स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः २८

विकिस्रोतः तः

।। श्रीदेवदेव उवाच ।। ।।
अष्टाविंशतिकं विद्धि विख्यातं च जटेश्वरम् ।।
यस्य दर्शनमात्रेण मुक्तो भवति मानवः ।।. १ ।।
पुरा राथंतरे कल्पे वीरधन्वा महीपतिः ।।
धर्मात्मा च यशस्वी च बभूव भुवि विश्रुतः ।। २ ।।
स कदाचिद्वनं गत्वा मृगहेतोर्वरानने ।।
व्यापादयन्मृगगणान्धनुषा क्रोधविह्वलः ।। ३ ।।
जगाम तत्र यत्रासन्भ्रातरः पंच सुव्रताः ।।
संवर्तस्य सुता देवि मृगरूपेण संस्थिताः ।। ४ ।।
ते कदाचिद्वने पंच दृष्ट्वा हरिणपोतकान् ।।
श्वसतो जातमात्रांश्च कौतूहलसमन्विताः ।। ५ ।।
एकैकं जगृहुस्तत्र मृतास्ते त्वतिदुःखिताः ।।
ततः सर्वे च ते पंच ययुर्वै पितुरंतिकम् ।। ६ ।।
प्रायश्चित्तं समीहंतः संवर्त्तं सांसदैर्वृतम् ।।
ऊचुस्ते वचनं चेदं मृगहिंसाश्रितं तदा ।। ७ ।।
जातमात्रा मृगाः पंच अस्माभिर्निहताः प्रभो ।।
अकामतस्ततोऽस्माकं प्रायश्चित्तं विधीयताम् ।। ८ ।।
ऊचे स शुद्धिमाप्नोति प्रायश्चित्ते कृते सति ।।
अनधीत्य धर्मशास्त्रं प्रायश्चित्तं ददाति यः ।।
प्रायश्चित्ती भवेत्पूतः किल्विषं दातरि व्रजेत् ।। ९ ।।
धर्म शास्त्रसमारूढा वेदखड्गधरा द्विजाः ।।
क्रीडार्थमपि यद्ब्रूयुः स धर्मः परमः स्मृतः ।। 5.2.28.१० ।।
ब्रह्मच्छिद्रं जपच्छिद्रं यच्छिद्रं यज्ञकर्मणि ।।
अच्छिद्रं जायते सर्वं ब्राह्मणैरुपपादितम् ।। ११ ।।
अच्छिद्रमिति यद्वाक्यं वदंति क्षितिदेवताः ।।
प्रणश्यत्यखिलं पापमग्निष्टोमफलं भवेत् ।। १२ ।।
इत्येवं वदति श्रेष्ठे संवर्ते द्विजसत्तमे ।।
समागताश्च मुनयो भृग्वत्र्यंगिरसादयः ।। १३ ।।
तेषामर्थे यथावृत्तं कथयामासुरेव ते ।।
संवर्तस्य सुता दीना भक्तिनम्राः पुनःपुनः ।। १४ ।।
तेऽप्यूचुर्धर्मशास्त्राणि विहितानि यथार्थतः ।।
प्रायश्चित्तं यथोद्दिष्टं देशकालविभागतः ।। १९ ।।
अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः ।।
प्रायश्चित्तार्द्धमर्हंति स्त्रियो वै व्याधितस्य च ।। १६ ।।
देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः ।।
प्रायश्चित्तं प्रकल्प्यं स्यादिति धर्मो व्यवस्थितः ।। १७ ।।
इदानीं मृगचर्माणि परिधाय धृतव्रताः ।।
चरध्वं पंच वर्षाणि ततः शुद्धा भविष्यथ ।।। ।।१८।।
एवमुक्तास्तु ते बाला मृगधर्मोपजीविनः।।
वनं विविशुरव्यग्रा ध्यायंतो ब्रह्म शाश्वतम्।।१९।।
ततो वर्षे ह्यतिक्रांते वीरधन्वा महीपतिः ।।
तत्राजगाम यस्मिंस्ते चरंति मृगरूपिणः ।। 5.2.28.२० ।।
