स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ४३

विकिस्रोतः तः
Jump to navigation Jump to search

।। श्रीशिव उवाच ।। ।।
चत्वारिंशत्तमं विद्धि त्र्यधिकं पर्वतात्मजे ।।
यस्य दर्शनमात्रेण जायते सर्वसंपदः ।। १ ।।
आदिकल्पे पुरा जातो वक्रांगो लोहितच्छविः ।।
रौद्रस्त्वंगारसदृशो मम गात्राद्वरानने ।।
मया धृतो धरण्यां स विख्यातो भूमिपुत्रकः ।। २ ।।
जातमात्रे सुते तस्मिन्महाकाये भयावहे ।।
कंपिता धरणी देवी देवास्त्रस्ताः सवासवाः ।। ३ ।।
क्षोभं गताः समुद्राश्च चेलुश्च धरणीधराः ।।
तेनैव पीडितं सर्वं सदेवासुरमानुषम् ।। ४ ।।
ऋषयो वालखिल्याश्च देवाः शक्रपुरोगमाः ।।
बृहस्पतिं पुरस्कृत्य ब्रह्मलोकं गताः प्रिये ।। ५ ।।
सोच्छ्वाँसाः कथयामासुर्नमस्कृत्य पितामहम् ।।
वृत्तांतं विस्तरात्सर्वं लोकत्रयविनाशनम् ।। ६ ।।
हरगात्रोद्भवेनैव जातमात्रेण लीलया ।।
लोकत्रयं समाक्रांतं पीडितं भक्षितं तथा ।। ७ ।।
तच्छ्रुत्वा वचनं तेषां ब्रह्मा लोकपितामहः ।।
चिंतयित्वा तु तैः सार्द्धमाजगाम ममांतिकम् ।। ८ ।।
मया पृष्टास्तु ते सर्वे किमर्थं भयविह्वलाः ।।
सोच्छ्वासहृदया दीनाः कस्माद्वो भयमागतम् ।। ९ ।।
तैः सर्वं कथितं देवि ममाग्रे भयविह्वलैः ।।
त्वदंगसंभवेनैव देवदेव जगत्पते ।।
पीडितं भक्षितं चैव सदेवासुरमानवम् ।। 5.2.43.१० ।।
इति तेषां वचः श्रुत्वा क्षेमार्थं कृपया मया ।।
आकारितो मत्समीपमुवाच वदतां वरः ।। ११ ।।
आदेशो दीयतां देव किं करोमीत्युवाच सः ।।
नाकर्ष त्वं जगदिदं मया प्रोक्तः पुनःपुनः ।। १२ ।।
ममांगाद्रजसा जातस्तेनांगारक उच्यसे ।।
लोकानां स्वस्तये नित्यं मंगलोसि मया कृतः ।। १३ ।।
इदानीं वक्रतां यातो वक्रस्त्वं गीयसे बुधैः ।।
विज्ञप्तोऽहं तदा तेन मम वाक्यं श्रुतं यदा ।।
आहारेण विना देव कथं तृप्तिर्भविष्यति ।। १४ ।।
तस्मान्मे देहि सुस्थानमाधिपत्यं च देहि मे ।।
शक्तिं च देहि मे शीघ्रमाहारं देहि मे प्रभो ।। १५ ।।
तस्य तद्वचनं श्रुत्वा पुत्रोऽयं मम वल्लभः ।।
तस्माद्दास्यामि परमं स्थानमक्षयमुत्तमम् ।। १६ ।।
इति संचिन्त्य मनसा स्मृतं स्थानं मयोत्तमम् ।।
उत्संगे च सुतं कृत्वा प्रेम्णा प्रोक्तं पुनःपुनः ।। १७ ।।
दत्तं पुत्र मया स्थानं महाकालवनोत्तमे ।।
गंगेश्वरस्य पूर्वे तु प्रशस्यं स्थानमुत्तमम् ।। १८ ।।
खगर्ता चैव शिप्रा च संगमस्तत्र विद्यते ।। १९ ।।
यदा मया धृता गंगा तदा सा चन्द्रमण्डलात् ।।
प्रमादात्पतिता भूमौ महाकालवनोत्तमे ।। 5.2.43.२० ।।
