स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ४५

विकिस्रोतः तः
Jump to navigation Jump to search

।। श्रीदेवदेव उवाच । ।।
पंचचत्वारिकं विद्धि देवं त्रिलोचनेश्वरम् ।।
यस्य दर्शनमात्रेण सर्वसिद्धिरवाप्यते ।। १ ।।
इतिहासमिहासीद्यत्पीठे विरजसंज्ञके ।।
त्रिलोचनस्य प्रासादे मणिमाणिक्यनिर्मिते ।। २ ।।
नानाभंगिगवाक्षाढ्ये रत्नसानाविवापरे ।।
देदीप्यमानसौवर्णकलशेन विराजिते ।। ।। ३ ।।
पार्वणेन शशांकेन खेदादिव समासिते ।।
तत्र पारावतद्वंद्वं वसत्स्वैरं कृतालयम् ।। ४ ।।
प्रातः सायं च मध्याह्ने कुर्व न्नित्यप्रदक्षिणम् ।।
उड्डीयमानं परितः पक्षवातैरितस्ततः ।। ५ ।।
रजःप्रासादसंलग्नं दूरीकुर्वद्दिशो दश ।।
त्रिलोचनेति सततं नाम भक्तैरुदाहृतम् ।।
त्रिविष्टपेति च तथा तयोः कर्णातिथीभवेत् ।। ६ ।।
चतुर्विधानि वाद्यानि शंभुप्रीतिकराण्यलम् ।।
तयोः कर्णगुहां प्राप्य प्रतिशब्दं प्रतन्वते ।। ७ ।।
मंगलारात्रिकज्योतिस्त्रिसंध्यं पक्षिणोस्तयोः ।।
नेत्रांतं निर्विशन्नित्यं भक्तचेष्टां प्रदर्शयत् ।। ८ ।।
प्राणयात्रां विहायापि कदाचित्स्थिरमानसौ ।।
नोड्डीय वांछितं यातः पश्यंतौ कौतुकं खगौ ।। ९ ।।
तत्रासकृज्जनाकीर्णं प्रासादं परितोऽवनौ ।।
तंडुलादि चरंतौ तौ कुर्वंतौ च प्रदक्षिणम् ।। 5.2.45.१० ।।
देवदक्षिणदिग्भागे विष्णुदेहोद्भवं जलम् ।।
तृषार्त्तौ पिबतो नित्यं स्नात्वा चाजग्मतुश्च तौ ।। ११।।
तयोरित्थं विचरतोस्त्रिलोचनसमीपतः ।।
अगाद्बहुतिथः कालो द्विजयोः साधुचेष्टयोः ।। १२ ।।
अथ देवालयस्कंधे गवाक्षांतर्गतौ च तौ।।
श्येनेन केनचिद्दृष्टौ क्रूरदृष्ट्या सुखं स्थितौ ।। १३ ।।
तच्च पारावतद्वंद्वं श्येनः परिजिघृक्षया ।।
अवतीर्यांबरादाशु उपविष्टः शिवालये ।। १४ ।।
ततो विलोकयामास तदागमविनिर्गमौ ।।
केन मार्गेण विशतो दुर्गमेण पतत्रिणौ ।। १५ ।।
केनाध्वना च निर्यातः किंकाले कुरुतश्च किम् ।।
कथं युगपदेतौ मे ग्राह्यौ स्वैरं भविष्यतः ।। १६ ।।
 दुर्बलोऽप्याकलयितुं सहसारिर्न शक्यते ।।
करिणां च सहस्रेण वराश्वानां च लक्षतः ।। १७ ।।
न कर्म सिद्ध्येन्नृपतेर्दुगेणैकेन यद्भवेत् ।।
दुर्गस्थो नाभिभूयेत विपक्षः केनचित्क्वचित्।।
स्वतंत्रं यदि दुर्गं स्यादपमार्गप्रकाशकम् ।।१८।।
इति दुर्गे बलं शंसञ्छ्येनो रोषारुणेक्षणः ।।
असाध्वसौ कलरवौ वीक्ष्य यातो नभोंगणे ।। १९ ।।
अथ पारावती दक्षा विपक्षक्षपणेक्षणम् ।।
महाबलं दुर्गबलात्प्राह पारा वतं पतिम् ।। 5.2.45.२० ।।
।। कलरव्युवाच ।। ।।
