स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः २९

विकिस्रोतः तः
Jump to navigation Jump to search

।। श्रीहर उवाच ।। ।।
एकोनत्रिंशतं विद्धि देवं रामेश्वरं प्रिये ।।
यस्य दर्शनमात्रेण मुच्यते ब्रह्महत्यया ।। १ ।।
पुरा त्रेतायुगे देवि रामः शस्त्रभृतां वरः ।।
शूरः सर्वगुणोपेतः पितृभक्तो बभूव ह ।। २ ।।
रेणुकागर्भसंभूतः स्वयं रामो बभूव ह ।।
विष्णुरेवावतीर्णोऽसौ भृगोः शापात्सुदुस्तरात् ।। ३ ।।
स कदाचिन्नियुक्तोऽसौ मुनिना जमदग्निना ।।
शिरश्छिन्धीत्युवाचेदं मातुस्ते विपुलं सुत ।। ४ ।।
स पितुर्वचनं श्रुत्वा भ्रातॄणां मातुरेव च ।।
शिरांसि चिच्छिदे रामो जमदग्निर्वरं ददौ ।। ५ ।।
सर्वेषां पृथिवीशानां त्वमजेयो भविष्यसि ।।
सर्वक्षयकरो भावी न चिरादेव भार्गव ।। ६ ।।
गृहाण परशुं पुत्र वह्निज्वालोद्भवं दृढम्।।
अनेन शितशस्त्रेण ततः ख्यातो भवि ष्यति ।। ७ ।।
अथ केनापि कालेन कार्त्तवीर्यार्जुनो नृपः ।।
हैहयानां कुले जातः सहस्रबाहुविश्रुतः ।। ८ ।।
जघान जमदग्निं तु कामधेनुकृते कुधीः ।।
पितरं निहतं दृष्ट्वा रामः कुद्धोऽब्रवीदिदम् ।। ९ ।।
अथ पश्यंतु मे वीर्यं त्रयो लोकाः सनातनम् ।।
स च पश्यतु दुर्बुद्धिर्ब्रह्महा कृतवीर्यजः ।। १० ।।
मत्पिता निहतो येन सत्कर्मनिरतः सदा ।।
तस्य बाहुसहस्रं तु छेत्स्यामीह न संशयः ।। ११ ।।
इत्युक्त्वा क्रोधरक्ताक्षः कार्त्तवी र्यार्जुनं भुवि ।।
धर्षयित्वा यथाकामं क्रोशमानं पुनःपुनः ।। १२ ।।
कृत्स्नं बाहुसहस्रं च चिच्छेद भृगुनंदनः ।।
परश्वधेन तीक्ष्णेन ज्ञातिभिः सहितं तदा ।। १३ ।।
रथस्थं पातयामास जघान नृपतिं प्रिये ।।
त्रिःसप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता ।। १४ ।।
कृत्वा निःक्षत्रियां चैव भार्गवः स महाबलः ।।
सर्वपापविनाशाय वाजिमेधेन चेष्टवान् ।। १५ ।।
तस्मिन्यज्ञे महादाने दक्षिणां भृगुनंदनः ।।
मारीचाय ददौ प्रीतः कश्यपाय वसुन्धराम् ।। १६ ।।
वारुणांस्तुरगाञ्छुभ्रान्रथं च रथिनां वरः ।।
हिरण्यमक्षयं धेनूर्गजेंद्राश्च महामतिः ।। १७ ।।
तदा तस्मिन्महायज्ञे वाजिमेधे महायशाः ।।
तथापि न गता हत्या ह्यनेकप्राणिसंभवा ।। १८ ।।
एवं किल पुराणेषु सर्वागमभिदादिषु ।।
विश्वस्तघातिनां चैव निष्कृतिः श्रूयते यथा ।। १९ ।।
अश्वमेधेन यज्ञेन ब्रह्महत्या विनश्यति ।।
अथवा द्वादशाब्देन यद्येकाऽऽस्या कृता भुवि ।। २० ।।
मया पुनर्नृशंसेन बहवः प्राणिनो हताः ।।
विश्वस्ताश्च प्रमत्ताश्च गर्भस्थाश्च पुनःपुनः ।। २१ ।।
स्त्रियो वृद्धाश्च बालाश्च माता चैव विशेषतः ।।
इति दुःखान्वितो रामो विषादं परमं गतः ।। २२ ।।
चिंतयित्वा मुहूर्तं तु गतो रैवतकं गिरिम् ।।
तथा तपो ऽतपद्धोरं बहून्वर्षगणान्प्रिये ।। २३ ।।
तथापि न गता हत्या ह्यनेकप्राणिसंभवा ।।
अथ रामो जगामाथ महेन्द्रे मलये तथा ।। २४ ।।
सह्ये हिमालये रम्ये पुण्ये बदरिकाश्रमे ।।
चरित्वा पर्वतान्सर्वान्स्नानार्थं नर्मदां ययौ ।। २५ ।।
यमुनां चंद्रभागां च गंगां त्रिपथगामिनीम् ।।
इरावतीं वितस्तां च परां चर्मण्वतीं शुभाम् ।। २६ ।।
विशालां कपिलां दुर्गां गंभीरां गोमतीं शिवाम् ।।
गोदावरीं दशार्णां च पुण्यां भीमरथीं तथा ।। २७ ।।
गयां चैव कुरुक्षेत्रं नैमिषं पुष्करं तथा ।।
अट्टहासं प्रभासं च केदारममरेश्वरम् ।। २८ ।।
कृतयात्रोऽपि दुःखार्त्तश्चिंतयामास भार्गवः ।।