खगर्तेति च विख्याता खाद्भ्रष्टा प्रापतत्क्षितौ ।।
अतो मयावतारस्तु सहसा तव वै कृतः ।। २१ ।।
लिंगमूर्तिरहं पुत्र तिष्ठामि सुरपूजितः ।।
तत्स्थानं दुर्लभं देवैस्तस्मात्त्वं गच्छ सत्वरम् ।। २२ ।।
पूजितोऽहं त्वया तत्र संगमे लोकपूजिते ।।
त्रिषु लोकेषु यास्यामि ख्यातिं वै तव नामतः ।। २३ ।।
मध्ये ग्रहाणां सर्वेषामाधिपत्यं मया तव ।।
दत्तं तृतीयकं स्थानं तत्र तृप्तिर्भविष्यति ।। २४ ।।
पूजां प्राप्स्यसि तत्रैव ग्रहमध्ये व्यवस्थितः ।।
तिथिर्दत्ता चतुर्थी ते तस्यां ये व्रततत्पराः ।। ।। २५।।
त्वामुद्दिश्य करिष्यंति पूजां शांतिं सदक्षिणाम् ।।
तेन सर्वेण ते तृप्तिर्भविष्यति न संशयः ।। २६ ।।
वारश्चैकश्च ते दत्तो मंगलार्थं मया तव ।।
नववस्त्रपरीधानं विद्यारंभं दिने तव ।।
तैलाभ्यंगं करिष्यंति न च प्राप्स्यंति ते बलम् ।। २७ ।।
इत्युक्तस्तु मया देवि वक्रांगो मंगलः सुतः ।।
अंगारकेति विख्यातस्तथेत्यंगीचकार सः ।। २८ ।।
सन्तुष्टस्तेन वाक्येन मदीयेन वरानने ।।
आजगाम मुदा युक्तो महाकालवनोत्तमे ।। २९ ।।
शिप्रायाश्च तटे रम्ये खगर्त्तासंगमांतिकम् ।।
दृष्टोऽहं लिंगरूपेण परां तुष्टिमुपागतः ।। ।। 5.2.43.३० ।।
मया चालिंगितः प्रेम्णा चुम्बितः शिरसि प्रिये ।।
वरो दत्तो विशालाक्षि वांछितं ते भविष्यति ।। ३१ ।।
दृष्टोऽहं च त्वया पुत्र भक्त्या चाराधितस्त्वया ।।
मम वाक्यं कृतं यस्मात्तस्मात्तुष्टोऽस्मि मंगल ।। ३२ ।।
अंगारेश्वरनामाहमद्यप्रभृति पुत्रक ।।
त्रिषु लोकेषु विख्या तो भविष्यामि न संशयः ।। ३३ ।।
ये मां पश्यंति सततं संगमेऽत्र व्यवस्थितम् ।।
न तेषां पुनरावृत्तिर्भविष्यति महीतले ।। ३४ ।।
ये मां संपूज यिष्यंति ह्यंगारकदिने नराः ।।
कलौ युगे कृतार्थास्ते भविष्यंति न संशयः ।। ३५ ।।
चतुर्थ्यां मंगलदिने ये मां पश्यंति सुव्रताः ।।
न ते यास्यंति संसारे घोरे दुःखशताकुले ।। ३६ ।।
अमावास्या च भौमश्च संयोगो दृश्यते यदा ।।
खगर्त्तायाश्च शिप्रायाः संगमे देवपूजिते ।। ३७ ।।
स्नात्वा तदा प्रपश्यंति मामत्रैव व्यवस्थितम् ।।
तेषां पुण्यफलं देवि समासाच्छृणु सांप्रतम् ।। ३८ ।।
वाराणस्यां प्रयागे च कुरुक्षेत्रे च यत्फलम् ।।
गयायां पुष्करे प्रोक्तं तत्पुण्यमधिकं भवेत् ।। ३९ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
अंगारेश्वरदेवस्य श्रूयतामुत्तरेश्वरम्।। 5.2.43.४० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्येंऽगारकेश्वरमाहात्म्यवर्णनंनाम त्रिचत्वारिंशोऽध्यायः ।।४३।। ।।