स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ०१

विकिस्रोतः तः
Jump to navigation Jump to search


।।अथ श्रीस्कांदे महापुराणे पञ्चमआवन्त्यखंडे ऽवंतीस्थचतुरशीतिलिङ्गमाहात्म्यं द्वितीयं प्रारभ्यते।।(५-२)।।
।। श्रीगणेशाय नमः ।।
श्रीमहाकालाय नमः ।।
।। अथावन्त्यखण्डेऽवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यं प्रारभ्यते ।।
।। उमोवाच ।। ।।
पृथिव्यां यानि तीर्थानि पुण्याश्च सरितस्तथा ।।
कथ्यतां तानि यत्नेन श्राद्धं येषु प्रदीयते ।। १ ।।
।। ईश्वर उवाच ।। ।।
अस्ति लोकेषु विख्याता गंगा त्रिपथगामिनी ।।
सेविता देवगंधर्वैर्मुनिभिश्च निषेविता ।। २ ।।
तपनस्य सुता देवी यमुना लोकपावनी ।।
पितॄणां वल्लभा देवि महापातक हारिणी ।। ३ ।।
चन्द्रभागा वितस्ता च नर्मदाऽमरकंटके ।।
कुरुक्षेत्रं गया देवि प्रभासं नैमिषं तथा ।।४।।
केदारं पुष्करं चैव तथा कायावरोहणम् ।।
तथा पुण्यतमं देवि महाकालवनं शुभम् ।। ५ ।।
यत्रास्ते श्रीमहाकालः पापेंधनहुताशनः ।।
क्षेत्रं योजनपर्यंतं ब्रह्महत्याविनाशनम् ।। ६ ।।
भुक्तिदं मुक्तिदं क्षेत्रं कलिकल्मषनाशनम् ।।
प्रलयेऽप्यक्षयं देवि दुष्प्राप्यं त्रिदशैरपि ।। ७ ।।
।। उमोवाच ।। ।।
प्रभावः कथ्यतां देव क्षेत्रस्यास्य महेश्वर।। ८ ।।
यानि तीर्थानि वंद्यानि यानि लिंगानि संति वै ।।
तान्यहं श्रोतुमिच्छामि परं कौतूहलं हि मे ।। ९ ।।
।। ईश्वर उवाच ।। ।।
शृणु देवि प्रयत्नेन प्रभावं पापनाशनम् ।।
क्षेत्रमाद्यं महादेवि ममातीव प्रियं सदा ।। 5.2.1.१० ।।
यत्रास्ति च महापुण्या सर्वपापहरा परा ।।
तथा गंधवती पुण्या दिव्या नवनदीप्रिया ।। ११ ।।
नीलगंगा चतुर्थी तु श्रेष्ठा नद्यः प्रकीर्तिताः ।।
आसां तु संगमे स्नात्वा श्राद्धं यः कुरुते नरः ।। ।। १२ ।।
गंगायास्त्रिगुणं देवि चतुर्वर्गफलप्रदम् ।।
क्षेत्रं योजनपर्यंतमवंत्या विद्धि सुव्रते ।। १३ ।।
सिद्धलिंगानि तिष्ठंति भुक्तिमुक्तिकराणि च ।।
ईश्वराश्चतुराशीतिस्तथाष्टौ संति भैरवाः ।। १४ ।।
एकादश तथा रुद्रा आदित्या द्वादश स्मृताः ।।
षड्वै विनायकाश्चात्र चतुर्विंशतिमातरः ।। १५ ।।
यदाहं गतवांस्तत्र महाकालवने शुभे ।।
ब्रह्मविष्ण्वादयः सर्वे तत्राजग्मुर्मुदान्विताः ।। १६ ।।
एभिर्व्याप्तं क्षेत्रमिदं देवि योजनमायतम् ।।
दश स्थानगतो विष्णुः सर्वपापप्रणाशनः ।। १७ ।।
एतन्नामानि योऽधीते प्रभाते भक्तितः पुमान् ।।
विमुक्तः सर्वपापैस्तु रुद्रलोकं स गच्छति ।। १६ ।।
।। उमोवाच ।। ।।
