स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ३९

विकिस्रोतः तः

।। हर उवाच ।। ।।
अक्रूरेश्वरमेकोनचत्वारिंशत्तमं शृणु ।।
यस्य दर्शनमात्रेण सुबुद्धिर्जायते नृणाम् ।। १ ।।
पुरा त्वयैव कल्पादौ परया शक्तिरूपया ।।
कृतं कृत्स्नं वरारोहे त्रैलोक्यं सचराचरम् ।। २ ।।
ततस्त्वं संस्तुता देवैः सकिंनरमहोरगैः ।।
प्रदक्षिणां प्रकुर्वति गणा नानाविधास्तु ते ।। ३ ।।
नमस्कारं प्रकुर्वति स्तोत्रं कुर्वंति चापरे ।।
न करोति नमस्कारमेको भृंगिरिटिस्तदा ।। ४ ।।
क्रूरां बुद्धिं समासाद्य गर्वेणतीव गर्वितः ।। ५ ।।
एको देवो महादेवः स्त्रिया किमनया मम ।।
यदा नायाति ते पार्श्वं तदा प्रोक्तस्त्वया गतः ।। ६ ।।
कस्मान्न कुरुषे पूजां प्रदक्षिणमथो स्तुतिम् ।।
मद्भक्तो मदधीनोऽसि मम पुत्रो मया कृतः ।।
इत्थंभूतगणेश त्वं किं वै लौल्येन वर्त्तसे ।। ७ ।।
इति भृंगिरिटिः श्रुत्वा कुद्धस्त्वामाह गर्वितः ।।
नाहं पार्वति ते पुत्रः पुत्रोऽहं शंकरस्य तु ।। ८ ।।
एष एव च मे माता एष एव च मे पिता ।।
एवं रात्रिदिनं यामि शरणं परमेष्ठिनम् ।।९।।
त्वमप्यस्यैव शरणं ननु पार्वति संस्थिता।।
यदि च त्वामहं वंदे तद्वंदे सकलान्गणान् ।।5.2.39.१०।।
इति भृंगिरिटेः श्रुत्वा वाक्यं कुपितया त्वया ।।
तस्योक्तं प्रमथेशस्य भीरु भृंगिरिटेरिदम् ।।११।।
सुतो भूत्वा भवान्कस्माददाक्षिण्यं ब्रवीषि माम् ।।
त्वङ्मांसशोणितांत्रं च मातृकं तनयस्य तु ।। १२ ।।
नखदंतास्थिसंघातः शिश्नं वाक्च शिरस्तथा ।।
तथैव शुक्रं गणप पैतृकं तु शरीरकम् ।। १३ ।।
इति भृंगिरिटिः श्रुत्वा सद्यो योगबलेन तु ।।
मांसादि त्यक्तवान्सर्वं मातृकं भागमेव हि ।। १४ ।।
ततः प्रभृति वामोरु नखदंतास्थिनासिकः ।।
स च क्रूरां मतिं कृत्वा क्रोधसंरक्तलोचनः।। ।। १५ ।।
त्वां परित्यज्य दुःखार्त्त आजगाम ममांतिकम् ।।
अथ त्वया तदा शप्तो गणो भृंगिरिटिः प्रिये ।। १६ ।।
क्रूरा बुद्धिः कृता यस्मात्त्वया कुमतिना भृशम् ।।
तस्मात्त्वं मानुषे लोके गमिष्यसि न संशयः ।। १७ ।।
इत्युक्तस्तु त्वया देवि गणो भृंगिरिटिस्तथा ।।
पपात मानुषं लोकं पुण्यांते सुकृती यथा ।। १८ ।।
स गत्वा पुष्करद्वीपं तपसे भावितात्मवान् ।।
तत्रैकपादूर्द्ध्वभुजो दशपद्मान्यवस्थितः ।।
दग्धीभूतं च तपसा जगद्वै दुष्करेण तु ।। १९ ।।
ततो ब्रह्मा च विष्णुश्च शक्रश्च त्रिदशैः सह ।।
वयं च चारुजघने तत्समीपं समागतः ।। 5.2.39.२० ।।
उपगम्य ततस्तस्य कथितं पुरतो मया ।।
अलं क्रूरेण तपसा लोकस्योत्सादनेन वै ।। २१ ।।
त्रैलोक्यमपि निःसंज्ञं जातमेवं स्थिते त्वयि ।।
संहरस्व तपो घोरं लोकसंतापनं महत्।।२२।।
प्रार्थ्यतां पार्वती पुत्र सा दास्यति वरं च ते।।
अस्याः प्रसादान्मुक्तिस्ते शापाच्चैव भविष्यति ।।
एवमुक्तस्तदा तेन प्रार्थिता त्वं महेश्वरि ।।
गणेन भृंगिरिटिना भक्तिनम्रेण सादरात् ।। २४ ।।
त्वया प्रोक्तं विशालाक्षि पुत्र गच्छ ममाज्ञया ।।
महाकालवने रम्ये तत्राऽक्रूरो भविष्यसि ।। २५ ।।
पुनः प्राप्स्यसि कैलासं सिद्धगंधर्वसेवितम्।।
