स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः २५
।। श्रीहर उवाच ।। ।।
पंचविंशतिकं देवं विद्धि मुक्तीश्वरं प्रिये ।।
यस्य दर्शनमात्रेण मुक्तिर्भवति पार्वति ।। १ ।।
पुरा राथंतरे कल्पे बभूव द्विजसत्तमः ।।
मुक्तिर्नाम महाभागे संशितात्मा जितेंद्रियः ।। २ ।।
महाकालसमीपे तु मुक्तिलिंगमनुत्तमम् ।।
महाकालवने रम्ये तत्रास्ते योगत त्परः ।। ३ ।।
ततस्तेपे जिताहारो वत्सराणि त्रयोदश ।।
कदाचित्सोऽभिषेकाय आजगाम महानदीम्।। ४ ।।
शिप्रां विप्रप्रियां पुण्यां महापातकना शिनीम् ।।
तत्र स्नात्वा जपन्विप्रो ददर्शायांतमग्रतः ।। ५ ।।
व्याधं महाधनुष्पाणिं रक्तनेत्रं सुभीषणम्।।
वदंतं हन्तुकामं वै वल्कलानां जिघृक्षया ।। ।। ६ ।।
तं दृष्ट्वा क्षुभितो विप्रो ब्रह्मघ्नस्य भयादिति ।।
ध्यायन्नारायणं देवं तस्थौ तत्रैव स द्विजः ।। ७ ।।
तं दृष्ट्वांतर्गतहरिर्व्याधो भीत इवाग्रतः ।।
विहाय सशरं चापं ततो वचनमब्रवीत् ।। ८ ।।
।। व्याध उवाच ।। ।।
हंतुमिच्छुरहं ब्रह्मन्भगवन्तमिहागतः ।।
इदानीं स्वगता बुद्धिस्त्वां दृष्ट्वैव महाप्रभम् ।। ९ ।।
ब्राह्मणानां सहस्राणि स्त्रीणामयुतशस्तथा ।।
निहतानि मया ब्रह्मन्वृत्तिहेतोः कुटुंबिना ।। 5.2.25.१० ।।
न च मे व्यथितं चित्तं कदाचिदपि जायते ।।
इदानीं तप्तुमिच्छामि तपोऽहं त्वत्समीपतः ।। ११ ।।
उपदेशप्रदानेन प्रसादं कर्तुमर्हसि ।।
एवमुक्तो ह्यसौ विप्रो नोत्तरं प्रत्यप द्यत ।। १२ ।।
ब्रह्महा पापकर्मेति मत्वा ब्राह्मणपुंगवः ।।
अनुक्तोऽपि स धर्मस्तु व्याधस्तत्रैव तस्थिवान्।। १३ ।।
स्नात्वा सद्यः समायातो मुक्ति लिंगसमीपतः ।।
द्विजेन सहितो देवि दृष्ट्वा देवं सनातनम् ।। १४ ।।
तत्क्षणाद्दिव्यदेहस्तु तस्मिँल्लिंगे लयं गतः ।।
दृष्ट्वा तन्महदाश्चर्यं मुक्तिर्विप्रो निजांतरे ।।
चिंतयामास सहसा मुक्तिः प्राप्ता वरानने ।। १५ ।।
व्याधेन पापयुक्तेन समाधिरहितेन च ।।
मया पुनः समाचीर्णं तपः परम दुष्करम् ।। १६ ।।
न प्राप्ता परमा मूर्त्तिर्मुक्तिर्नैव च लभ्यते ।।
एवं सचिंतयित्वाथ वैराग्याद्ब्राह्मणर्षभः ।।
अन्तर्जलगतो भूत्वा चचार विपुलं तपः ।। १७ ।।
कस्यचित्त्वथ कालस्य तां नदीमगमत्किल ।।
व्याघ्रो बुभुक्षितः साध्वि तं विहंतुं समुद्यतः ।। १८ ।।
अंतर्जलचरं विप्रं यावद्व्याघ्रो जिघृक्षति ।।
नमो नारायणायेति तावद्वाक्यं द्विजोऽब्रवीत् ।। १९ ।।
व्याघ्रेणापि श्रुतो मंत्रोऽजहात्प्राणांश्च तत्क्षणात् ।।
दिव्यांबरधरो देवि दिव्याभरणभूषितः ।।
दिव्यालंकारशोभाढ्यः पुरुषश्चाभवच्छुभः ।। 5.2.25.२० ।।
सोऽब्रवीद्यामि तं देशं यत्र विष्णुः सनातनः ।।
त्वत्प्रसादाद्द्विजश्रेष्ठ मुक्त्वा शापान्निरामयः ।। २१ ।।
इत्युक्ते ब्राह्मणः प्राह कोऽसि त्वं पुरुषर्षभ ।।
सोऽब्रवीदस्मि राजेंद्र प्रतापी पूर्वजन्मनि ।। २२ ।।
दीर्घबाहुरिति ख्यातः सर्वधर्मविशारदः ।।
अहं जानामि वेदांश्च शास्त्राणि विविधानि च ।। २३ ।।