ते चाप्येकतरोर्मूले मृगधर्मोपजीविनः ।।
जपंतः संस्थितास्ते हि राज्ञा दृष्टा मृगा इति ।। २१ ।।
मत्वा विद्धास्तु नाःराचैर्मृतास्ते ब्रह्मवादिनः ।।
तान्दृष्ट्वा च मृतान्राजा ब्राह्मणान्संशितव्रतान् ।।
भयेन वेपमानस्तु देवराताश्रमं ययौ ।। ०२ ।।
तत्रापृच्छद्ब्रह्मवध्या मम जाता महामुने ।।
आमूलांतं वधांतस्य कथयित्वा नराधिपः ।। २३ ।।
भृशं शोकपरीतात्मा रुरोद भृशदुःखितः ।।
स ऋषिर्देवकल्पस्तु रुदंतं नृपसत्तमम् ।। २४ ।।
उवाच मा भैर्नृपते अपनेष्यामि पातकम् ।।
पाताले सुतलाख्ये तु निमज्जंती यथा धरा ।। २५ ।।
उद्धृता देवदेवेन विष्णुना क्रोडमूर्त्तिना ।।
तद्वद्भवंतं राजेंद्र ब्रह्महत्यापरिप्लुतम् ।।
उद्धरिष्यति देवोऽसौ स्वयमेव जनार्दनः ।। २६ ।।
एवमुक्तस्ततो राजा दुरितो वाक्यमब्रवीत ।। २७ ।।
किमनेन द्विजेनैव निष्प्रभेण दुरात्मना ।।
उद्धर्तुं नैव शक्नोति स्वयमेव द्विजाधमः ।। २८ ।।
इत्युक्त्वा '? खङ्गेनैव जघान तम् ।।
मृतं दृष्ट्वा द्विजं राजा क्रोधेन कलुषीकृतः ।। २९ ।।
तस्मिन्नेव वने देवि पापसंघेन मोहितः ।।
जघान कपिलां दोग्ध्रीं सवत्सां गालवस्य च ।। 5.2.28.३० ।।
क्षुधार्त्तश्च तृषार्त्तश्च बाल्यान्मोहाच्च साहसात् ।।
क्रूरा बुद्धिः समभवज्जटीभूतं च पातकम् ।। ३१ ।।
जटीभूतेन पापेन बभ्राम गहने वने ।।
स कदाचित्तुरंगेण हृतो दूरं महद्वनम् ।। ३२ ।।
व्याघ्रसिंहगजाकीर्णं मृगशंबरसेवितम् ।।
एकाकी तत्र राजासावश्वं मुक्त्वा तरोरधः ।। ३३ ।।
कुशोपरि तदा तत्र सुष्वाप च स निर्भयम् ।।
तत्र व्याधाः समचरन्दृष्ट्वा सुप्तं च निर्भयम् ।। ।। २४ ।।
ते गतास्त्वरिता व्याधाः स्वभर्तुः कथनाय वै ।।
स्वामिना तेन निर्दिष्टा निग्रहीतुं प्रचक्रमुः ।। ३५ ।।
तावद्राज्ञः शरीरात्तु श्वेताऽऽभरणभूषिता ।।
उत्थाय चक्रमादाय तया म्लेच्छाश्च पातिताः ।। ३६ ।।
दस्यून्निहत्य सा देवी तत्रैवादर्शनं गता ।। ३७ ।।
अथ राजा तया मुक्तः प्रतिबुद्धोऽथ तत्क्षणात् ।।
म्लेच्छांश्च निहतान्दृष्ट्वा चिंतयामास पार्थिवः ।। ३८ ।।
गोवध्या ब्रह्मवध्या च वने ह्यस्मिन्सुदारुणा ।।
कथं मया नृशंसेन प्राप्ता पापपरंपरा ।। ३९ ।।
एवं स चिंतयित्वाथ निःश्वस्य च पुनःपुनः ।।
तमेवाश्वं समारुह्य वामदेवाश्रमं ययौ ।। 5.2.28.४० ।।
मुनिना वामदेवेन दृष्टो राजा तथाविधः ।।
जटीभूतेन पापेन पीडितो दुःखितस्तदा ।। ४१ ।।
।। वामदेव उवाच ।। ।।
अयं स पुरुषव्याघ्रो वीरधन्वा महीपतिः ।।
सोमवंशसमुत्पन्नो दशां कष्टां समागतः ।। ४२ ।।