अंकपादाग्रतो लिंगं सप्तकल्पानुगं महत् ।।
यस्य दर्शनमात्रेण शुभा बुद्धिः प्रजायते ।। २६ ।।
कृतघ्ना नास्तिकाः क्रूरा ये च विश्वासघातकाः ।।
महापातकिनो ये च ये च शापवशं गताः ।।
दर्शनात्तस्य लिंगस्य तेऽपि स्वर्ग भुजो नराः ।। २७ ।।
क्रूरां बुद्धिं समासाद्य कंसं हत्वा च केशिहा ।।
बलदेवेन सहितस्त्यक्त्वा तां मथुरां पुरीम् ।। २८ ।।
महाकालवनं गत्वा तोष यित्वा महेश्वरम्।।
अक्रूरत्वं च संप्राप्तं कीर्त्तिर्लब्धा च शाश्वती ।। २९ ।।
त्वदीयं वचनं श्रुत्वा गणो भृंगिरिटिस्तदा ।।
तथेति प्रत्ययी जातो महा कालवनं गतः ।।
देवमाराधयामास तपसा दुष्करेण तु ।। 5.2.39.३० ।।
एतस्मिन्नंतरे देवि लिंगमध्यात्त्वमुत्थिता ।।
अर्द्धांगं मामकं कृत्वा स्वकीयांगमथा र्द्धतः ।।
फणींद्रबद्धजूटार्द्धमर्द्धधमिल्लभूषितम्।। ३१ ।।
पत्रवल्लीविचित्रार्धमर्द्धचंद्रविराजितम् ।।
मुक्ताहारनिबद्धार्द्धमर्द्धं सर्पैश्च वेष्टितम् ।। ३२ ।।
ततो भृंगिरिटिर्देवि दृष्ट्वा तन्महदद्रुतम् ।।
चिंतयामास हृदये मयाऽज्ञानादनुष्ठितम् ।। ३३ ।।
उमा च शंकरश्चैव देहमेकं सनातनम् ।।
एका मूर्त्तिरनिर्देश्या द्विधा भेदेन दृश्यते ।। ३४ ।।
एवं चिंतयतस्तस्य भक्तिनम्रस्य पार्व्वति ।।
प्रोक्तं त्वया प्रसन्नाहं वरं वरय पुत्रक ।। ३५ ।।
तेनोक्तं यदि तुष्टासि मातर्मम महेश्वरि ।।
अस्य लिंगस्य माहात्म्यात्क्रूरा बुद्धिर्गता मम ।। ३६ ।।
अक्रूरेश्वरनामायं देवः ख्यातो भवत्विति ।।
त्वं देवि सर्वभावानामेका कारणमुच्यते ।।३७।।
त्वं मूर्ता पुण्यनिचया त्वं गतिः पुण्यसेविनाम्।।
पिता माता सुहृद्बन्धुस्त्वमेका कारणं परम् ।। ३८ ।।
कुरु पुण्यतमं स्थानं ब्रह्महत्यादिनाशनम् ।।
भुक्तिदं मुक्तिदं चैव वांछितार्थप्रदायकम्।। ३९ ।।
तथेति च त्वया प्रोक्तं गिरा मधुरया तदा ।।
यत्ते प्रियतमं वत्स तत्पूर्वं प्रकरोम्यहम् ।। 5.2.39.४० ।।
न मेऽस्ति दुष्करं पुत्र त्वत्कृते कनकप्रभ ।।
अस्मिन्स्थाने तु ये देवमकूरेश्वरसंज्ञकम् ।।
प्रसंगादपि पश्यंति अपि पापरता नराः ।।
तेऽप्यवश्यं भविष्यंति त्वत्समा नियतं गणाः ।।४१।।
भक्त्या स्तोष्यंति ये नाम लिंगस्यास्य च मानवाः ।।
मानसैः पातकैर्मुक्ता यास्यंति स्वर्गमक्षयम् ।।४२।।
स्नात्वा तु विधिवत्पूजां यः करिष्यति मानवः।।
स मुक्तः पातकैः सर्वैः प्राप्स्यते रविमंडलम् ।।४३।।
आयुरारोग्यमैश्वर्यं काममत्र हि वांछितम् ।।
गोसहस्रफलं चात्र स्पृष्ट्वा प्राप्स्यति मानवः ।।४४।।
स्नात्वा मंदाकिनीकुंडे योऽकूरेश्वरमीश्वरम् ।।
पूजयेद्विविधैः पुष्पैर्महापापहतोपि वा।।४५।।
विमानं दिव्यमारूढो यावत्कल्पचतुष्टयम् ।।
गंधर्वैर्गीयमानस्तु सोऽपि स्वर्गं गमिष्यति।। ४६ ।।
इत्युक्तः स गणो देवि मत्समीपमुपागतः ।।
शापान्मुक्तस्त्वया सार्धं विस्मृता किं वरानने ।। ४७ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
अक्रूरेश्वरदेवस्य शृणु कुंडेश्वरं परम् ।। ४८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्येऽक्रूरेश्वरमाहात्म्यवर्णनंनामै कोनचत्वारिंशोऽध्यायः ।। ३९ ।। ।।