स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/विषयानुक्रमणिका

विकिस्रोतः तः


।। अथश्रीस्कान्दे महापुराणे पञ्चममावन्त्यखण्डम् ।। ।।

।। अथावन्त्यखण्डे प्रथममावन्त्यक्षेत्रमाहात्म्यम् ।। (५-१) ।।

१ अथादौ परममङ्गलकारिणः श्रीमहाकालदेवस्य स्तवनम्, महाकालवनमाहात्म्यं, शुश्रूषोर्व्यासस्य सनत्कुमारसमीप आगमनम्, सनत्कुमारव्याससंवादारम्भः, तत्र सनत्कुमारेण महाकालवनप्रशंसावर्णनम् ....... ... १ १

२ कल्पारंभे सृष्ट्युत्पत्तिवर्णनम्, ब्रह्मविष्णुमहेश्वराणामुत्पत्तिवर्णनम्, देवकृतेश्वरस्तुतिवर्णनम्, ब्रह्मणः पञ्चमकपालच्छेदनात्तत्कपालधारणात्कपालीति नाम्ना देवैः
शिवलिंगस्थापनम्.. ... ... .. ..... २ ।

३ ब्रह्मणो मस्तकगलिताद्रुधिरात्कुण्डलिपुरुषस्योत्पत्तिवर्णनम्, ब्रह्माज्ञया तस्य शिववि-नाशार्थं शिवाग्रे गमनम्, शिवस्य विष्ण्वाश्रमे गमनम्, विष्णुना शिवाय दक्षि-णभुजसमर्पणम्, विष्ण्वसृक्संभवस्य पुरुषस्य ब्रह्मस्वेदजातस्य पुरुषस्य च युद्ध-वर्णनम्, शिवविनाशार्थं राक्षसप्रेषणात्प्राप्तदोषस्य ब्रह्मणः प्रायच्चित्तविधानव-णर्नम्..?..... ... ... ... ३ २

४ सनत्कुमारव्याससंवादप्रसंगेन वैश्वानरोत्पत्तिवर्णनम् .. . ५ १

५ नरनारायणयोर्बदर्याश्रमं प्रति गमनम्, ताभ्यां जगद्धितार्थं तपःकरणम्, तद्वनं दृष्ट्वा तुष्टेन शंकरेण पादपादिकान्प्रति वरप्रदानम्, तत्र नरनारायणदशर्नम, पादपवचनाच्छिवस्य तत्रैवावस्थानम्, शिवदर्शनार्थं ब्रह्मादिदेवानां तत्रागमनम् ७ १

६ तद्वने शिवदर्शनाभावाद्देवैर्यल्लसमारंभणम्, सहस्रसमापर्यन्तं तपस्तप्त्वा तपोंऽते शिव-दर्शनम्, देवैः शिवस्तुतिकरणम्., शिवेन देवेभ्यो वरप्रदानम्, शिववचनाल्लिंग स्थापनम्, कपालमोक्षणतीर्थमाहात्म्यवर्णनम् ... .... .. ८

७ महाकालवनवासविधिवर्णनम्, महाकालवने वासं कुर्वतां पुरुषाणां फलप्राप्तिवर्णन-पूर्वकं महाकालमाहात्म्यवर्णनम्. -. - ... - - .... ११ १

८ सनत्कुमारव्याससंवादप्रसंगेन महाकालवने दानमाहात्म्यवर्णनम्, शिवगौर्योः कलहे जायमाने तत्र कलकलेश्वरोत्पत्तिवर्णनम्, कलहनाशनकुण्डोत्पत्तिवर्णनम्, कल-हनाशनकुण़्डे दानमाहात्म्यवर्णनम्, अप्सरस्तीर्थोत्पत्तिमाहात्म्यवर्णनम, अप्सरसां तीर्थे स्नानदानादिमाहात्म्यवर्णनम्, आप्सरःकुण्डमाहात्म्यवर्णनम्.. १२ २

९ माहिषकुण्डोत्पत्तिवर्णने महिषवेषधारिणो हालाहलनामकराक्षसस्य शिवेन युद्धवर्णनम्, शिवेन राक्षसस्य पराजयं कृत्वा तत्रैव लिङ्गस्थापनम्, महिषकुण्डरुद्रसरोमाहात्म्यवर्णनम् -. .. ... ... १४ १

