सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः १६

विकिस्रोतः तः

।। ईश्वर उवाच ।। ।।
ईशानेश्वरसंज्ञं तु षोडशं विद्धि पार्वति ।।
यस्य दर्शनमात्रेण ऐश्वर्यं जायते नृणाम्।। १ ।।
तुहुंडेन पुरा देवि सर्वे ह्युपद्रुताः सुराः ।।
ऋषयश्च महाभागा यक्षगन्धर्वकि न्नराः ।। २ ।।
नंदनाख्यं वनं सर्वं तदधीनमभूत्किल ।।
ऐरावणं द्विपेन्द्रं च जित्वा द्वारि समादधत् ।। ३ ।।
उच्चैःश्रवससंज्ञं तु हृतवान्दानवेश्वरः ।।
देवांगनानां सर्वासां विध्वंसं कर्तुमुद्यतः ।। ४ ।।
स्वर्गमार्गः खिलीभूतस्तद्भयेन ह्यभूत्सति ।।
हृताधिकारा देवाश्च मंत्रं समुपचक्रमुः ।। ५ ।।
तस्मिन्काले च कालज्ञो नारदोऽथ महामुनिः ।।
आजगाम महातेजा भ्रममाणश्च मंत्रिभिः ।। ६ ।।
देवैर्नमस्कृतः सोऽथ पूजितश्च यथाविधि ।।
निवेदितं यथावृत्तं तुहुण्डस्य विचेष्टितम् ।। ७ ।।
पप्रच्छुरथ ते मंत्रं नारदं मुनिसत्तमम् ।।
कथयस्व महाबुद्धे सर्वं जानासि सर्व्वतः ।। ८ ।।
ईदृक्काले समायाते किं कर्त्तव्यं महामुने ।।
नाज्ञातं त्रिषु लोकेषु किंचिद्देवर्षिसत्तम ।। ९ ।।
मुहूर्तं ध्यानमालंब्य किंचिन्मील्य च लोचने ।।
उपायं कथयामास सर्वदुःखविनाशनम् ।। 5.2.16.१० ।।
महाकालवने रम्ये शीघ्रं गच्छंतु विह्वलाः ।।
इन्द्रद्युम्नेश्वरस्यैव पश्चाद्भागे व्यवस्थिताः ।।
सेवध्वं परमं लिंगमीशानेश्वरसंज्ञकम् ।। ११ ।।
पुरा चेशानकल्पे तु ईशानेन सुखेन हि ।।
मुनिना श्रोत्रियेणैव वेदाभ्यासरतेन वै ।।
उत्तमांगपदं लब्धं शंकरस्य च मूर्द्धनि ।। १२ ।।
तस्याराधनमात्रेण मनोऽभीष्टं हि लभ्यते ।। १३ ।।
नारदस्य वचः श्रुत्वा देवा मुदितमानसाः ।।
जग्मुर्यत्र महल्लिंगं स्तुतिं सर्वेऽप्यकुर्वत ।। १४ ।।
ईशानेशान ईशान तत्पुरुष नमोऽस्तु ते ।।
नमो वाम महाघोर सद्योमुख नमोनमः ।। ।। १५ ।।
त्र्यक्ष भर्ग महादेव उमाकांत नमोनमः ।।
नमः शिव नमो भीम नमः सर्व नमोनमः ।। १६ ।।
नमः शंभो नमो रुद्र विरूपाक्ष नमोनमः ।।
त्वया देव प्रजाः सर्वाः सदेवासुरमानुषाः ।। १७ ।।
स्थावराणि च भूतानि जंगमानि चराणि च ।।
ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महेश्वर ।। १८।।
शिरस्ते गगनं देवा नेत्रे शशिदिवाकरौ ।।
निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युतः ।। १९ ।।
बाहवस्ते दिशः सर्वाः कुक्षिश्चैव महार्णवः ।।
उरू ते पर्वता देव चरणौ पृथिवी मता ।। 5.2.16.२० ।।
इंद्रसोमाग्निवरुणा देवासुरमहोरगाः ।।
प्रह्वास्त्वामनुतिष्ठंति स्तुवंतो विविधैः स्तवैः ।। २१ ।।
त्वया व्याप्तानि भूतानि सर्वाणि भुवनेश्वर ।।
त्वयि तुष्टे जगत्तुष्टं त्वयि क्रुद्धे महद्भयम् ।। २२ ।।
भयानामपनेतासि त्वमेकः शत्रुसूदनः ।।
असुराणां समर्थानां विनाशश्च त्वया कृतः ।। २३ ।।
न च विक्रमणैर्देव निर्वाणमगमत्परम् ।।
त्वं हि कर्त्ता विकर्त्ता च भूतानामिह सर्वशः ।। २४ ।।
आराधयित्वा सर्वे ते नमस्यंति च सर्वशः ।।
एतस्मिन्नंतरे देवि लिंगमध्यात्समुत्थिता ।। २५ ।।
धूमावृता महा ज्वाला यया दग्धः स दानवः ।।
तुहुण्डो मुंडपुत्रस्तु ससैन्यपरिवारितः ।। २६ ।।
स्वाधिकारांश्च संप्रापुर्लिंगस्यास्य प्रभावतः ।।
सुरैश्चाख्या समादिष्टा लिंगस्यास्यैव हर्षितः ।। २७ ।।
ऐश्वर्यशीलमस्यास्तीत्यस्माकं च विनिश्चितम् ।।
ईशान इति विख्यातस्त्रैलोक्ये च भविष्यति ।। २८ ।।
ईशानेश्वरसंज्ञं तु ये समाराधयंति च ।।
कीर्तिर्लक्ष्मीर्ध्रुवा तेषां सिद्धिः प्रीतिर्भविष्यति ।। २९ ।।
पूज्यमानः सदा देवैर्गंधर्वाप्सरसांगणैः ।।
स्वर्गलोकं गमिष्यंति विमानैरुज्ज्वलैर्मुदा ।। 5.2.16.३० ।।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः स्त्रियः कुमारिकाः ।।
यथाभिलषितान्कामानाप्नुवंति न संशयः ।।३१।।
यः करोति नरः सम्यग्दर्शनं नियमस्थितः ।।
न कुत्र तस्य हानिः स्याद्यावजन्मशतं भवेत् ।। ३२ ।।
सर्वदा सर्वकार्येषु ते समर्था यशस्विनि ।।
ईशानेश्वरसंज्ञं तु ये पश्यंति दिनेदिने ।। ३३ ।।
एवं ते कथितो देवि प्रभावः पापनाशनः ।।
ईशानेश्वरदेवस्य श्रूयतामप्सरेश्वरः ।। ३४ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य ईशानेश्वरमाहात्म्यवर्णनंनाम षोडशोऽध्यायः ।। १६ ।।