शुभाशुभमहं वेद्मि सर्वज्ञोऽहं महीतले ।।
ब्राह्मणैर्नैव मे कार्यं किं वस्तु ब्राह्मणा इति ।। २४ ।।
तस्यैकस्मिन्दिने विप्राः सर्वे क्रोधसमन्विताः ।।
ददुः शापं दुराधर्षं क्रूरो व्याघ्रो भविष्यति ।। २५ ।।
अपमानेन विप्राणां मांसाहारी भयावहः ।।
संजातोऽस्मि द्विजश्रेष्ठ पश्य कालविपर्यये ।। २६ ।।
इत्युक्तोऽहं पुरा तैस्तु ब्राह्म णैर्वेदपारगैः ।।
दुर्धर्षोऽयं मया प्राप्तो ब्रह्मशापो द्विजर्षभ ।। २७ ।।
ततस्ते ब्राह्मणाः सर्वे प्रणिपत्य मया मुने ।।
प्रसादिता भृशं विप्र तदा गद्गद या गिरा ।। २८ ।।
जानामि तेजो विप्राणां महाभाग्यं च धीमताम् ।।
अपेयः सागरः क्रोधात्कृतो यैर्लवणोदकः ।।२९।।
तथैव दीप्ततपसां मुनीनां भावितात्मनाम्।।
येषां क्रोधाग्निरद्यापि कण्डके नोपशाम्यति ।। 5.2.25.३० ।।
ब्राह्मणानां परीभावाद्वातापिश्च दुरात्मवान् ।।
अगस्तिमृषिमासाद्य जीर्णः क्रूरो महासुरः ।। ३१।।
सर्वभक्षः कृतो वह्निर्भृगुणा कारणांतरे ।।
गौतमेन पुरा शक्रः स सहस्रभगः कृतः ।। ३२ ।।
दशधा केशवो जज्ञे ब्रह्मशा पात्सुदुस्तरात् ।।
प्रसन्नैर्वालखिल्यैश्च पक्षींद्रो गरुडः कृतः ।। ३३ ।।
अश्विनौ देवभिषजौ च्यवनेन महात्मना ।।
विष्टंभयित्वा कुलिशं कृतौ तौ सोमपायिनौ ।। ३४।।
कार्त्तवीर्यार्जुनेनैव बाहूनां च सहस्रकम् ।।
दत्तात्रेयप्रसादेन प्राप्तं परमदुर्लभम् ।। ३५ ।।
पुरा सेंद्रा वशिष्ठेन रक्षितास्त्रि दिवौकसः ।।
ब्राह्मणप्रभवं सौख्यं कीर्तिरायुर्यशो वलम् ।। ३६ ।।
लोकालोकेश्वराश्चैव सर्वे ब्राह्मणपूर्वकाः ।।
एते हि सोमराजान ईश्वराः सुखदुःखयोः ।। ३७ ।।
भस्मीकुर्युर्जगदिदं कुद्धाः प्रत्यक्षदर्शनाः ।।
प्रभावा बहवश्चापि श्रूयते ब्रह्मवदिनाम् ।। ३८ ।।
क्रोधश्च विपुलः सद्यः सद्यः प्रत्य यकारकः ।।
अहं कोपाद्द्विजेंद्राणां गतो निरययातनाम् ।। ३९ ।।
नित्यं क्रोधाच्छ्रियं रक्षेद्धनं रक्षेत्समत्सरात् ।।
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ।।5.2.25.४०।।
मयाऽज्ञानात्कृतं पापं राजगर्वेण दैवतः ।।
क्षंतुमर्हथ विप्रेंद्रा भवतः शरणागतम् ।।४१।।
अथ तुष्टा द्विजाः सर्वे त ऊचुर्मामिदं मुदा।।
षष्ठान्नकालिकस्तेऽग्रे यदा स्थास्यति कश्चन ।। ४२ ।।
मांसभोक्ता च भविता कञ्चित्कालं नराधिप ।।
यदा शिप्रांतरे पुण्ये स्नातस्तु द्विजसत्तमः ।। ।। ४३ ।।
अंतर्जलगतेनोक्तो नमो नारायणेति च ।।
जिघृक्षुर्व्याघ्ररूपेण तदा मुक्तो भविष्यसि ।। ४४ ।।
एवं स भवता प्रोक्तो नमो नारायणेति च ।।
मंत्रः श्रुतो मया त्वत्तस्तस्येयं व्युष्टिरागता ।। ४५ ।।
जातोऽहं दिव्यदेहस्तु प्रसादात्तव सुव्रत ।।
स कृतार्थोऽस्मि संजातो भगवन्दर्शना त्तव ।। ४६ ।।
वरं च गृह्यतां मत्तो यश्च ते संशयो हृदि ।।
तं च ब्रूहि द्विजश्रेष्ठ सर्वं संपादयामि ते ।। ४७ ।।
तवोपदेशदानेन आनृण्यं गंतु मुत्सहे ।। ४८ ।।
इति तस्य वचः श्रुत्वा दिव्यदेहस्य स द्विजः ।।
