स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ११

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

।। ।। श्रीमहादेव उवाच ।। ।।
लिंगमेकादशं विद्धि देवि सिद्धेश्वरं शुभम् ।।
वीरभद्रसमीपे तु सर्वसिद्धिप्रदायकम् ।।१।।
देव दारुवने पूर्वं विप्रा योगसमन्विताः ।।
स्पर्द्धया सिद्धिलब्ध्यर्थं तपोऽकुर्वत संयताः।।२।।
शाकाहारा निराहाराः पर्णाहारास्तथापरे ।।
दंतोलूखलिनः केचिदश्मकुट्टास्तथा परे ।। ३ ।।
केचिद्वीरासनरता धूम्रपानरताः परे ।।
पादैरूर्ध्वैरधोवक्त्रैः केचिदभ्रावकाशिकाः ।। ४ ।।
कृच्छ्रचांद्रायणादीनि कुर्वन्त्यन्ये समाहिताः ।।
न चापि परमा प्राप्ता सिद्धिर्वर्षशतैरपि ।। ५ ।।
दुःखार्त्ताश्चिंतयामासुः कथं सिद्धिर्भविष्यति ।।
तपसा दुष्करेणैव सिद्धिर्न वात्र लभ्यते ।। ६ ।।
व्यर्था श्रुतिस्तथा जाता या गीता मुनिभिः पुरा ।।
तपसा लभ्यते सर्वं तपोमूलमिदं जगत् ।। ७ ।।
अंजनं गुटिका चैव पादुकागमनं तथा ।।
खड्गसिद्धिर्बिले वासश्चिंतामणिरपेक्षितम् ।। ८ ।।
एवं तेऽचिंतयसिद्धाः परमामर्षपूरिताः ।।
उत्सार्य तत्तपोधर्मं नास्तिक्यं भावमागताः ।। ९ ।।
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ।।
आश्वासयंती तान्सिद्धान्माता पुत्रमिवौरसम् ।। 5.2.11.१० ।।
माऽवमन्यध्वमार्या हि श्रुतिर्व्यर्था महीतले ।।
तपो न निंद्यं धर्मो वा श्रूयतामत्र कारणम् ।। ११ ।।
भविता भवतां सिद्धिरत्र नैव तपोधनाः ।।
स्पर्द्धया सिद्धिकामैश्च तपस्तद्धि कृतं वृथा ।। १२ ।।
कामाच्च तपसो हानिरहंकाराच्च विस्मयः ।।
क्रोधाल्लोभात्तथा मोहाज्जायते नात्र संशयः ।। ।। १३ ।।
स्पर्द्धया रहितो यस्तु कामक्रोधविवर्जितः ।।
करोति कर्म भावेन स तपःफलमश्नुते ।। १४ ।।
वासनावासितो यस्तु एकचित्तः समाहितः ।।
आस्तिकः श्रद्दधानश्च स तपःफलमश्नुते ।। १५ ।।
मातृवत्परदाराणि परद्रव्याणि लोष्टवत् ।।
यः पश्यति नरो नित्यं स तपः फलमश्नुते ।। १६ ।।
ईदृशे पुरुषे विप्रास्तपःसिद्धिश्च दृश्यते ।।
भवंतः स्पर्द्धया चैव कृतवंतश्च दुष्करम् ।।१७।।
तस्माद्वर्षसहस्रेण नैव सिद्धिर्भविष्यति ।।
यदि मद्वचनं कार्यं निर्विकल्पेन चेतसा ।। १८ ।।
महाकालवनं गत्वा यूयं सर्वे समाहिताः ।।
आराधयध्वं देवेशं सदा सिद्धिप्रदायकम् ।। १९ ।।
दर्शनात्तस्य देवस्य लभ्यते सिद्धिरुत्तमा ।।
सनकादयोऽपि ये देवमासाद्य योगतत्पराः ।।
पूजयित्वापि भावेन संसिद्धिं परमां गताः ।। 5.2.11.२० ।।
राज्ञा वसुमता पूर्वं खङ्गसिद्धिः सुदुर्लभा ।।
प्राप्ता दर्शनमात्रेण लिंगस्यास्य प्रभावतः ।।२१।।
पादुकागमनं लब्धं हैहयेन महात्मना ।।
कृतवीरात्मजेनैव वाहानां च सहस्रकम् ।।२२।।
अदृश्यकरणं चैव प्राप्तं चानूरुणा पुरा।।
स्वर्णसिद्धिश्च सिद्धेन पादलेपो रसायनम्।।
अंजनं च तथा लब्धं लिंगस्यास्य च दर्शनात्।।२३।।
आकाशवचनं श्रुत्वा ते सिद्धा विस्मयान्विताः।।
समायाता मुदा युक्ता महाकालवनोत्तमे।।२४।।
सर्वसिद्धिप्रदं चैव ददृशुर्लिंगमुत्तमम् ।।
दर्शनात्तस्य लिंगस्य संसिद्धिं परमां गताः ।। २५ ।।
ततःप्रभृति विख्यातो देवैः सिद्धेश्वरः परः ।।
ये पश्यंति नरा देवि देवं सिद्धेश्वरं परम् ।।
न तेषां दुर्लभा सिद्धिर्भविष्यति महीतले ।। २६ ।।
सिद्धेश्वरं गमिष्यंति भावहीनाः प्रसंगतः ।।
संसिद्धास्ते भविष्यंति नियता नात्र संशयः ।। २७ ।।
महापातकसंयुक्तो यस्तु सिद्धेश्वरं स्मरेत् ।।
संसिद्धस्तु भवेन्नूनं ज्ञानैश्वर्यसमन्वितः ।। २८ ।।
नियमेन तु यः पश्येद्देवं सिद्धेश्वरं परम् ।।
षण्मासाज्जायते सिद्धिर्वांछिता या भवेद्धृदि ।। २९ ।।
अष्टम्यां च चतुर्द्दश्यां कृष्णपक्षे विशेषतः ।।
सिद्धेश्वरं तु यः पश्येत्स पश्येन्मम मंदिरम् ।। 5.2.11.३० ।।
अपुत्रो लभते पुत्रं निर्धनस्तु धनं लभेत् ।।
विद्यार्थी लभते विद्यां भार्यार्थी लभते स्त्रियम् ।। ।। ३१ ।।
संक्रांतौ सोमवारे च ग्रहणे चैव योऽर्चयेत् ।।
कुलानां शतमुद्धृत्य पैतृकं स्वाधिकं प्रिये ।।
मोदते मम लोके च यावदिंद्राश्चतुर्दश ।।३२।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
सिद्धेश्वरस्य देवस्य लोकपालेश्वरं शृणु ।। ३३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये सिद्धेश्वरमाहात्म्यवर्णनंनामैकादशोऽध्यायः ।। ११ ।। ।। छ ।।