स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ०६

विकिस्रोतः तः

।। श्रीमहादेव उवाच ।। ।।।
स्वर्णज्वालेश्वरं षष्ठं विद्धि चात्र यशस्विनि ।।
यस्य दर्शनमात्रेण धनवानिह जायते ।। १ ।।
पुरा सार्द्धं त्वया देवि क्रीडतो मम मंदिरे ।।
जातं वर्षशतं दिव्यं सुरतैकरसस्य च ।। २ ।।
देवैः सर्वैस्ततो वह्निः प्रेरितो मम संनिधौ ।।
ततो वह्निः समायातस्त्रैलोक्यार्थे यशस्विनि।। ३ ।।
ततो वह्निमुखे क्षिप्तं वीर्यं स्वं क्रीडता मया ।।
दह्यमानस्तदा तेन गंगां वह्निर्जगाम ह ।। ४ ।।
तत्र गत्वा प्रचिक्षेप वीर्यमग्निः सुदुर्द्धरम् ।।
तथापि दह्यते वह्निर्वीर्यशेषेण पार्वति ।। ५ ।।
जातं रम्यं ततो दिव्यं वीर्यशेषेण कांचनम् ।।
ज्वलंतं चातितापेन दुःसहं दुर्द्धरं प्रिये ।। ६ ।।
अग्नेरपत्यं प्रथमं दृष्ट्वोत्पन्नं तु पार्वति ।।
लोभाभिभूता असुराः सुरा गन्धर्वकिन्नराः ।। ।। ७ ।।
यक्षाः साध्याः पिशाचाश्च मनुष्या राक्षसाः खगाः ।।
अभ्यधावन्सुसंरब्धास्ते सुवर्णजिघृक्षवः ।। ८ ।।
सुवर्णार्थे महान्नादो ममेदमिति जल्पताम् ।।
अज्ञानात्संगरश्चैव संजातः प्राणहारकः ।। ९ ।।
अथावरणमुख्यानि नानाप्रहरणानि च ।।
प्रगृह्याभ्यनदन्नादैर्देवैः सार्द्धं यशस्विनि ।। 5.2.6.१० ।।
असुरा असुरैः सार्द्धं मनुष्या मानुषैः सह ।।
गन्धर्वाः सह गन्धर्वैः किंनरैः सह किंनराः ।। ।। ११ ।।
भूतैः सार्द्धं च भूतानि राक्षसैः सह राक्षसाः ।।
वेतालैः सह वेताला युद्धं चक्रुः सुदारुणम् ।। १२ ।।
पुत्रस्तु पितरं द्वेष्टि पिता पुत्रं तथैव च ।।
हंति भार्या स्वभर्तारं भर्ता च स्वां प्रियां तथा ।। १३ ।।
मातरं स्वसुतो हंति माता पुत्रं हिनस्ति च ।।
ततो वैरविनिर्बंधः संजातः स्वर्णकारणात्।। १४ ।।
सुराणामसुराणां च सर्वं घोरतरं महत् ।।
प्रासाश्च विपुलास्तीक्ष्णा न्यपतंत सहस्रशः ।।
तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च ।। १५ ।।
सुवर्णार्थे महादेवि वमंतो रुधिरं बहु ।। १६ ।।
असिशक्तिगदाऋष्ट्यो निपेतुर्धरणीतले ।।
छिन्नानि पट्टिशैश्चैव शिरांसि युधि दारुणैः ।। १७ ।।
रुधिरेणावलिप्तांगा निहताश्च परस्परम् ।।
अद्रीणामिव कूटानि धातुयुक्तानि शेरते ।। १८ ।।
हाहाकारः समभवद्भयकृच्च सहस्रशः ।।
अन्योन्यं छिंदतां शस्त्रैः सुवर्णस्य च कारणात् ।। १९ ।।
परिघैरायसैः पाशैर्वज्रकल्पैश्च मुष्टिभिः ।।
निघ्नतां समरे ऽन्योन्यं शब्दो दिवमिवास्पृशत् ।। 5.2.6.२० ।।
