स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः १३

विकिस्रोतः तः

।। हर उवाच ।। ।।
विद्धि कामेश्वरं देवि तत्र लिंगं त्रयोदशम् ।।
यस्य दर्शनमात्रेण सौभाग्यं जायते शुभम् ।। १ ।।
ब्रह्मणो ध्यायमानस्य प्रजाकामस्य पार्वति ।।
उत्पन्नोऽर्कप्रभाकारो लावण्यनिचयो महान् ।।
अलंकारावृतः कांतो दिव्यमंडनमंडितः ।। २ ।।
तं दृष्ट्वा परमं दिव्यं कांतं सौभाग्यशोभितम् ।।
अप्रतर्क्यमविज्ञेयं ब्रह्मा प्रोवाच तं तदा ।। ३ ।।
को भवान्किं निमित्तं तु इह वा किमुपागतः ।।
वद त्वं मन्मथाकार कंदर्प इव लक्ष्यमे ।। ४ ।।
ब्रह्मणो वचनं श्रुत्वा प्रोक्तं तेनैव सादरम् ।।
अहं ते सृष्टिकामस्य भावेन विहितोंशकः ।।
प्रजापते महाभाग किं करोमि दिशस्व माम् ।। ५
।। ब्रह्मोवाच ।। ।।
मया तु सृष्टिकामेन ये प्रजापतयः कृताः ।।
न ते शक्ताः प्रजाः स्रष्टुं कामैते सुखमाप्नुयुः ।। ६ ।।
त्वमग्रणीः प्रजासर्गे त्वदधीनमिदं जगत् ।।
कुरु सृष्टिं विचित्रां च कंदर्प मम शासनात्।।७।।
इत्युक्तो ब्रह्मणा देवि जगामादर्शनं स्मरः।।
क्रुद्धेन ब्रह्मणा शप्तो विनाशं यास्यसि ध्रुवम्।।८।।
मद्वचो न कृतं यस्माद्भवनेत्रोद्भवाग्निना।।
तच्छ्रुत्वा दारुणं शापं कंदर्पो भयविह्वलः।।
ब्रह्माणं प्रणतो भूत्वा प्रह्वः प्रांजलिरब्रवीत्।।९।।
प्रसीद देवदेवेश अनन्यगतिके मयि।।
नहि निर्भरतां यांति प्रभूणामाश्रिते रुषः।।5.2.13.१०।।
।।ब्रह्मोवाच।।
यस्मात्ते भक्तिरतुला ममोपरि महामते ।।
तस्मात्स्थानानि दत्तानि तव द्वादश संख्यया ।। ११ ।।
कामिनीनां कटाक्षेषु केशपाशेषु चैव हि ।।
जघनस्तननाभौ तु दोर्मूलेऽधरपल्लवे ।। १२ ।।
वसंते कोकिलालापे ज्योत्स्नायां जलदागमे ।।
कामार्थे च मया दत्तौ सबलौ मधुमाधवौ ।। १३ ।।
स्त्रियोऽमृतमया धन्या संसारे सारकारणम् ।।
रतेश्चैव निधानानि संतानार्थं विनिर्मिताः ।। १४ ।।
एताभिर्वरनारीभिर्जगदेवं वशीकृतम् ।।
स्त्रीभिरासक्तमनसः कुतः पुंसो मनस्विता ।। १५ ।।
कृतश्चापि स्ववशता स्त्रीगौरवगतस्य च ।।
स्त्रिय एव विनाशाय पूर्वेषाममरद्विषाम् ।। १६ ।।
स्त्रिय एव हि देवानामिंद्रादीनां भयाश्रयाः ।।
नारीभिर्लब्धवृत्तेश्च पुरुषस्यापि सर्वतः ।। १७ ।।
पराभवः प्रभवति विवशत्वं च भीषणम् ।।
स्त्रीभिराजितचित्तस्य सुलभो विपदोदयः ।। १८ ।।
इत्युक्तो मन्मथो भद्रे ब्रह्मणा च विसर्जितः ।।
दत्त्वा वै पुष्पकं चापं तथा वै बाणपंचकम् ।। १९ ।।
रतिप्रीतिसमायुक्तो झषकेतुर्मनोभवः ।।
विडंबयति लोकांस्त्रीन्ससहायो धनुर्धरः ।। 5.2.13.२० ।।
पंडितांस्तापसान्वीरान्सुधियश्च जितेंद्रियान् ।।
काले कुशलभावज्ञान्देवान्पितृगणांस्तथा ।। २१ ।।
भूतप्रेतपिशाचांश्च यक्षगंधर्वकिंनरान् ।।
कृमिकीटपतंगांश्च भूतग्रामं चतुर्विधम् ।। २२ ।।
ममार्थे च कृतो यत्नश्चिंतयित्वा पुनःपुनः ।।
दुःसाध्यः शंकरो देवः श्रूयते भुवनत्रये ।।
तस्य देवस्य कः शक्तः क्षोभणार्थं मया विना ।। २३ ।।
इत्युक्त्वा तु समायातो यत्राहं तपसि स्थितः ।।
रत्या युतः स गर्वेण सख्याऽयं मधुनाश्रितः ।। ।। २४ ।।
दृष्टवान्मां तदा कामः पिंजकूटजटासटम् ।।
किंचिन्निमित्ततोऽनिद्रं भोगींद्रकृतभूषणम् ।। २५ ।।
प्रेक्षमाणमृजुस्थानं नासावंशाग्र लोचनम्।।
ततोऽवमरकाकारमालंब्याश्रयमात्रकम्।।२६।।
प्रविष्टः कररंध्रेण मदनो हृदये मम।।
रत्यर्थं कामतप्तेन संस्मृता भवती मया।।२७।।