चतुराशीतिलिंगानि त्वयोक्तानीह यानि तु।।
तानि विस्तरतो ब्रूहि सर्वपापहराणि तु ।। १९ ।।
।। हर उवाच ।। ।।
शृणु देवि प्रवक्ष्यामि तेषां नामानि यानि च ।।
ख्यातं पृथिव्यां प्रथममगस्त्येश्वरमुत्तमम् ।।
यस्य दर्शनमात्रेण कृतकृत्यो नरो भवेत् ।। 5.2.1.२० ।। ।।
।। उमोवाच ।। ।।
अगस्त्येश्वरनामेह कथं लब्धमनेन वै।।
कस्मिन्स्थाने कथं जातं विस्तराद्वक्तुमर्हसि ।। २१ ।।
।। हर उवाच ।। ।।
शृणु देवि महाभागे कथामस्य पुरातनीम् ।।
सर्वपापप्रशमनीं समीहितफलप्रदाम्।।२२।।
पुराऽसुरैर्जिता देवा निरुत्साहाश्च ते ततः।।
भागाश्चैषां हृताः सर्वे निराशाः पितरः कृता ।।
भ्रष्टैश्वर्य्यास्तदा देवि चेरुर्देवा महीतले ।। २३ ।।
ततः कदाचित्ते दीना दीप्तमादित्यवर्चसम्।।
ददृशुस्तेजसायुक्तमगस्त्यं विपुलव्रतम् ।। २४ ।।
अभिवाद्य ततो देवा दृष्ट्वा तं तेजसा वृतम् ।।
इदमूचुर्महात्मानमगस्त्यं लोकविश्रुतम् ।। २५।।
दानवैर्निर्जिता युद्धे सर्वे स्वर्गाच्च पातिताः ।।
ततस्त्वं नो भयात्तीव्रात्त्रायस्व मुनिपुंगव ।। २६ ।।
इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत् ।।
प्रजज्वाल च तेजस्वी कालाग्निरिव संक्षये ।। २७ ।।
तदा दीप्तांशुजालेन निर्दग्धा दानवास्तथा ।।
अंतरिक्षान्महादेवि पतिताश्च सहस्रशः ।। २८ ।।
दह्यमानास्ततो दैत्या स्तस्यागस्त्यस्य तेजसा ।।
ऋषेश्च दानवाः सर्वे पातालं वव्रजुर्भयात् ।। २९ ।।
ततो ऽगस्त्यो महात्मा वै तान्हत्वा शोकमूर्छितः ।।
बभूवातिशयं चासौ चिंतयोद्विग्नमानसः ।। 5.2.1.३० ।।
कृतं घोरं महत्पापं हता यद्दानवा मया ।।
अहिंसा परमो धर्मो मनुना कथ्यते यतः ।।
किं करोमि क्व गच्छामि कथं शुध्येय चाप्यहम् ।। ३१ ।।
एवं चिंतयतस्तस्य समागच्छत्पितामहः ।।
प्रोवाच स मुनिं तत्र कस्मात्त्वं शोकविह्वलः ।। ३२ ।।
लक्ष्यसे मुनिशार्दूल कारणं कथ्यतां त्वरम् ।।
स ब्रह्माणं नमस्कृत्य कथयामास पृच्छतः ।। ३३ ।।
देवदेव जगन्नाथ दाहोंतर्मानसं मम ।।
ब्रह्महत्या समायाता यन्मया दानवा हताः ।। ३४ ।।
ममोपायं समाचक्ष्व प्रसादत्सुरसत्तम ।।
बहुकालार्जितं देव गतं मे संक्षयं तपः ।।३५।।
प्रोवाचेदं सुरश्रेष्ठः शृणु त्वं यत्नतः परम्।।
उपायं सर्वपापस्य क्षयो येन भवेद्ध्रुवम्।।३६।।
महाकालवने दिव्ये यक्षगंधर्वसेविते।।
उत्तरे वटयक्षिण्या यत्तल्लिंगमनुत्तमम्।।३७।।
पिशाचस्यापि तीर्थस्य भागे दक्षिणतः स्थितम् ।।
तं समाराध्यतः सर्वं पापं नाशमवाप्नुयात् ।। ३८ ।।
आराधय शुभं लिंगं सर्वपापप्रणा शनम् ।।