छिंधिभिंधि प्रधाव त्वं पातयाधिसरेति च ।।
अश्रूयन्त महाघोराः शब्दास्तत्र समंततः ।। २१ ।।
एवं तु तुमुले युद्धे वर्त्तमाने महाभये ।।
कंपिता धरणी देवि देवास्त्रस्ताः सवासवाः ।। २२ ।।
क्षुभ्यंति स्म समुद्राश्च चेलुश्च धरणीधराः ।।
तस्यार्थे पीडितं सर्वं सदेवासुरमानुषम्।।२३।।
ऋषयो वालखिल्याद्या देवाः शक्रपुरोगमाः।।
बृहस्पतिं पुरस्कृत्य ब्रह्मलोकं गताः स्त्रियः।।२४।।
सोच्छ्वासा कथयामासुर्जर्जरीकृतमस्तकाः ।।
वृत्तांतं विस्तरात्सर्वं लोकत्रयविनाशनम् ।। २५ ।।
तच्छ्रुत्वा वचनं तेषां ब्रह्मा लोकपितामहः ।।
चिंतयित्वा च तैः सार्द्धमाजगाम ममांतिकम् ।। २६ ।।
मया पृष्टास्तु ते सर्वे केनैते जर्जरीकृताः ।।
शस्त्रास्त्रैः पीडिताः केन कस्माद्वो भयमागतम् ।। २७ ।।
कश्चासौ दानवो दुष्टो येन वै पीडिता भृशम् ।।
तत्सर्वं कथितं देवि ममाग्रे भयविह्वलैः ।। २८ ।।
ते मामूचुस्तदा देवा ब्रह्माद्या भयकारणम् ।। ।। २९ ।।
लोभात्सर्वे विनष्टाः स्म सुवर्णस्य च कारणात् ।।
पीडितं च जगत्सर्वं सदेवासुरमानुषम् ।। 5.2.6.३० ।।
इति तेषां वचः श्रुत्वा मया ज्ञातं वरानने ।।
तस्यार्थे कलहो घोरः संजातो हि परस्परम् ।। ३१ ।।
लोकत्रयविनाशश्च सहसा येन वै कृतः ।।
यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघात कम् ।। ३२ ।।
ब्रह्महा वह्निपुत्रस्तु यमुद्दिश्य मृतो जनः ।।
शरीरं शबलं चैव सविकारं भविष्यति ।। ३३ ।।
धातवो हि भविष्यंति तस्य देहे न संशयः ।।
लक्ष्यते दुःखमतुलं छेददाहादिघर्षणम् ।। ३४ ।।
एतस्मिन्नंतरे वह्निर्दृष्ट्वा पुत्रस्य चेष्टितम् ।।
ज्ञात्वा क्रोधं मदीयं तु भीतो वै पुत्रकार णात् ।। ३५ ।।
आजगाम सुवर्णेन सार्द्धं देवि ममांतिकम् ।।
प्रसादितोऽहं पुत्रार्थे वह्निना हि वरानने ।। ३६ ।।
रक्षणीयस्त्वया देव पुत्रोयं तव शंकर ।।
भाण्डागारे स्वकीये तु क्रियतां परमेश्वर ।। ३७ ।।
त्वयि तुष्टे महादेव प्राप्योऽयं नात्र संशयः ।।
इच्छया दीयतां देवि यस्य कस्य जनस्य च ।। ३८ ।।
इति तस्य वचः श्रुत्वा पितृदेवमुखस्य च ।।
तथेति च प्रतिज्ञातं मया लोभाद्यशस्विनि ।। ३९ ।
स्नेहान्मया वह्निपुत्र उत्संगे च कृतस्तदा ।।
स्नेहाद्वै चुंबितो मूर्ध्नि परिष्वक्तः पुनःपुनः ।। 5.2.6.४० ।।
ददामि ते महाभाग वरं वरय शोभनम् ।।
परितुष्टोऽस्मि वै कामं यथेष्टं समवाप्नुहि ।। ४१ ।।
अहमाज्ञापयामि त्वां श्रेयश्चैवमवाप्स्यसि ।।