समाधेर्भावना दिव्या लक्ष्यप्रत्यक्षरूपिणी ।।
गता मम विमलता तत्क्षणादेव पार्वति ।। २८ ।।
उन्मत्ततां गतोऽहं वै विकृतिं मदनात्मिकाम् ।।
निराकृतं मया देवि धैर्यमालंब्य यत्नतः ।। २९ ।।
दृष्टो मयात्महृदये मन्मथोऽपथ्यकारकः ।।
देहस्थं निर्दहिष्यामि प्रत्याहारप्रयोगतः ।। 5.2.13.३० ।।
अमानुषीं व्रजेद्योनिं योगिनं प्रविशेद्यदि ।।
बाह्याग्नौ धारणां कृत्वा देहसंस्थे विनिर्दहेत् ।। ३१ ।।
एतस्मिन्नंतरे सोऽपि संतप्तो मदनो भृशम्।।
इच्छाशरीरो दुर्ज्ञेयो निःसृतो व्यसनात्मकः ।। ३२ ।।
सहकारतरोर्मूले भूत्वा मधुसखस्तदा ।।
मुमोच मोहनं नाम मार्गणं मकरध्वजः ।। ३३ ।।
स चापि हृदये प्राप्तो मदीये लीलया शरः ।।
ततोहं कुपितो देवि नेत्रं कृत्वा तृतीयकम् ।। ३४ ।।
तन्नेत्रविस्फुलिंगेन क्रोशतां नाकवासिनाम्।।
गमितो भस्मसात्तूर्णं कंदर्पः कामिदर्पकः ।। ३५ ।।
तस्मिन्दग्धे ततः कामे रतिः शोकपरायणा ।।
विललाप सुदुःखार्ता पतिभक्तिपरायणा ।। ।। ३६ ।।
 हा नाथ हा मम प्राण हा स्वामिन्किं जहासि माम् ।।
पतिव्रतां पतिप्राणां कस्मान्मां त्यजसि प्रभो ।। ३७ ।।
एवं च विलपंतीं तां वागुवा चाशरीरिणी ।।
मा त्वं रुद विशालाक्षि पुनरेष पतिस्तव ।।
प्रसादाद्देवदेवस्य उत्थास्यति शिवस्य च ।। ३८ ।।
प्रार्थितोऽहं ततो देवि तस्मिन्नवसरे प्रिये ।।
एष कामस्त्वया दग्धः क्रोधेन परमेश्वर ।। ३९ ।।
येनानेन प्रभो नष्टा सृष्टिर्वै धरणीतले ।।
कृपां विधेहि देवेश दीनायै देहि मे पतिम् ।। ।। 5.2.13.४० ।।
ततोऽहमब्रुवं देवि तां रतिं दीनभाषिणीम् ।।
अनेन मदनेनाद्य कृतं तरलितं मनः ।। ४१।।
ततो दग्धं मयास्यांगं जीवये त्वत्प्रसादतः।।
अंगं दग्धं मयास्याद्य तृतीयनेत्रवह्निना ।। ४२ ।।
तस्मादनंग एवैष प्रजासु विचरिष्यति ।।
अनंगोऽपि यदावंत्यां लिंगं संसेवयिष्यति ।। ४३ ।।
देवानामनुकंपार्थमनंगोऽसौ कृतो मया ।।
त्रिदशैश्च समादिष्टः कामोऽवंत्यां जगाम ह ।। ४४ ।।
तत्र गत्वा ह्यनंगोऽपि भक्तिभावसमन्वितः ।।
ददर्श परमं लिंगं समीहितफलप्रदम् ।। ४५ ।।
प्रोक्तं तुष्टेन लिंगेन काम काममवाप्स्यसि ।।
अनंगोऽपि समर्थस्त्वं भविष्यसि न संशयः ।। ४६ ।।
जन्म प्राप्स्यति रुक्मिण्या गर्भे कृष्णस्य संगमात् ।।
भविता विश्रुतो लोके नाम्ना शंबरसूदनः ।। ४७ ।।
अनंगेन त्वया यस्मान्मनसा तोषि तोऽपि सन्।।
तस्मात्ख्यातिं गमिष्यामि त्वन्नाम्ना काम सर्वदा ।। ४८ ।।
ये त्वां पश्यंति कंदर्पं भक्त्या परमया युताः ।।
प्राप्नुवंति गतिं नित्यं ते सदानंददायिकाम् ।। ४९ ।।
दीर्घायुषो भविष्यंति रूपं तेषां भविष्यति ।।
कुलं च निर्मलं तेषां ये त्वां पश्यंति मन्मथ ।। 5.2.13.५० ।।
ऐश्वर्यं परमान्भोगान्स्त्रियो दिव्यकलान्विताः ।।
अरोगा संततिस्तेषां भविष्यति न संशयः ।। ५१ ।।
चैत्रशुक्लत्रयोदश्यां ये मां पश्यंति भक्तितः ।।
देवलोकं समासाद्य मोदिष्यंति हि ते नराः ।। ५२ ।।
यक्षा गणेश्वराः सिद्धाः सिद्धगंधर्वसेविताः ।।
रुद्रलोकं गमिष्यंति विमानैः सर्वकामिकैः ।। ५३ ।।
इत्युक्तः कामदेवोपि लिंगेन परमेश्वरि ।।
तत्राश्रमपदं चक्रे तस्य लिंगस्य संनिधौ ।।५४ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
कामेश्वरस्य शृण्वग्रे कुटुंबेश्वरवैभवम् ।। ५५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये कामेश्वरमाहात्म्यवर्णनंनाम त्रयोदशोऽध्यायः ।। १३ ।।