१० कौटुम्बिकेश्वरमाहात्म्यबर्णनम्...... -... ...... १४

११ पारिजातकुसुममालां गृहीत्वा विद्याधरपतेर्वासववेश्मनि नमनम्, तत्र नृत्यकारिण्यै मेनकायै तेन तन्मालाप्रदानम, तया मालया माहितां तां मेनकां दृष्ट्वा नृत्यभंगाच्छक्रेण विद्याधरस्य शापप्रदानन्, शक्राज्ञया विद्याधरपतेरवन्त्यामागमनम्, तत्र तीर्थे स्नानेन विद्याधरपतेः स्वस्थाने गमनम्, विद्याधरतीर्थमाहात्म्य वर्णनम्-....... - - .. .... १५ १

१२ मर्कटेश्वरमाहात्म्यवर्णनम्, शीतलातीर्थमाहात्म्यवर्णनम्......... १५ १

१३ स्वर्गद्वारमाहात्म्यवर्णनम्.... .... - -. १५

१४ चतुःसमुद्रमध्यप्रदेशे स्थितस्य राजस्थलतीर्थस्य माहात्म्यम्, तत्र सुद्युम्नराजस्य सुदर्शनाख्यया पत्न्या पृष्टेन दाल्भ्यमुनिना चतुःसमुद्रस्नानेन पुत्रप्राप्तिरूपफल-कथनम्, दाल्भ्यवचनाच्छिवाराधनाय सुद्युम्नस्य गन्धमादने गमनम्, शिववाक्यादवन्त्यां तस्य गमनम्, चतुःसमुद्राराधनेन चतुःसमुद्राणां मूर्तत्वेन दर्शनम्, चतुर्भिरब्धिभिः पार्थिवाय वरप्रदानम्, तत्रैव तीर्थस्थापनम्, चतुःसमुद्र-माहान्त्यवर्णनम् ..... ... ..१५ २

१५ शङ्करवापीतीर्थमाहात्म्यवर्णनम्, शिवेन सूर्याराधनां कृत्वा तन्नाम्ना स्वलिंगस्थापनम्, शंकरादित्यमाहात्म्यवर्णनम् ..... ....... १६ १

१६ नीलगन्धवतीप्रभावमाहात्म्यवर्णनम्, तत्र श्राद्धादिकरणेन स्नानदानादिभिश्च महापुण्यफलप्राप्तिकथनम्...... १६ २

१७ सनत्कुमारव्याससंवादप्रसङ्गेन दशाश्वमेधतीर्थमाहात्म्यवर्णने मन्वादिभिः स्नानेन दशाश्वमेधफलं सम्पादितमित्यादि सदृष्टान्तवर्णनम्.... ....१७ १

१८ एकानंशादेव्युत्पत्तिवर्णने तारकासुरराक्षसपीडितेन ब्रह्मणा निशादेव्याः स्मरणम्, तया तारकविनाशार्थं ब्रह्मण उपायकथनम् तत्रैव ब्रह्मणा तस्याः स्थापनम्, एकानंशादेवीतीर्थमाहात्म्यवर्णनम्. ....... १७ १

१९ शिवपार्वत्योरक्षक्रीडासमये तत्र स्थले चण्डप्रचण्डदैत्ययोरागमनम्, पार्वत्या तयोः पराभवकरणम, हरसिद्धिरिति शङ्करेण पार्वत्या नामकरणम्, हरसिद्धितीर्थमाहात्म्यवर्णनम्.. ...... .. ....... १८ १

२० वटयक्षिणीमाहात्म्यवर्णनम्, पिशाचकतीर्थमाहात्म्यम्, शिप्रागुंफेश्वरतीर्थमाहात्म्यवर्णनम, अगस्त्येश्वरमाहात्म्यवर्णनम्, ढुण्ढेश्वरमाहात्म्यवर्णनम्, डमरुकेश्वरमाहात्म्यवर्णनम्, अनादिकल्पेश्वरमाहात्म्यवर्णनम्, सिद्धेश्वरवीरभद्रचंडिकामाहा-
हात्म्यवर्णनम्, स्वर्णजालेश्वरतीर्थमाहात्म्यवर्णनम्, महामायामाहात्म्यवर्णनम्,
कपालेश्वरमाहात्म्यवर्णनम्, स्वर्गद्वारतीर्थयात्रामाहात्म्यवर्णनम्..... १८ २