ममाभीष्टकरं स्थानं विद्यते पृथिवीतले ।। ४२ ।।
अक्षयं प्रलये पुत्र महाकालवनं शुभम् ।।
तत्रैव विद्यते लिंगं कर्कोटकस्य दक्षिणे ।। ४३ ।।
महापापहरं पुत्र दर्शनाद्दीप्तिदायकम् ।।
तस्य दर्शनमात्रेण कृतकृत्यो भविष्यसि ।। ४४ ।।
पुण्यश्चैव पवित्रेण दुर्लभश्च भविष्यति ।।
अकुलीनः कुलीनस्तु समलो निर्मलो नरः ।। ४५ ।।
विरूपो रूपवांश्चैव त्वत्प्रसादाद्भविष्यति ।।
दानानि परिपूर्णानि व्रतानि नियमास्तथा ।। ४६ ।।
यज्ञाश्चैवोपवासाश्च तीर्थं पिंडादिकं त्वया ।।
सुसंपूर्णा भविष्यंति तव दानेन सुव्रत ।। ४७ ।।
सर्वेषां चैव रत्नानामाधिपत्यं करिष्यसि ।।
प्रियाभीष्टो हि देवानां लोकानां च भविष्यसि ।।४८।।
इत्युक्तोऽसौ महादेवि दिव्यरूपो वरानने ।।
ज्वालामाला वृतः पुण्यो निर्मलो हि बभूव ह ।।४९।।
लिंगेनोक्तः सुवर्णस्तु दिष्ट्यादिष्ट्येति कांचनम् ।।
अद्यप्रभृति नाम्ना वै ख्यातिं यास्यसि भूतले ।। 5.2.6.५० ।।
स्थातव्यं मत्समीपे तु वह्निपुत्र त्वया सदा ।।
अक्षया भविता कीर्त्तिस्त्वदीया भुवनत्रये ।। ५१ ।।
इत्युक्तो देवि लिंगेन वह्निपुत्रोऽतिनिर्मलः ।।
ज्वालावृततनुर्जातः सूर्यकोटिसमप्रभः ।। ५२ ।।
दीप्तिर्लब्धा सुवर्णेन ज्वालामालाकुला तदा ।।
अतो देवि सुविख्यातः स्वर्णज्वालेश्वरः शिवः ।। ५३ ।।
यस्तमर्चयते भक्त्या स्वर्णज्वालेश्वरं शिवम् ।।
तस्य संजायते देवि विजयो राज्यमूर्जितम् ।।
ऐश्वर्यं दानशक्तिश्च पुत्रपौत्रमनंतकम् ।। ।। ५४ ।।
ज्ञानतोऽज्ञानतो वापि यत्पापं कुरुते नरः ।।
तत्क्षालयति देहोत्थं दर्शनान्नात्र संशयः ।। ५५ ।।
यत्फलं पिंडदानेन गयायां लभते नरः ।।
तत्फलं द्विगुणं प्रोक्तं पूजया नात्र संशयः ।। ५६ ।।
गायत्र्याः शतसाहस्रैः सम्यग्जप्तैश्च यत्फलम्।।
तत्फलं समवाप्नोति स्वर्णज्वालेश्वरस्तुतेः ।। ५७ ।।
यत्पुण्यं सर्वदानेन दत्तेन विधिपूर्वकम् ।।
तत्फलं समवाप्नोति कीर्तनान्नात्र संशयः ।। ५८ ।।
पूजयंति चतुर्दश्यां स्वर्णज्वालेश्वरं तु ये ।।
पूज्यंते ते सदा लक्ष्म्या पूरयंत्या मनोरथान् ।। ५९ ।।
रक्षितं त्रिदशैर्देवि गणैर्नानाविधैस्तथा ।।
लिंगं कश्चिन्न जानाति मम मायाविमोहितः ।। 5.2.6.६० ।।
मम प्रसादात्तद्देवि दृश्यते लिंगमुत्तमम् ।।
एतत्ते कथितं सम्यगन्यच्छृणु वरानने ।। ६१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये स्वर्णज्वालेश्वरमाहात्म्यवर्णनंनाम षष्ठोऽध्यायः ।। ६ ।।