बाढं प्रोवाच धर्मात्मा महाकालवनं ययौ ।।३९।।
तस्मिन्स लिंगे देवेशि समाराधनतत्परः ।।
बभूवाहर्निशं भक्त्या तद्ध्यानैकरतो मुनिः ।। 5.2.1.४० ।।
अहं तुष्टस्तदा देवि मुनेस्तस्य महात्मनः ।। ४१ ।।
प्रोक्तं मया महाभाग मुने शृणु समाहितः ।।
वरं वरय विप्रेंद्र यत्ते मनसि वर्त्तते ।। ४२ ।।
तुष्टोऽहमनया भक्त्या तपसा दुष्करेण तु ।।
लिंगस्यास्य प्रभावेण जातस्त्वं निर्मलोऽधुना ।।४३।।
प्रणष्टा ब्रह्महत्या ते दानवोत्था मुनीश्वर ।।
मदीयं वचनं श्रुत्वा तेनोक्तं वरवर्णिनि ।। ४४ ।।
यदि देव प्रसन्नस्त्वं शरणागतवत्सलः ।।
त्वदंघ्रियुगले भूयान्मम भक्तिर्महेश्वर ।। ४५ ।।
तपस्यथ तथा धर्मे न मे विघ्नो भवेदिति ।।
तस्य तद्वचनं श्रुत्वा कुंभयोनेर्महात्मनः ।।
मया प्रोक्तं विशालाक्षि मुने एवं भविष्यति ।। ४६ ।।
यस्त्वया पूजितो देवो ब्रह्महत्याविनाशनः ।।
त्वन्नाम्ना त्रिषु लोकेषु सोऽहं ख्यातो भविष्यति ।। ४७ ।।
अगस्त्येश्वरदेवोपि विख्यातो भुवनत्रये ।।
एवमुक्तो मया देवि स विप्रस्तत्र संस्थितः ।।
कृपया तस्य लिंगस्य पंचमुद्राविभूषितः ।। ४८ ।।
ये नरास्तन्महालिंगं निरीक्षिष्यंति भक्तितः ।।
सर्वपापविनिर्मुक्ताः सर्वकामैरलंकृताः।।४९।।
भविष्यंति महात्मानः पुत्रैश्वर्यसमन्विताः ।।
अंतकाले च मां यांति विमानैः सर्वकामदैः ।।5.2.1.५०।।
स्तुता गंधर्वमुख्यैश्च रुद्रलोके च शाश्वते ।।
येऽर्चयंति सदा देवमगस्त्वेश्वरसंज्ञकम्।।५१ ।।
कृतपुण्या नरा मर्त्त्यास्ते यांति परमं पदम् ।।
संस्मृते देवदे वेशे नराणां कोटिजन्मजम्।।५२।।
अशुभं क्षयमाप्नोति कस्तं न प्रणमेच्छिवम्।।
यः प्रणम्य नरो भक्त्या देवं तं च निषेवते।।५३।।
मुच्यते ब्रह्महत्यादिपा तकैर्नरकप्रदैः ।। ५४ ।।
राजसूयशतेनैव यत्पुण्यं च भविष्यति ।।
तत्पुण्यमधिकं देवि दर्शनाच्च भविष्यति ।। ५५ ।।
किं तीर्थैर्विविधैः स्नानैः किं दानैर्विविधैः कृतैः ।।
ते प्राप्स्यंति फलं सर्वे मत्प्रसादान्न संशयः ।।५६।।
अष्टम्यां च चतुर्द्दश्यां दिने सोमस्य शक्तितः ।।
यः करिष्यति लिंगस्य पूजा भक्तिसमन्वितः ।।
कुलानां तारयत्येव मातृकं पितृकं शतम् ।।५७।।
ये च पश्यंति पुरुषा भावहीनाः प्रसंगतः ।।
न ते पश्यंति संसारे नरकं वै कदा चन ।। ५८ ।।
एतत्ते कथितं देवि लिंगमहात्म्यमुत्तमम् ।।
प्रथमं कथितं लोके द्वितीयं शृणु यत्नतः।। ५९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्येऽगस्त्येश्वरमाहात्म्यवर्णनंनाम प्रथमोऽध्यायः ।। १ ।। ।। छ ।।