न नूनं तीर्थमाहात्म्यं दृश्यते भुवि सांप्रतम् ।। २९ ।।
न गता ब्रह्महत्या मे कृतो धर्मो निरर्थकः ।।
मिथ्या तत्कथ्यते शास्त्रे तीर्थदानादिभिः शुभैः ।।
यदि स्यात्सत्यमेतच्च नष्टं जातं कथं मम ।। 5.2.29.३० ।।
एतस्मिन्नेव काले तु नारदो मुनिपुंगवः ।।
आजगाम तमुद्देशं यत्र रामो व्यवस्थितः ।। ।। ३१ ।।
विषण्णवदनो दीनश्चिंतयानः पुनःपुनः ।।
दृष्ट्वा तथाविधो रामः प्रत्युवाचाथ नारदम् ।। ३२ ।।
भोभो नारद देवर्षे शृणु मे परमं वचः ।।
जननी निहता पूर्वं पितुर्वाक्याहिजोत्तम ।। ३३ ।।
पितुः पराभवाद्भूमौ भृमिपाला मया हताः ।।
गर्भा विदारिताः स्त्रीणां बाला वृद्धाश्च योषितः।। ३४ ।।
निरंतरा हता लोका विशोकेनादयालुना ।।
पश्चाद्धृणा समुत्पन्ना परलोकं ममेक्षतः ।। ३५ ।।
यज्ञः कृतोऽश्वमेधश्च दत्तं दानमनेकधा।।
स्नातोहं सर्वतीर्थेषु सर्वप्रस्रवणेषु च।।३६।।
पर्वतेषु तपस्तप्तं हुतं जप्तं निरंतरम्।।
ब्रह्महत्याविनाशार्थंं किं किं नात्र मया कृतम् ।।३७।।
परं नैव गता हत्या तस्मात्सर्वं निरर्थकम् ।। ३८ ।।
इति तस्य वचः श्रुत्वा नारदो भगवानृषिः ।।
प्रत्युवाच हितं सत्यं चिरं ध्यात्वा वचस्तदा ।।
भोभो राम किमात्मानं न स्मरस्यधुना हरिम् ।। ३९ ।।
त्वयैव कथितं पूर्वं ब्रह्महत्याविनाशनम् ।।
महाकालवने क्षेत्रे क्षेत्राणामुत्तमं परम् ।।
तस्मिन्क्षेत्रे महालिंगं ब्रह्महत्याविनाशनम् ।। 5.2.29.४० ।।
जटेश्वरो महाभाग विद्यते सर्वसिद्धिदम् ।।
कृतावतार राम त्वं तत्र गच्छाविलंबितम ।।
नारदस्य वचः श्रुत्वा स्मृत्वा क्षेत्रमनुत्तमम् ।। ४१ ।।
 जगाम त्वरितं देवि महाकालवने ततः ।।
लिंगमाराधयामास ततो हत्या गता क्षयम् ।।
लिंगमध्यादहं देवि प्रसन्नो निर्गतस्तदा ।। ४२ ।।
जामदग्न्यो मया प्रोक्तः कांतकामं ददाम्यहम् ।।
स प्रोवाच ततो रामो भक्तिनम्रात्मकंधरः ।। ।। ४३ ।।
त्वत्पादपंकजे भूयाद्भक्तिर्मे विपुला सदा ।।
वरमेतं प्रयच्छाद्य यदि तुष्टो महेश्वर ।। ४४ ।।
इत्युक्तोऽहं तदा तेन यथा तुष्टेन पार्वति ।।
तस्मै दत्ता मयाभीष्टा वरा कीर्त्तिकरा स्थितिः ।। ४५ ।।
अद्यप्रभृति ते नाम्ना देवः ख्यातो भविष्यति ।।
तदा रामेश्वर इति त्रिषु लोकेषु गीयते ।। ४६ ।।
भक्त्या ये पूजयिष्यंति देवं रामेश्वरं परम् ।।
आजन्मप्रभवं पापं तेषां न३यति तत्क्षणात् ।। ४७ ।।
स एव पुण्यवान्पूज्य इह लोके परत्र च ।।
यः पश्यति नरो भक्त्या देवं रामेश्वरं शिवम् ।। ४८ ।।
येऽनुमोदंति देवस्य दर्शनं यजनं तथा ।।
तेऽपि पापविनिर्मुक्ताः प्रयांति मम मंदिरम् ।। ।। ४९ ।।
यच्चापि पातकं घोरं ब्रह्महत्यासहस्रकम् ।।
तत्पापं विलयं याति रामेश्वरसमर्चनात्।। 5.2.29.५० ।।
दुष्प्राप्यं यत्फलं विप्रैर्वाजपेयादिभिर्मखैः ।।
प्राप्यते तत्सुखेनैव श्रीरामेश्वरदर्शनात् ।। ५१ ।।
ये हताभिमुखाः शूरा गोविप्रार्थे रणाजिरे।।
गतिरभ्यधिका तेभ्यो दृष्ट्वा रामेश्वरं शिवम् ।। ।। ५२ ।।
जितास्तेन सदा लोका रामेणेव जगत्त्रयम् ।।
दृष्टं येन सदा भक्त्या लिंगं रामेश्वरं शिवम् ।। ५३ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
रामेश्वरस्य देवस्य शृणु त्वं च्यवनेश्वरम् ।। ५४ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्य खण्डे चतुरशीतिलिंगमाहात्म्ये रामेश्वरमाहात्म्यवर्णनं नामैकोनत्रिंशोध्यायः।। २९।।