प्रिय पारावत प्राज्ञ सर्वकामसुखारव ।।
तव दृग्विषयं प्राप्तः श्येनोऽयं प्रबलो रिपुः ।। २१ ।।
स च तद्वाक्यमाकर्ण्य पारावत्याश्च सत्पतिः ।।
पारावतीमुवाचेदं का चिंतेति तव प्रिये ।। २२
।। पारावत उवाच ।। ।।
कति नाम न संतीह सुभगे व्योमचारिणः ।।
कति देवालयाद्येषु खगा नोपवसंति हि ।। २३ ।।
कति चैव न पश्यंति नौ सुखस्थाविह प्रिये ।।
तेभ्यो यदीह भेतव्यं कुतो नौ तत्सुखं प्रिये ।। २५ ।।
रम त्वं च मया सार्द्ध त्यज चिंतामिमां शुभे ।।
अस्य श्येनवराकस्य गणनापि न मे हृदि ।।२५।।
इत्थं पारावतवराच्छुत्वा पारावती वचः ।।
मौनमालम्ब्य संतस्थे पत्युः पादार्पितेक्षणा ।। २६ ।।
हितवत्योपदिश्यापि प्रियं प्रियचिकीर्षया ।।
पत्न्या जोषं समास्थेयं कार्यं पत्युर्वचः सदा ।। २७ ।।
अन्येद्युरप्यथायातः श्येनः पश्यन्स दंपती ।।
अपरिच्छिन्नया दृष्ट्या यथा मृत्युर्गतायुषम् ।। २८ ।।
अथ मंडलगत्या स प्रासादं परितो भ्रमन् ।।
प्रोवाच प्रेयसी नाथ दृष्टो दुष्टस्त्वयाऽहितः ।। २९ ।।
तस्या वाक्यं समाकर्ण्य पुनः कलरवोऽब्रवीत् ।।
किं करिष्यत्यसौ मुग्धे मम व्योमविहारिणः ।। 5.2.45.३० ।।
दुर्गं च स्वर्गतुल्यं मे यत्र नास्त्यरितो भयम् ।।
अयं न तां गतिं वेत्ति यां वेदाहं नभोंगणे ।। ३१ ।।
प्रडीनोड्डीनसंडीनकांडव्यांडकपाटिका ।।
स्रंसिनी मंडलवती गतयोऽष्टावुदाहृताः ।। ३२ ।।
यथैतासु हि कौशल्यं मयि वर्त्तति च प्रिये ।।
गतिषु क्वापि कस्यापि पक्षिणो न तथांबरे।।
सुखेन तिष्ठ का चिंचा मयि जीवति ते प्रिये।।३३।।
इति तद्वचनं श्रुत्वा आस्थिता मूकवत्सती।।
अपरेद्युरपि श्येनस्तत्रायातः शिलातले।।
कियदंतरमासाद्य उपविष्टोऽतिहृष्टवत्।।
आयामांते च स स्थित्वा तत्कुलायकुलस्य च।३५।।
पुनः श्येनो विनिर्यातः सापि कांताऽब्रवीत्पुनः।।
प्रिय स्थानमिदं त्याज्यं दुष्टदृष्टिविदूषितम्।।३६।।
असौ क्रूरोऽतिनिकटमुपविष्टोऽतिहृष्टवत्।।
सावज्ञं स पुनः प्राह किं करिष्यत्यसौ प्रिये ।। ३७ ।।
मृगाक्षीणां स्वभावोयं प्रायशो भीरुवृत्तयः ।।
इतरेद्युरपि प्राप्तः स च श्येनो महाबलः ।। ।। ३८ ।।
तयोरभिमुखं तत्र स्थितो यामद्वयावधि ।।
पुनर्विलोक्य तद्वर्त्म शीघ्रं यातो यथागतम् ।। ३९ ।।
गतेथ शकुनौ तस्मिन्सा बभाषे विहंगमम्।।
नाथ स्थानांतरं यावो मृत्युर्वै निकटेऽन्वगात् ।। 5.2.45.४० ।।
पुनर्दृष्टे प्रणष्टः स्यादावासश्च सुखं प्रिय ।।
प्रिय यस्यास्ति पक्षस्य गतिः सर्वत्र सिद्धिदा ।। ४१ ।।
स किं स्वदेशरागेण नाशं प्राप्नोति बुद्धिमान् ।।