प्रोवाच परया तुष्ट्या प्रफुल्लमुखपंकजः ।। ४९ ।।
अद्य मे सफलं ज्ञानमद्य मे सफलं तपः ।।
अद्य मे सफला जिह्वा सफलं चक्षुरद्य मे ।। 5.2.25.५० ।।
श्रुतं देवेन संप्रोक्तं स्नात्वा पश्यंति देहिनः ।।
प्राक्छरीरगतं तेऽद्य व्याघ्ररूपं तपोत्तम ।। ५१ ।।
तेजोमयं शरीरं तु ब्रह्मरूपं सनातनम् ।।
यदि त्वहमनुग्राह्यो यद्येवं कर्तुमर्हसि ।। ५२ ।।
कारणं श्रोतुमिच्छामि हृदि मे वर्त्तते चिरम् ।।
कथं मुक्तिर्महाभाग मुक्तिकामेन यत्नतः ।।५३।।
योगाभ्यासरतेनापि वत्सरांश्च त्रयोदश ।।
न लब्धा परमाश्चर्यं तपसा दुष्करेण तु ।।५४।।।
व्याधेनापि भृशं तेन प्राप्ता मुक्तिः क्षणेन तु ।।
अत्र मे संशयो जातः को हेतुः कथ्यतां भृशम् ।। ५५ ।।
तस्य तद्वचन श्रुत्वा ततो वचनमब्रवीत् ।।
कथयामि परं गुह्यं रहस्यं मुक्तिलक्षणम् ।। ५६ ।।
महादेवमुपास्याशु मुने मुक्तिः सुदुर्लभा ।।
पुरातनैस्तु विद्वद्भिरिदमुक्तं महात्मभिः ।। ५७ ।।
शृणुष्वैकमना विप्र कुरु यत्नं यथार्थतः ।।
मन्नियोगाद्द्विजश्रेष्ठ ततो मुक्तिमवाप्स्यसि ।। ५८ ।।
शप्तोऽहं तैर्यदा विप्रैस्तदा मे तोषिता भृशम् ।।
ममानुकंपया प्रोक्तं मुक्तिस्ते भविता नृप ।। ५९ ।।
मुक्तिकामो महाकाले मुक्तिर्ब्राह्मणसत्तमः ।।
विद्यते तपसा युक्तः स ते प्रश्नं करिष्यति ।। 5.2.25.६० ।।
मुक्तीश्वरं तदा लिंगं तस्याग्रे कथयिष्यसि ।।
तवापि तस्य मुक्तेश्च मुक्तिरेवं भविष्यति ।। ६१ ।।
पूर्वं हि चिह्नितं कर्म देहिनो न विमुंचति ।।
धात्रा विधिरयं दृष्टो बहुधा कर्मभिश्च यः ।। ६२ ।।
इति तस्य वचः श्रुत्वा स विप्रो ब्रह्मवित्तमः ।।
अंतर्जलात्समुत्थाय ततो वचनमब्र वीत् ।। ६३ ।।
दिष्ट्या त्वमागतो भूप दिष्ट्या ते संगतं मया ।।
ईदृशा दुर्लभा लोके नरा मुक्तिप्रदर्शकाः ।। ६४ ।।
इत्युक्त्वा नृपविप्रौ तौ मुक्तिलिंगं समा गतौ ।।
दर्शनार्थं विशालाक्षि दृष्ट्वा देवं सनातनम् ।। ६५ ।।
तत्क्षणात्सशरीरौ तौ तस्मिँल्लिंगे लयं गतौ ।।
ईदृशोऽयं मया देवि महिमा कथितस्तव ।। ६६ ।।
अस्य लिंगस्य संस्पर्शान्मुक्तिर्भवति नान्यथा ।।
येऽर्चयंति सदा भक्त्या मुक्तिलिंगं सनातनम् ।।
अपि पापसमायुक्तः स याति परमां गतिम् ।। ६७ ।।
रे मूढाः किं तपोभिश्च किं दानैर्नियमैश्च किम् ।।
कुरुध्वं मुक्तिलिंगस्य दर्शनं मुक्तिदायकम् ।। ६८ ।।
न मां विदुर्देवगणा नासुरा न महर्षयः ।।
परं रूपं विशालाक्षि यदश्मद्युति निर्मलम् ।। ६९ ।।
न मे वेत्ति परं रूपं स्वयं साक्षात्प्रजापतिः ।।
न विष्णुस्त्रिदशश्रेष्ठाः कुतोन्ये मुनयः प्रिये ।। 5.2.25.७० ।।
यदेतद्दृश्यते तेजो लिंगरूपं यशस्विनि ।।
एतदेव शुकाद्या हि ध्यायंति त्रिदशा अमी ।। ७१ ।।
अनेकजन्मसंशुद्धा योगिनोऽनुग्रहान्मम ।।
प्रविशंतु तनुं देवि मदीयां मुक्तिदायिकाम् ।। ७२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंन्यखण्डे चतुरशीतिलिंगमाहात्म्ये मुक्तीश्वरमाहात्म्यवर्णनंनाम पंचविंशतितमोऽध्यायः।।२५।।