उद्धरिष्यामि राजानमेनं पुरुषसत्तमम्।।
इत्यालोच्य तदा विप्रो वामदेवो महातपाः ।।
प्रत्युवाच महीपालं वीरधन्वानमातुरम् ।। ४३ ।।
भोभो राजन्महीपाल वीरधन्वेति विश्रुतः ।।
विदूरथस्य तनयो विख्यातो भुवनत्रये ।। ४४ ।।
प्राग्भवे व्याधरूपेण निहिथा विपिने मृगान् ।।
दृढं जागरणं रात्रावामलक्यास्तरोरधः ।। ४५ ।।
फाल्गुनामलपक्षे त्वामलक्येकादशी शुभा ।।
पुष्यर्क्षयोगिनी तस्यां जामदग्न्यप्रदक्षिणा ।। ४६ ।।
पूजा लोकैः कृता दृष्टा विस्मयेन त्वया पुरा ।।
अकामादुपवासोऽभूत्तस्यां जागरणं पुनः ।। ४७ ।।
तत्प्रभावादभू राजा महाबलपराक्रमः ।।
तया संरक्षितो राजन्म्लेच्छवर्गाद्वनेऽधुना ।। ४८ ।।
निहताः शत्रवः सर्वे तयैव शुभमाप्स्यसि ।।
पूर्वकर्मविपाकेन ब्रह्महत्या समागता ।। ४९ ।।
ज्ञाता तपःप्रभावेन मया योगबलेन च ।।
जटीभूतं शरीरं ते पापसंघेन पार्थिव ।। 5.2.28.५० ।।
इदानीं पालयिष्यामि शृणु मे वचनं परम् ।। ५१ ।।
इत्युक्तो वामदेवेन् मुनिना स महीपतिः ।।
प्रणम्य प्रयतो भूत्वा पप्रच्छ च पुनःपुनः ।।५२।।
कथं यास्यंति मे हत्या गोब्राह्मणसमुद्भवाः ।।
उपदेशप्रदानेन प्रसादं कर्तुमर्हसि ।।५३।।
तस्य तद्वचनं श्रुत्वा वाम देवो महामुनिः ।।
कथयामास माहात्म्यं लिंगस्यास्य यशस्विनि ।। ५४ ।।
महाकालवनं गच्छ महाराज ममाज्ञया ।।
तत्रास्ते देवदेवोऽपि जगद्व्यापी जटेश्वरः ।। ५५ ।।
पापसंघप्रहर्त्ता च सर्ववेदेषु पठ्यते ।।
देवस्यानरकेशस्य उत्तरे स व्यवस्थितः ।।५६।।
तस्य तद्वचनं श्रुत्वा वामदेवस्य पार्थिवः ।।
आजगाम त्वरायुक्तो महाकालवनोत्तमे ।।५७।।
तत्र दृष्ट्वा जगद्वंद्यं देवदेवं जटेश्वरम् ।।
स्तुतिं चकार राजेंद्रो भक्त्या परमया पुनः ।।५८।।
शिवाय ते नमो नित्यं विश्वकाय नमोनमः ।।
नमो दिव्याय गुह्याय गूढव्रतशरीरिणे ।।५९।।
नमो जटाय रामाय माययाक्रांतकारिणे ।।
नमोस्तु बहुरूपाय नमो नीलाभरूपिणे ।। 5.2.28.६० ।।
नमो भोगाय धूम्राय नमोऽस्तु गगनात्मने ।।
नमो वह्निसमूहाय नमस्ते निर्मलाकर ।। ६१ ।।
नमो महांधकारार्क नमस्ते शत्रुघातिने ।।
नमः संसारपाराय दिव्यरूपशरीरिणे ।।
नमः कनकवर्णाय नमो मोहितमोहिने ।। ६२ ।।
नमः सुरूपाय सुरार्चिताय नमो विरूपाय प्रकृतेः पराय ।।
नमोनमो रूपनिराश्रयाय श्यामासुरूपाय नमोनमस्ते ।। ६३ ।।
इति स्तुतस्तदा देवि महादेवो महेश्वरः ।।
जटावेष्टितसर्वांगो लिंगमध्याच्च निस्सृतः ।। ६४ ।।
भस्मचर्चितसर्वांगो भोगिभोगांगदोज्वलः ।।
हिमराशिनिभाकारो राजताचलनिर्मलः ।। ६५ ।।