२१ हनुमत्केश्वरमाहात्म्यवर्णने रावणवधानन्तरं रामादीनामयोध्यायां गमनम्, तत्र राज्याभिषेकवर्णनम्, लिगं याचितुं हनुमता लंकां गत्वा विभीषणाज्ञया लिंगं गृहीत्वाऽवन्त्यामागमनम, सरस्तीरे लिंगं संस्थाप्य हनुमतः स्नानकरणम्, स्नानान्ते लिङ्गस्याऽचलनं दृष्ट्वा शिवाज्ञया तत्रैव तस्य लिङ्गस्य स्थापनम्, हनुमत्केश्वरतीर्थमाहात्म्यवर्णनम्. १९ १

२२ यमेश्वरमाहात्म्यवर्णनम्. रुद्रसरोमाहात्म्यवर्णनम् . १९ २

२३ महाकालयात्रावर्णनम्, यात्रामाहात्म्यवर्णनम्... ...... ... १९ २

२४ सुमतिनामकब्राह्मणस्य कैशिकपत्न्यां जातस्याग्निशर्मणः कुमारस्याऽभ्यासत्यागवर्णनम्, अग्निशर्मकृतदुष्टसंगतिवर्णनम्, नित्यप्राणिहिंसनशीलत्वात्सप्तर्षीनागतान्दृष्ट्वाऽग्निशर्मणा तद्वधोपायकरणम्, अत्रिवचनाद्गृहं गत्वा तस्य पापभागित्वेन स्वपरिवारं प्रति प्रश्नकरणम्, ततस्तैर्गृहस्थितैः पित्रादिभिः पापफलभोगस्यास्वीकरणं श्रुत्वाऽग्निशर्मणा पश्चात्तापं कृत्वा महर्षीन्प्रति शरणं गत्वा प्रार्थनाकरणम्,
ततोऽत्रिमहर्षिदत्तमन्त्रस्योपासनात्पापनिष्कृतिवर्णनम्, ततः कालांतरेण वल्मीकसम्भवाद्वाल्मीकिरिति महर्षिभिस्तस्याभिधानकरणम्, तेन वाल्मीकिना कुशस्थलीं गत्वा शिवमाराध्य स्वनाम्ना लिंगस्थापनम्, वाल्मीकीश्वरमाहात्म्यवर्णनम् २० २

२५ शुक्रेश्वरभीमेश्वरगर्गेश्वर कामेश्वरचूडामणीश्वरचण्डीश्वरादि तीर्थमाहात्म्यवर्णनम्. २१ २

२६ कालवनस्य सौन्दर्यपूर्वकमाहात्म्यवर्णनम्, कालवनस्यासमन्तात्सर्वदिक्षु स्थितानां पिंगलेशादिदेवतानां माहात्म्यवर्णनम्, कल्पसप्तकमहिमवर्णनम्, पंचेशानीयात्रामाहात्म्यम्, अक्रूरेश्वरमाहात्म्यम्, ब्रह्मकुण्डमाहात्म्यवर्णनम्, मन्दाकिनीतीर्थमाहात्म्यवर्णनम्.... ...... ... ... २१ २

२७ अंकपादाख्यस्थानमाहात्म्यवर्णने बलरामकृष्णयोर्जन्मकर्मनिरूपणम्, सांदीपनये गुरुदक्षिणां दातुं प्रवृत्तयोस्तयो रामकृष्णयोः समुद्रस्थं शंखासुरं हत्वा यमलोके गमनम्, तत्र यमस्य पराजयं कृत्वा सांदीपनिपुत्रं गृहीत्वा तयोर्गुरुसमीप आगमनम्, अवंत्यामङ्कपादाख्ये लिंगस्थापनम्, मूर्तिपञ्चकमाहात्म्यवर्णनम, ... २४ १

२८ चन्द्रादित्यमाहात्म्यम्, करभेश्वरमाहात्म्यम्, गणेशमाहात्म्यम्, कुसुमेश्वरजयेश्वरयोर्माहात्म्यवर्णनम्, शिवद्वारमाहात्म्यवर्णनम्, मार्कण्डेयेश्वरमाहात्म्यवर्णनम्, ब्रह्मे- श्वरमाहात्म्यम, ब्रह्माणीकुण्डमाहात्म्यम्, यक्षवापीमाहात्म्यम्, पशुपतिरुद्रपुर रूपकुंडकेदारकुंडकरीकुंडाजागंधचक्रतीर्थादिमाहात्म्यवर्णनम्, सोमवतीलिंगसो मेश्वरलिंगमाहात्म्यवर्णनम् ... ....२६ २

