स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः १०

विकिस्रोतः तः

।। श्रीमहादेव उवाच ।। ।।
कर्कोटेश्वरसंज्ञं च दशमं विद्धि पार्वति ।।
यस्य दर्शनमात्रेण विषैर्नैवाभिभूयते ।। १ ।।
मात्रा च भुजगाः शप्ताः स्ववचोभंगकारणात् ।।
मद्वचो न कृतं यस्माद्भवद्भिः पापकर्मणि ।। २ ।।
वह्निर्हि धक्ष्यते युष्मान्सत्रे जन्मेजयस्य हि ।।
श्रुत्वा शापं ततो मातुर्मृत्युभीताश्च पन्नगाः ।। ३ ।।
गताः सर्वे यथास्थानं जीवनार्थं यशस्विनि ।।
हिमशैलं गतः शेषस्तपः कर्त्तुं ततः प्रिये ।। ४ ।।
सर्पश्च कंबलोनाम लोकं पैतामहं गतः ।।
शंखचूडोऽथ नागेंद्रो मणिपूरं गतस्ततः ।। ५ ।।
यमुनांभसि संलीनः कालियो भयविह्वलः ।। ६ ।।
एवं ते सर्परा जानो नागाः सुस्मितशोभने ।।
कुरुक्षेत्रे गताः सर्वे तपश्चर्तुं यशस्विनि।।
धृतराष्ट्रस्तथा नागः प्रयागमगमत्प्रिये ४७।।।
एलापत्रस्तु नागेंद्रो ब्रह्मलोकं जगाम ह ।।
प्रणम्य तमथोवाच मातुरुत्संगसंस्थिताः ।। ८ ।।
मात्रा शप्ता वयं देव क्रुद्धया तव संनिधौ ।।
सा कथं शापकाले तु भवता न निवारि ता ।। ९ ।।
।। ब्रह्मोवाच ।। ।।
निषिद्धा नैव ते माता भाविकर्मबलान्मम ।।
सर्पसत्रो हि भविता राज्ञो जन्मेजयस्य च ।। 5.2.10.१० ।।
त्वं च वत्स ममादेशान्महाकालवनं व्रज ।।]
शांत्यर्थं सर्वनागानां भक्त्या युक्तस्तु सत्वरम् ।।११।।
समाराधय देवेशं महामायासमीपतः।।
भविता तत्र ते सिद्धि देवदेवप्रसादतः ।। १२ ।।
तत्र गत्वाथ कर्कोटः स्वयं देवि समाहितः ।।
देवमाराधयामास महामायापुरःस्थितः ।।
तस्य तुष्टोथ देवेशो वरं प्रादाद्य शस्विनि ।। १३ ।।
ये दंदशूकाः क्रूराश्च पापाचारा विषोल्बणाः ।।
तेषां विनाशो भविता न तु ये धर्मचारिणः ।। १४ ।।
भक्त्या तवाद्य तुष्टोस्मि त्वं मे सायुज्यतां व्रज ।।
देवे तत्र विलीनोथ नागः कर्कोटकः प्रिये ।। १५ ।।
कर्कोटकेश्वरः ख्यातस्ततो देवो महेश्वरः।।
तस्य दर्शनमात्रेण व्याधयो यांति संक्षयम् ।। १६ ।।
यस्तं पूजयते देवं भक्त्या युक्तो हि मानवः ।।
ऐश्वर्यं जायते तस्य कुलानां तारयेच्छतम् ।। १७ ।।
व्याधितो व्याधितो मुक्तो दुःखी दुःखात्प्रमुच्यते ।।
दर्शनात्तु भवेत्सद्य सर्वपातकवर्जितः ।। १८ ।।
नियमेन प्रपश्यंति ये च कर्कोटकेश्वरम् ।।
ते सर्वकामानाप्स्यंति वसंत्यंते च मत्पुरे ।। १९ ।।
पंचम्यां च चतुर्दश्यां ये पश्यंति रवेर्दिने ।।
न तेषां तु कुले सर्पाः पीडां कुर्वंति कर्हिचित् ।। 5.2.10.२० ।।
या नारी दुर्भगा सापि सौभाग्यं लभते सदा ।।
गुर्विणी लभते पुत्रमरोगं कुलभूषणम् ।।
शिशुग्रहाश्च नश्यंति नापमृत्युभयं भवेत् ।।२१।।
यंयं काममभिध्यायेन्मन सा भक्तिमान्नरः ।।
तंतं दुर्ल्लभमाप्नोति कर्कोटेश्वरदर्शनात् ।। २२ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
कर्कोटेश्वरदेवस्य शृणु सिद्धेश्वरं परम् ।।२३।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये कर्कोटेश्वरमाहात्म्यवर्णनंनाम दशमोऽध्यायः ।। १०