सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ३१

विकिस्रोतः तः

।। श्रीमहादेव उवाच ।। ।।
एकत्रिंशत्तमं विद्धि देवं खंडेश्वरं प्रिये ।।
संपूर्णं जायते यस्य दर्शाद्दानव्रतादिकम् ।। १ ।।
आसीत्त्रेतायुगे देवि भद्राश्वोनाम पार्थिवः ।।
यस्य नाम्नाऽभवद्वर्षं भद्राश्वंनाम नामतः ।। २ ।।
तस्यागस्त्यः कदाचित्तु गृहमागम्य सत्तमः ।।
उवाच सप्तरात्रं तु वसामि भवतो गृहे ।। ३ ।।
तं राजा शिरसा नत्वा स्वास्यतामित्यभाषत ।।
तस्य कांतिमतीनाम भार्या परमशोभना ।। ४ ।।
 तस्यास्तेजः समभवद्द्वादशादित्यसंनिभम् ।।
सपत्नीनां शतं तस्या विद्यते वरवर्णिनि ।। ५ ।।
ता दास्य इव कर्माणि कुर्वंत्यहरहः सदा ।।
कांतिमत्याः प्रभावेन भयोत्त्र स्ताः सुलोचनाः ।। ६ ।।
तामगस्त्यस्तथा दृष्ट्वा तन्मुखासक्तलोचनाम् ।।
एवंभूतां तथा दृष्ट्वा राज्ञीं परमशोभनाम् ।।
साधुसाधु जगन्नाथेत्यगस्त्यः प्राह हर्षितः ।। ७ ।।
द्वितीये दिवसेप्येवं राज्ञीं दृष्ट्वा महाप्रभाम् ।।
अहो ह्यंगनया मुष्टं जगदेतच्चराचरम् ।। ८ ।।
इत्यगस्त्यो द्वितीयेऽह्नि राज्ञीं दृष्टेत्युवाच ह ।।
तृतीयेऽह्नि च तां दृष्ट्वा पुनरेवमुवाच ह ।। ९ ।।
अहो मूढा न जानंति लिंगमाहात्म्यमुत्तमम् ।।
महाकालवने क्षेत्रे च्यवनेशस्य पूर्वतः ।। 5.2.31.१० ।।
खंडव्रतानि जायंते पूर्णानि दर्शनाद्यदः ।।
चतुर्थे दिवसे हस्तावुत्क्षिप्य पुनरब्रवीत् ।।११।।
साधुसाधु जगन्नाथ साधु भद्राश्व सुव्रत ।।
पंचमे दिवसेऽप्येवं षष्ठे चैव पुनःपुनः ।। १२ ।।
नृत्यंतं सप्तमे दृष्ट्वा दिने पत्न्या समन्वितः ।।
प्रोवाच चैनं राजा स विस्मितेनांतरात्मना ।।
किं हर्षकारणं ब्रह्मन्येन नृत्यसमन्वितः ।। १३ ।।
।। अगस्त्य उवाच ।। ।।
अहो भूपाल मूढस्त्वं महामूर्खाश्च मंत्रिणः ।।
अहो पुरोहितो मुग्धो ये न जानंति मे मतम् ।। १४ ।।
ईदृशा अपि जायंते राजानो यस्य दर्शनात् ।।
एवमुक्तस्ततो राजा कृतांजलिरभाषत ।। १५ ।।
न जानीमो वयं ब्रह्मन्नभिप्रायं तवाधुना ।।
कथयस्व महाभाग यद्यनुग्रहकृद्भवान् ।। १६ ।।
।। अगस्त्य उवाच ।। ।।
इयं राज्ञी त्वदीयाभूद्दासी वैश्यस्य वैदिशे ।।
नगरे हरिदत्तस्य त्वमस्याः पतिरेव च ।।
खंडव्रतप्रभावेन जातः कर्मकरो भवान् ।। १७ ।।
स च वैश्यो महाकाले गत्वा देवं महेश्वरम्।।
अर्चयामास विविवद्गंधपुष्पादिभिः शुभैः ।। १८ ।।
अभ्यर्च्य तु गृहं यावद्भवंतौ रक्षपालकौ ।।
ततः कालेन महता मृतौ द्वावपि दंपती ।। १९ ।।
तेन पुण्येन ते जन्म प्रियव्रतगृहेऽभवत् ।।