सोपसर्गं निजं देशं त्यक्त्वा योन्यं तु न व्रजेत् ।। ४२ ।।
स पंगुर्ना शमाप्नोति कूलस्थित इव द्रुमः ।।
प्रियोदितं निशम्येति स भवित्रीदशार्द्दितः ।। ४३ ।।
तां वाक्यं पुनरप्याह प्रिये मा भैः खगार्दिता ।।
अपरस्मिन्नहनि च स श्येनः प्रातरेव हि ।।४४।।
तद्द्वारदेशमासाद्य सायं यावत्स्थितोऽचलः ।।
अस्ताचलस्य शिखरं याते भानौ गते खगे ।। ४५ ।।
कुलायाद्बाह्यमागत्योवाच पारावती पतिम् ।।
नाथ निर्गमनस्यायं कालः कालोऽस्ति दूरतः ।।४६।।
यावत्तावद्विनिर्याहि त्यक्त्वा मामपि शंसिनीम् ।।
त्वयि जीवति दुष्प्राप्यं न किंचिज्जगतीतले ।। ४७ ।।
पुनर्दाराः पुनः पुत्राः पुनर्वसु पुनर्गृहम् ।।
यद्यात्मारक्षितः पुंसां दारैपि धनैरपि ।। ४८ ।।
तदा सर्वं हरिश्चंद्रभूपतेरिव लभ्यते ।।
अयमात्मा प्रियो बंधुरयमात्मा महद्धनम् ।।४९।।
धर्मार्थकाममोक्षाणामयमात्मार्जकः परः ।।
यावदात्मनि वै क्षेमं ताव त्क्षेमं जगत्त्रये ।।5.2.45.५०।।
सोऽपि क्षेमः सुगतिना यशसा सह वांछ्यते ।।
यशोहीनं तु यत्क्षेमं तक्षेमान्निधनं वरम् ।।५१।।
तद्यशः प्राप्यते पुंभिर्नीतिमार्गं प्रवर्तिभिः ।।
अतो नीतिपथं चिंत्यं नाथ स्थानादितो व्रज।।
न व्रजिष्यसि चेत्प्रातस्ततो मां संस्मरिष्यसि ।।५२।।
इत्युक्तोऽपि स वै पत्न्या पारावत्या सुमेधया ।।
न निर्ययौ ततः स्थानाद्भवित्र्या प्रतिवारितः ।।५३।।
अथोषसि समागत्य श्येनेन बलिना तदा ।।
निर्गमद्वारमारुद्धं किंचिद्भक्ष्य वता तदा ।। ५४ ।।
दिनानि कतिचित्तत्रातिष्ठच्छयेनो महाबलः ।।
पारावतमुवाचेदं धिक्त्वा पौरुषवर्जितम् ।। ५५ ।।
किं वा युध्यस्व दुर्बुद्धे किं वा निर्याहि मे गिरा ।।
क्षुधाक्षीणो मृतः पश्चान्निरयं पश्यसि धुवम् ।।
विधिरेव हि साहाय्यं न कुर्यात्तव नोदितम् ।। ५६ ।।
इत्थं श्येनेन स प्रोक्तः पत्न्या स सहितः खगः ।।
अयुध्यत्तेन श्येनेन स्वदुर्गद्वारमाश्रितः ।। ५७ ।।
क्षुधितस्तृषितः सोऽथ श्येनेन बलिना धृतः ।।
चरणेन दृढेनाशु चंच्वा सापि धृता खगी ।। ५८ ।।
तावादायोड्डयांचक्रे श्येनो व्योमनि सत्वरम् ।।
चिंतयन्भक्षणस्थानमन्यत्पक्षिविवर्जितम् ।। ५९ ।।
अथ पत्न्या कलरवः प्रोक्तस्तत्र सुमेधया।।
यतोऽवमानिता नाथ त्वयाहं स्त्रीति बुद्धितः।।5.2.45.६०।।
अतोऽवस्थामिमां प्राप्तः किं कुर्यामबला यतः।।
अधुनापि वचश्चैकं करोषि यदि मे प्रिय ।। ६१ ।।
तदा हितं ते वक्ष्यामि कुर्वे तदविचारितम् ।।
ममैकवाक्यकरणात्स्त्रीजितो न भविष्यसि ।। ६२ ।।
यावदास्यं गतास्म्यस्य यावत्खस्थो न भूमिगः ।।
