल्लिंगमनेकफलदायकम् ।। २७ ।।
लिंगेन च पुनर्दृष्टः शूलः शंकरवल्लभः ।।
संभूतोऽनेकवक्त्रस्तु हर्षाद्विस्मितमानसः ।। २८ ।।
स्नेहात्संश्लेषितोऽत्यर्थं पृष्टस्तु कुशलं पुनः ।।
कथितं तेन शूलेन दुष्टांधक वधं तदा ।। २९ ।।
प्रभुणा प्रेरितोऽत्यर्थं शुद्ध्यर्थं भवतोंतिके ।।
त्वद्दर्शनेन पूतोऽहं यास्यामि शिवसंनिधौ ।।
अद्यप्रभृति भूलोके मन्नाम्ना ख्या तिमेष्यसि ।। 5.2.51.३० ।।
ततो भविष्यत्यधिकं दर्शनात्ते वृणोम्यहम् ।।
किं तीर्थैर्विविधैः स्नातैः किं दानैर्विविधैः कृतैः ।। ३१ ।।
ते प्राप्स्यंति फलं सर्वंं ये त्वां द्रक्ष्यंति भक्तितः ।। ३२ ।।
यः करिष्यति ते पूजां भक्तियुक्तोऽपि मानवः ।।
अष्टम्यां वा चतुर्दश्यां दिने भौमस्य भक्तितः ।। ।। ३३ ।।
विमानवरमास्थाय कामगं रत्नभूषितम् ।।
उदितादित्यसंकाशं स मुदा विचरिष्यति ।। ३४ ।।
त्वन्नाम ये ग्रहीष्यंति सर्वदा भयपीडिताः ।।
व्याधिभिः पीडिता नित्यं दुःखैर्वा क्लेशिता भृशम् ।।
न भविष्यति भीस्तेषां घोरसंसारसागरे ।। ३५ ।।
ये त्वां द्रक्ष्यंति पुरुषा भावहीनाः प्रसंगतः ।।
न पतिष्यंति संसारे नरके चातिदारुणे ।। ३६ ।।
इत्युक्तं तेन शूलेन लिंगमाश्लिष्य यत्नतः ।। ३७ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
शूलेश्वरस्य देवस्य अथोंकारेश्वरं शृणु ।। ३८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये शूलेश्वरमाहात्म्यवर्णनंनामैकपञ्चाशत्तमोऽध्यायः ।। ५१ ।।