इयं च पत्नी ते जाता पुरा वैश्यप्रदासिका ।। 5.2.31.२० ।।
परकीयप्रसंगेन संजाता भूभिरुत्तमा ।।
राज्यं पत्नी सुता साधुरित्युक्तं वचनं मया ।। २१ ।।
तस्य देवस्य माहात्म्याद्यजंतं विविधैर्मखैः ।।
पश्यामि त्वां महीपाल भूपालशतवेदितम् ।। २२ ।।
अतः साधुपुरा प्रोक्तं मया तव महीपते ।। २३ ।।
इति तस्य वचः श्रुत्वा कुंभयोनेर्महात्मनः ।।
महाकालवने गंतुं मतिं चक्रे महीपतिः ।।
ततः सांतःपुरः प्रायात्तेन सार्द्धं महर्षिणा ।।२४।।
अगस्त्यकथितं लिंगं ददर्श श्रद्धया पुनः ।।
पूजयामास विधिवत्पत्न्या सार्द्धं महीपतिः ।। २५ ।।
ततस्तुष्टस्तदा देवो नृपं प्राहामितद्युतिः ।।
मनोऽभीष्टं तपस्तेस्तु भोगमैश्वर्यमेव च ।। २६ ।।
 कुलं प्रभावं सौभाग्यं दीर्घमायुररोगिताम् ।।
निःसपत्नं ततो राज्यं कृत्वा स्वर्गमवाप्स्यति ।। २७ ।।
इत्युक्तो देवदेवेन् गतोऽसौ विषयं स्वकम् ।।
निष्कंटकं ततो राज्यं कृत्वा स्वर्गं गतः प्रिये ।। २८ ।।
अनेकजन्मचरितं खंडव्रतकदम्बकम् ।।
संपूर्णमभवद्देवि लिंगस्यास्य प्रभावतः ।। २९ ।।
अतः खण्डेश्वरो देवो विख्यातो भुवनत्रये ।।
ये पश्यंति नरा देवि देवं खण्डेश्वरं शिवम् ।। 5.2.31.३० ।।
खण्डव्रतानि पूर्णानि तेषामाशु भवंति हि ।।
तपःखण्डं व्रते खण्डं दानखंडं च यत्कृ तम्।।
तत्सर्वं पूर्णतां याति श्रीखंडेश्वरदर्शनात् ।। ३१ ।।
दृष्ट्वा खंडेश्वरं देवं पापविघ्नैः प्रमुच्यते ।।
सप्तजन्मकृतैर्देवि मनोवाक्कायकर्मभिः ।। ३२ ।।
दृष्ट्वा खण्डेश्वरं देवं कृतकृत्यत्वमाप्यते ।।
तस्य नश्यति दौर्भाग्यं सप्तजन्मोद्भवं प्रिये ।। ३३ ।।
खंडेश्वरेऽर्चिते देवे सर्वे देवाः सवासवाः।।
संतुष्टा वरदाश्चैव भवंति वरवर्णिनि ।। ३४ ।।
देवं खंडेश्वरं ये वै यजंति श्रद्धया प्रिये ।।
पुण्यैर्नानाविधैः स्नानैः सुगन्धैश्च विशेषतः ।। ३५ ।।
धूप दीपैर्नमस्कारैर्जपैः स्तोत्रैः पृथग्विधैः ।।
ते सर्वे कामसंपन्नाः श्रीमन्तो राज्यसंयुताः ।। ३६ ।।
दीर्घायुषः शुभाचारा जायंते देहिनोऽमलाः ।।
अति श्रेष्ठा गतिस्तेषां विशोका नित्यमक्षयाः ।।
खंडेश्वरप्रसादेन जायंते नात्र संशयः ।। ३७ ।।
एते च विष्णुब्रह्मेंद्रकुवेरदहनादयः ।।
परां सिद्धिं सुसंप्राप्ताः खंडेश्वरसमर्चनात् ।। ३८ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
खंडेश्वरस्य देवस्य शृणु वै पत्तनेश्वरम् ।। ३९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये खण्डे श्वरमाहात्म्यवर्णनंनामैकत्रिंशोऽध्यायः ।। ।। ३१ ।।