तावदात्मविमुक्त्यै त्वं चंच्वा पादं दृढं दश ।। ६३ ।।
इति पत्नीवचः श्रुत्वा तथा स कृतवान्खगः ।।
स पीडितो दृढं पादे श्येनश्चीत्कृतवान्बहु ।। ६४ ।।
तेन चीत्करणेनाथ मुक्ता सा मुखसंपुटात ।।
पादांगुलीनां शून्यत्वे सोऽपि पारावतोऽपतत् ।। ।। ६५ ।।
विपद्यपि च प्राज्ञैर्न संत्याज्यः क्वचिदुद्यमः ।।
क्व च चंचुपुटस्तस्य क्व च तत्पादपीडनम् ।।६६।।
क्व च द्वयोस्तथाभूतं दूरे मोक्षणमद्भुतम्।।
दुर्बलेऽप्युद्यमः श्रेयानिति शास्त्रेषु गीयते ।। ६७ ।।
तस्माद्भाग्यानुसारेण फलत्येव सदोद्यमः ।।
प्रशंसंत्युद्यमं चातो विपद्यपि मनीषिणः ।। ६८ ।। ।
अथ तौ कालयोगेन जंबूमार्गे मृतौ तदा ।।
जंबूमार्गे मृता ये वै तेषां स्वर्गः सदाऽक्षयः ।। ६९ ।।
पुण्यशेषे तदा जातो गंधर्वतनयः शुभः ।।
मंदारदामतनयो नाम्ना परिमलालयः ।। 5.2.45.७० ।।
अनेकविद्यानिलयः कलाकौशलभाजनम् ।।
कौमारं वपुरासाद्य शिवभक्तिपरोऽभवत् ।। ७१ ।।
नियमं चापि जग्राह विजितेद्रियमानसः ।।।
एकपत्नीव्रतं नित्यं चरिष्यामीति निश्चितम् ।। ७२ ।।
परयोषित्समासक्तिरायुः कीर्तिं र्बलं सुखम् ।।
हरेत्स्वर्गगतिं चापि तस्मात्तां वर्जयेत्सुधीः ।। ७३ ।।
अपरं चापि नियमं स शुचिष्मान्समाददे ।।
गतजन्मांतराभ्यासाविलोचनसमाश्रयात् ।।७४।। ।
समस्तपुण्यनिलयः समस्तार्थप्रकाशकः ।।
समस्तकामजनकं परानंदैककारणम् ।। ७५ ।।
यावच्छरीरं निरुजं यावन्नेद्रियविप्लवः ।।
तावत्त्रिलोचनोवंत्यां मंतव्यो नात्र संशयः ।। ७६ ।।
इत्थं मंदारदामिः स काश्यां परिमलालयः ।।
नित्यं त्रिविष्टपं द्रष्टुं समागच्छेत्प्रयत्नतः ।।७७।।
पारावत्यपि संजाता रत्नदीपस्य मंदिरे ।।
नागराजस्य पाताले नाम्ना रत्नावलीति च ।। ७८ ।।
समस्तनागकन्यानां रूपशीलकलागुणैः ।।
एकैव रत्नभूताऽऽसीद्रत्न दीपोरगात्मजा ।। ७९ ।।
तस्याः सखीद्वयं चासीदेका नाम्ना प्रभावती ।।
कलावती तथान्या च नित्यं तदनुगे शुभे ।। 5.2.45.८० ।।
स्वदेहादनपायिन्यौ छायाकांती यथा तथा ।।
पूर्वे सख्यौ भवेतां हि रत्नावल्या महेश्वरि ।। ८१ ।।
सा तु बाल्ये व्यतिक्रांते किंचिदुद्भिन्नयौवना ।।
शिवभक्तं स्व पितरं दृष्ट्वा नियममग्रहीत् ।। ८२ ।।
पितस्त्रिलोचनं काश्यामर्चयित्वा दिनेदिने ।।
आभ्यां सखीभ्यां सहिता मौनं त्यक्ष्यामि नान्यथा ।। ।। ८३ ।।
एवं नागकुमारी सा सखीद्वयसमन्विता ।।
त्रिलोचनं समभ्यर्च्य गृहानहरहर्व्रजत् ।। ८४ ।।
मां प्रत्यग्रैः सुकुसुमैः सुशुभैरि ष्टगंधिभिः ।।
सुविचित्राणि माल्यानि परिगुंफ्यार्चयेद्विभुम् ।। ८५ ।।
तिस्रोऽपि गीतं गायंति ललितं चैव सुस्वरम् ।।
