स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ४७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

।। श्रीदेवदेव उवाच ।। ।।
सप्ताधिकं विजानीहि नूपुरेश्वरसंज्ञकम् ।।
यस्य दर्शनमात्रेण प्राप्यंते सर्वसिद्धयः ।। ।। १ ।।
पुरा राथन्तरे कल्पे नूपुरोनाम वै गणः ।।
रुद्रभक्तिपरोनित्यं पंचमुद्राविभूषितः ।। २ ।।
स एकदा कुबेरस्य सभायां प्राप्य संस्थितः ।।
द्रष्टुं महोत्सवं तत्र अप्सरोभिः कृतं तदा ।। ३ ।।
ननृतुश्चापरास्तत्र ह्युर्वशी योषितां वरा ।।
रंभा तिलोत्तमा मेना ननृतुर्हर्षसंयुताः ।। ४ ।।
तासां नृत्यं तदा वीक्ष्य नूपुरो गणपस्तदा ।।
कामबाणार्दितो नूनं तासां मध्ये ननर्त्त ह ।। ५ ।।
नृत्यमानस्ततो हृष्टः पुष्पगु च्छेन वक्षसि ।।
उर्वशीं ताडयामास कामबाणप्रपीडितः ।। ६ ।।
उर्वशी तु ततः क्रुद्धा पुष्पगुच्छेन ताडिता ।।
जगाम शरणं देवं धनदं सर्वकामदम् ।। ७ ।।
उवाच धनदस्तत्र क्रोधेनाकुलमानसः ।। ८ ।।
यस्मात्त्वया रंगभंगः कृतः कामार्द्दितेन वै ।।
तस्मात्त्वं मानुषे लोके पतस्व पापपूरुष ।। ९ ।।
कुबेरस्य च शापात्तु जगाम धरणीतलम् ।।
विललाप सुदुःखार्त्तः किं कृतं पापिना मया ।। 5.2.47.१० ।।
विलप्य सुभृशं सोऽथ शरणं परमेश्वरीम् ।।
जगाम मनसा देवि त्वां स वै वरदायिनीम् ।। ११ ।।
त्वं तुष्टा तु तदा जाता प्रत्यक्षा परमेश्वरी ।।
उवाच गणपं प्रीत्या भक्तिनम्रं तदा भुवि ।। १२ ।।
गच्छ पुत्र ममादेशान्महाकालवनं शुभम् ।।
प्राचीसरस्वती तत्र वाप्याकारा च विद्यते ।। १३ ।।
तस्या दक्षिणतो वत्स विद्यते लिंगमुत्तमम् ।।
वाप्यां स्नात्वा च तल्लिंगं समाराधय भक्तितः ।।१४।।
सा प्राची स च देवेशस्त्वन्नाम्ना ख्यातिमेष्यति ।।
इत्युक्तो नूपुरो देवि महाकालवनं गतः ।। १५ ।।
त्वया च प्रेरितो देवि कीर्त्यर्थं तत्र गम्यताम् ।।
इत्युक्तो नूपुरो दिव्यो गणो हृष्टः कृतांजलिः ।। १६ ।।
महाकालवनं रम्यं देवगंधर्वसेवितम् ।।
ददर्श तत्र तल्लिंगं सुरगन्धर्वसेवितम् ।। १७ ।।
प्राची सरस्वती तत्र वाप्याकारा च संस्थिता ।।
तस्यां स्नात्वा ततो देवं पूजयामास नूपुरः ।। १८ ।।
ततो देवः प्रसन्नात्मा प्रत्युवाचाथ नूपुरम्।।
साधु नूपुर भद्रं ते स्वस्ति प्राप्नुहि सर्वदा ।। ।। १९ ।।
भविता वल्लभो देव्याः पार्वत्याः शंकरस्य च ।।
इत्युक्तस्तेन लिंगेन तत्क्षणान्नूपुरः प्रिये ।। 5.2.47.२० ।।
उदितादित्यसंकाशो विभावसुसम द्युतिः ।।
तेजोराशिश्च संजातो दुर्निरीक्ष्यस्त्रिविष्टपैः ।। २१ ।।
प्रभावं तादृशं दृष्ट्वा देवैरुक्तं वरानने ।।
अहो लिंगस्य माहात्म्यं दृश्यतेत्यद्भुतं भुवि ।। २२ ।।
प्राप्ता च कामिकी सिद्धिर्नूपुरेण च दर्शनात् ।।
अतो देवोऽद्यप्रभृति विख्यातो भूतलेऽभवत् ।। २३ ।।
सर्वकामप्रदो नित्यं नूपुरेश्वर नामतः ।।
दर्शनं ये करिष्यंति स्नात्वा वाप्यां समाहिताः ।। २४ ।।
नूपुरेश्वररुद्रस्य ते यांति परमं पदम् ।।
ये च पूजां करिष्यंति भक्तिभावसम न्विताः ।।
वसंति मुदिताः सर्वे यावदाभूतसंप्लवम् ।। २५ ।।
जन्ममृत्युजरारोगदुःखानि विविधानि च ।।
प्रयांति विलयं सद्यः पूजिते नूपुरेश्वरे ।। २६ ।।
वापी गंगासमा सा तु स्वयमेव शुभेक्षणे ।।
संगमस्तु वितस्तायां यमुनायास्तु सुव्रते ।।
प्रयागमेतज्जानीहि भूधरेंद्रांगसंभवे ।। २७ ।।।
सोमतीर्थं तदा देवि सर्वपातकनाशनम् ।।
तत्र स्नात्वा पुमान्देवि वाजपेयफलं लभेत् ।। २८ ।।
कृष्णाष्टम्यां च यः स्नात्वा पूजयेन्नूपुरेश्वरम् ।।
कुलं वै तारयेत्सोपि मातृकं पितृकं शतम् ।। २९ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
नूपुरेश्वरदेवस्य श्रूयतामभयेश्वरम् ।। 5.2.47.३० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये नूपुरेश्वरमाहात्म्यवर्णनंनाम सप्तचत्वारिंशो ऽध्यायः ।। ४७ ।।