मुक्तालतानिभाभिस्तु जटाभिर्भूषितो विभुः ।।
कपिलाभिः करालाभिर्विकटाभिश्च वेष्टितः ।। ६६ ।।
भोगींद्रफणबद्धाभिः सितपीतादिभिस्तथा ।।
नदीरूपाभिरूताभिः शोभितोऽसौ जटेश्वरः ।। ६७ ।।
राजानं प्रत्युवाचेदं वचनं पर्वतात्मजे ।।
स्तोत्रेणानेन राजेंद्र तुष्टोऽहं तोषितस्त्वया ।। ।। ६८ ।।
जटीभूतं च ते पापं गतं मद्दर्शनेन वै ।।
तस्मात्स्थानं परं गच्छ मदीयं शाश्वतं मुदा ।। ६९ ।।
इत्युक्तो देवदेवेन वीरधन्वा महीपतिः ।।
जगाम परमं स्थानं दाहप्रलयवर्जितम् ।। 5.2.28.७० ।।
कामगेन विमानेन स्तूयमानो गणैः प्रिये ।।
पापसंघेन मुक्तोऽसौ जटीभूतेशदर्शनात् ।। ७१ ।।
लिंगश्चातः समाख्यातो नाम्ना देवो जटेश्वरः ।।
जटेश्वरं वरारोहे ये पश्यंति सुभक्तितः ।।
तेषां पापं जटीभूतं तत्क्षणादेव नश्यति ।। ७२ ।।
येऽर्चयंति सदा देवि देवदेवं जटेश्वरम् ।।
तेषां बलं प्रभावश्च सौभाग्यं च भविष्यति ।। ७३ ।।
येप्यन्ये देवगन्धर्वा यक्षराक्षस मानवाः ।।
लिंगं च पूजयिष्यंतिं विधिवद्भक्तिभावतः ।। ७४ ।।
तेऽपि कामानवाप्स्यन्ति यांश्च कांश्च सुदुर्लभान् ।।
ऐश्वर्यं धर्ममतुलं दीर्घमायुररो गताम् ।। ७५ ।।
निःसपत्नत्वमतुलं यच्चान्यत्तदवाप्नुयात् ।।
पापिनः क्रूरकर्माणो येऽपि लिंगं समाश्रिताः ।।
तेपि पापविनिर्मुक्ता भविष्यंति गत ज्वराः ।। ७६ ।।
जटेश्वरं प्रपश्यंति भक्त्या ये च दिनेदिने ।।
ते धर्मधनसौभाग्यैर्भविष्यंति समन्विताः ।। ७७ ।।
व्याधितो व्याधिना मुक्तो दुःखी दुःखात्प्रमुच्यते ।।
दर्शनात्तु भवेत्सद्यः सर्वपातकवर्जितः ।। ७८ ।।
जटेश्वरस्य माहात्म्यं ये पठिष्यंति पार्वति ।।
श्रोष्यंति येऽपि मद्भक्त्या प्रयताः श्रद्धयान्विताः ।। ७९ ।।
ते सर्वकामानाप्स्यंति गतिमंते च मत्पुरे ।।
या नारी दुर्भगा सापि सौभाग्यं लभते सदा ।। 5.2.28.८० ।।
गुर्विणी लभते पुत्रमरोगं श्रुतिभूषणम् ।।
शिशुग्रहाश्च नश्यंति नापमृत्युभयं भवेत् ।। ८१ ।।
मांगल्यमिदमायुष्यं धर्मकामाश्रयं महत् ।।
दुःस्वप्नजं भयं घोरं पापजं याति संक्षयम् ।। ८२ ।।
दुर्भुक्तं दुर्जनस्पर्शं यच्चाल्पायुःकरं भवेत् ।।
लिंगाख्यानकथां श्रुत्वा विनश्यति न संशयः ।। ८३ ।।
श्राद्धेषु यः पठेदेतां जटेश्वरकथां शुभाम् ।।
तदक्षयं भवेच्छ्राद्धं पितॄणां प्रीतिवर्द्धनम् ।। ८४ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
जटेश्वरस्य देवस्य शृणु रामेश्वरं शिवम् ।। ८५ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये जटेश्वरमाहात्म्यवर्णनंनामाष्टाविंशोऽध्यायः ।। २८ ।।