नारीमंडलभेदेन लास्यं तिस्रोऽपि र्वते ।। ८६ ।।
वीणावेणुमृदंगांश्च लयतालविचक्षणाः ।।
वादयंति मुदायुक्तास्तिस्रोऽपि विरमंति वै ।। ८७ ।।
इत्थमाराधयंतीशं तिस्रो नागकुमारिकाः ।।
विचित्रभंगीमालाभिरर्चयंत्यस्त्रिलोचनम् ।। ८८ ।।
प्रातश्चतुर्थ्यां ताः स्नात्वा तीर्थे पिलिपिले शुभे ।।
त्रिलोचनं समर्च्याथ प्रसुप्ता रंगमण्डपे ।। ८९ ।।
सुप्तासु तासु स शिवस्त्रिनेत्रः शशिभूषणः ।।
वामार्द्धविलसच्छक्तिर्नागयज्ञोपवीतकः ।। 5.2.45.९० ।।
लिंगादेव हि निर्गत्य गंगापन्नगमेखलः ।।
प्रत्युवाच ततः कन्या विभुरुत्तिष्ठतेति सः ।। ९१ ।।
उत्थाय ता विनिर्मथ्य लोचने श्रुतिसंगमे ।।
अंगमोटनवत्यश्च तदा निर्घूर्णितेक्षणाः ।। ९२ ।।
यावत्पश्यंति पुरतः संभ्रमापन्नमानसाः ।।
अतर्कितागमस्तावत्ताभिर्दृष्टस्त्रिलोचनः ।। ९३ ।।
ववंदिरेऽथ ता बाला ज्ञात्वा लक्ष्मभिरीश्वरम् ।।
तुष्टुवुश्च प्रहृष्टास्ताः सन्नकंठ्योऽतिविक्लवम् ।। ९४ ।।
जय शंभो जयेशान जय सर्वग सर्वद ।।
जय त्रिपुरसंहर्तर्जयांधकनिषूदन ।। ९५ ।।
जय जालंधरहर जय कंदर्पदर्पहृत् ।।
जय त्रैलोक्यजनक जय त्रैलोक्यवंदित ।।
जय भक्तजनाधीश जय प्रमथ नायक ।। ९६ ।।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः ।।
त्रिलोचन नमस्तुभ्यं त्रिविष्टप नमोऽस्तु ते ।। ९७ ।।
इत्युक्त्वा दंडवद्भूमौ प्रणिपेतुः कुमारिकाः ।।
अथोत्थाप्य कुमारीस्ताः प्रोवाच शशिभूषणः ।। ९८ ।।
सुतो मंदारदाम्नश्च नाम्ना परिमलालयः ।।
पतिर्विद्याधरवरो भवतीनां भविष्यति ।। ९९ ।।
चिरं विद्याधरे लोके भोगान्भुक्त्वा समंततः ।।
ततो ह्यवंतिकां प्राप्य मां ध्यात्वा सिद्धिमाप्स्यथ ।। 5.2.45.१०० ।।
जन्मांतरेपि मे भक्तिर्भवतीभिश्च तेन च ।।
विहिता तेन वो जन्म निर्मलं भक्तिभावितम् ।। १०१ ।।
एतत्प्रभावतीस्तोत्रं ये पठिष्यंति मे पुरः ।।
तेभ्यः कामान्प्रदास्यामि भवतीनामयं वरः ।। १०२ ।।
इत्युक्तवति देवेशे ताः कन्या हृष्टमानसाः ।।
प्रणम्य प्रोचुरीशानं प्रबद्धकरसंपुटाः ।। १०३ ।। ।।
।। नागकन्या ऊचुः ।।
पृच्छामो ब्रूहि नो नाथ करुणाकर शंकर ।।
जन्मांतरे कथं सेवा चतुर्भिर्भवतः कृता ।। १०४ ।।
ततः प्राक्तनवृत्तांत मेतस्यापि कृतात्मनः ।।
अस्माकमपि चाख्याहि कृपां कुरु कृपानिधे ।। १०५ ।।
इति श्रुत्वा प्रणयतो बालोदीरितमीप्सितम् ।।
प्रोवाच तासामपि च भवांतरविचेष्टितम् ।। १०६ ।।
।। ईश्वर उवाच ।। ।।
शृणुध्वं नागतनयास्तिस्रोपि हि समाहिताः ।।
प्राग्भवं भवतीनां च तस्यापि कथयाम्यहम् ।।१०७।।
एषा रत्नावली पूर्वमासीत्पारावती खगी ।।
स च विद्याधरवरः पतिरस्याः खगोऽभवत् ।।१०८।।
प्रासादे च ममैताभ्यामुषितं सुचिरं सुखम्।।
रजः प्रासादसंलग्नं नुन्नं पक्षानिलैः पुनः ।। १०९ ।।
उपरिष्टादधस्ताच्च कृता भूरिप्रदक्षिणाः ।।
व्योम्नि संचरमाणाभ्यां संचीर्णं च ममाजिरे ।। 5.2.45.११० ।।
स्नातं चतुर्नदे तीर्थे पीतं तत्रांबु चासकृत् ।।
आभ्यां कलरवाभ्यां च कृताः कलरवा मुदा ।। १११ ।।
एताभ्यां स्थिरचित्ताभ्यां मुदिता त्वमतीव हि ।।
दृष्ट्वा हि कौतुकान्यत्र मम भक्तैः कृतान्यपि ।। ११२ ।।
अमूभ्यां बहुशो दृष्टा मम मंगलदीपिकाः ।।
पीतं श्रुतिपुटाभ्यां च मम नामाक्षरामृतम् ।।
तिर्यग्योनिप्रभावेन न मृतौ मम संनिधौ ।।११३।।
जंबूमार्गे मृतौ यस्मात्स्वर्गप्राप्तिकरे ध्रुवम् ।।
तस्मात्पारावती ह्येषा रत्नदीपसुताऽभवत् ।। ११४ ।।
पतिः पारावतोऽस्याश्च जातो विद्याधरांगजः ।।
एषा प्रभावती नागी नागराजस्य सद्मनि ।।
इह जन्मनि कन्यासीत्पूर्वजन्म ब्रवीमि च ।। ११५ ।।
त्रिशिखस्योरगेंद्रस्य सुता चेयं कलावती ।।
एतस्या अपि वृत्तांतं निशामय तु वच्म्यहम् ।। ।।११६ ।।
भवांतरे तृतीयेतः कन्ये चारायणस्य च ।।
आस्तां महर्षेः शीलाढ्ये प्रेमवत्यौ परस्परम् ।। ११७ ।।
पित्रा चारायणेनापि ताभ्यां संप्रेरितेन वै ।।
आमुष्यायणपुत्राय दत्ते नारायणाय हि ।। ११८ ।।
अप्राप्तयौवनोरण्ये समिदाहरणाय वै ।।
गतो विधिवशाद्दष्टो दंदशूकेन कानने ।। ११९ ।।
भवानीगौतमीनाम्न्यौ ते तु चारायणांगजे ।।
वैधव्यदुःखमापन्ने दैन्यग्रस्ते बभूवतुः ।। 5.2.45.१२० ।।
अत एव प्रयत्नेन परिणेता विवर्जयेत ।।
देवतासरिदाह्वानकन्यापाणिग्रहं सुधीः ।। १२१ ।।
अथर्षेः कस्यचिद्दैवादाश्रमे देवसन्निभे ।।
रंभाफलान्यदत्तानि मोहाज्जग्रहतुस्तदा ।। ।। १२२ ।।
कृत्वा नानोपवासादिव्रतानि ब्राह्मणांगजे ।।
अध्यास्य निधनं कालाच्छाखामृग्यौ बभूवतुः ।। १२३ ।।
फलचौर्यविपाकेन वानर त्वं तयोरभूत् ।।
शीलरक्षणभावेनावंत्यां जनिमवापतुः ।। १२४ ।।
स च नारायणो विप्रः पितृशुश्रूषणे रतः ।।
दष्टोऽपि दंदशूकेन काश्यां पारावतो भवत ।। १२५ ।।
एवं भवांतरे चासीदेतयोः पतिरेव सः ।।
तिसृणां भवतीनां च भावी भर्ता पुनः स वै ।। १२६ ।।
प्रासादस्यापि पार्श्वे तु न्यग्रोधश्च महानगः ।।
तस्मिञ्छाखिनि वासाढ्ये शाखामृग्यो बभूवतुः ।। १२७ ।।
विष्णुदेहजले तीर्थे क्रीडया च ममज्जतुः ।।
पपतुश्चापि पानीयं तस्मिंस्तीर्थे तृषातुरे ।। १२८ ।।
जातिस्वभावचापल्यात्कीडंत्यौ च प्रदक्षिणम् ।।
चक्रतुर्बहुकृत्वश्च लिंगं ददृश तुर्बहु ।। १२९ ।।
विचरंत्यावितः स्वैरं तत्र न्यग्रोधसंनिधौ ।।
केनचिद्योगवेषेण पाशेन च नियंत्रिते ।।5.2.45.१३०।।
भिक्षार्थं शिक्षिते तेन न प्लुतिर्न निवर्त्तनम् ।।
अथ ते क्वापि मर्कट्यौ कालधर्मवशंगते ।। १३१ ।।
अवन्तीवासपुण्येन त्रिलोचनस्य सेवया ।।
प्रादक्षिण्यानुरूपेण जाते नागसुते अपि ।। १३२ ।।
अधुना तं पतिं प्राप्य विद्याधरकुमारकम् ।।
निर्विश्य स्वर्गभोगांश्चावंत्यां निर्वृतिमाप्स्य ।। १३३ ।।
यैरल्पमपि चावंत्या कृतं कर्म शुभावहम् ।।
तस्य मोक्षः परीपाको निश्चितं मदनुग्रहात् ।।
त्रैलोक्येऽपि च सर्वस्मिञ्छ्रेष्ठाऽवन्तीपुरी सदा ।। १३४ ।।
ततोऽपि लिंगमोंकारं ततोऽप्यत्र त्रिलोचनम् ।।
तिष्ठगानोऽत्र लिंगेऽहं भुक्तिं मुक्तिं ददामि वै ।। १३५ ।।
अतः सर्वप्रयत्नेनावन्त्यां पूज्यस्त्रिलोचनः ।।
इत्युक्त्वा देवदेवेशस्तत्प्रासादांतरेऽविशत् ।।१३६।।
लिंगस्वरूपमासाद्य शुभं त्रिभुवनादपि ।।
ताश्च स्वसदनं प्राप्य तद्वृत्तांतमशेषतः ।।
स्वमातुः पुरतश्चोक्त्वा कृतकृत्या इवाभवन् ।। १३७ ।।
एकदा माधवे मासि सह सार्थाः समागताः ।।
विद्याधरास्तथा नागा मिलिताः सपरिच्छदाः ।। १३८ ।।
विरजस्के महाक्षेत्रे त्रिलोचनसमीपतः ।।
देवस्य वरदानाच्च पृष्ट्वान्योन्यं कुलावलिम् ।। १३९ ।।
विद्याधराय ताः कन्या नागैस्तिस्रोऽपि कल्पिताः ।।
मंदारदामा सन्तुष्टः प्राप्य तच्च स्नुशत्रयम् ।।5.2.45.१४०।।
रत्नदीपैश्च नागेन्द्रः पद्मी च भुजगेश्वरः ।।
विशिखोऽपि फणींद्रश्च हृष्टा एते त्रयोऽपि च ।।
जामातरं समासाद्य शुभं परिमलालयम् ।। १४१ ।।
अन्योऽन्यं स्वजनास्ते तु मुदा विकसितेक्षणाः ।।
विवाहोत्सवमारच्य स्वंस्वं भवनमाविशन् ।। १४२ ।।
त्रिलोचनस्य लिंगस्य वर्णयंतोऽपि गौरवम् ।।
स च विद्याधरः श्रीमान्नागीभिर्विपुलं सुखम् ।।
भुक्त्वावन्तीं ततः प्राप्य संसेव्य च त्रिलोचनम् ।। १४३ ।।
गायन्गीतं सुमधुरं नागीभिः सहितः कृती ।।
आत्मानं चातिविस्मृत्य मध्येलिंगं लयं गतः ।। १४४ ।।
त्रिलोचनस्य महिमा कलौ देवेन गोपितः ।।
ततोल्पसत्त्वा मनुजा न तल्लिमगमुपासते ।। १४५ ।।
त्रिलोचनकथामेतां श्रुत्वा पापान्वितोऽप्यहो ।।
विपापो जायते मर्त्यो लभते च परां गतिम् ।। १४६ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
त्रिलोचनस्य देवस्य शृणु वीरेश्वरं परम् ।। ।। १४७ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये त्रिलोचनमाहात्म्यवर्णनंनाम पंचचत्वारिंशोऽध्यायः ।। ४५ ।।