२९ अनरकतीर्थमाहात्म्यवर्णनम, तत्प्रसंगेन नरकवर्णनं नरकयातनादिकानां च वर्णनम्, नरकाप्राप्तिसाधनकथनं च. ............. २९ १

३० अनरकर्तार्थे दीपदानमाहात्म्यथनम् तत्र पूजाविधिविधानकथनम्, दीपदानेन वीर्यतेजआदिवृद्धिप्राप्त्यादिकथनम.......... .. २९ २

३१ केदारेश्वरतीर्थमाहात्म्यवर्णनम् – जटातीर्थ शुंगतीर्थेन्द्रतीर्थ चंद्रेश्वरकुण्डेश्वरगोपतीर्थ चिपिटातीर्थानंदेश्वर रामेश्वरादितीर्थ माहात्म्यवर्णनम, तत्र रामेण पितुर्दशरथस्य श्राद्धकर्मकरणम्, सौभाग्यतीर्थ घृततीर्थ योगश्वरीदेवीशंखावर्तसुधोदकसुधेश्वर किंपुनतीर्थ पत्तनेश्वर दुर्धर्षस्थविरविनायक कामोदकादितीर्थ माहात्म्यवर्णनम् ३२ १

३२ शक्रवचनादर्जुनेन केशवार्कस्थापनम्, श्रीकृष्णवचसाऽर्जुनेन सूर्यस्तंभनम्, संतुष्टेन सूर्येण तस्मै वरप्रदानम, अर्जुनेन सूर्यस्तुतिकरणम, सूर्यज्ञया तत्रैव नरादित्येतिनाम्ना सूर्यस्य स्थापनं च, नरादित्यमाहात्म्यवर्णनम्... ३४ १

३३ श्रीकृष्णेन सूर्यस्तवनकरणम्, केशवादित्यमाहात्म्यवर्णनम्...... ३६ १

३४ स्कन्दजन्मकथावर्णनम, तत्र शंकरेण कामज्वलनम्, अग्निना शिववीर्यप्राशनम्, गंगायां वीर्यत्यागः, स्नातुमागतानां षट्कृत्तिकानामुदरे तस्य वीर्यस्य प्रवेशः, ततः स्कन्दोत्पत्तिः, शक्तिभेदतीर्थमाहात्म्यवर्णनम......३६ २

३५ अगस्त्येश्वरमाहात्म्यवर्णनम............. ३८ २

३६ प्रतिकल्पस्थभिन्नभिन्नलिंगानां नामनिदर्शनपूर्वकं तीर्थवर्णनम्, अन्धकासुरयुद्धसमये शिवस्थापितत्य नरदीपतीर्थस्य माहात्म्यवर्णनम.... ३९ १

३७ ओंकारेश्वरमाहात्म्यवर्णनम्, अभयेश्वरलिंगमाहात्म्यम्, अंगारकीचतुर्थी माहात्म्यवर्णनम ...... ४०

३८ देवीचंडीकृतं पराभवमसहमानेनान्धकासुरेण शिवस्तुतिकरणवर्णनम्, शिवेन तत्राबन्त्यां चामुंडादीनां मातृणां स्थापनम्, मातृकापूजनविधिवर्णनम्, अन्धकस्य शिवगणत्वप्राप्तिवृत्तान्तवर्णनम् ..... ४२ १

३९ महाकालवनमाहात्म्यवर्णनम् ... ... ---. .. .. ४२ १

४० शिवब्रह्मसंवादे कनकशृंगाभिधानपुरीवर्णनम् ........ ... ४३ १

४१ कुशस्थलीमाहात्म्यवर्णनम्.... . ...... ४४ १

४२ अवन्त्यभिधानपुरीमाहात्म्यवर्णनम्.... ... ... ४४ २

४३ उज्जयिन्यां त्रिपुरासुरेण ब्रह्माणमुद्दिश्य तपश्चरणम्, ब्रह्मणा तस्मै वरप्रदानम्, त्रिपुरासुरपीडितानामिन्द्रादीनां शिवाग्रे गमनम्, शिवेन तेभ्योऽभयदानम्, शिवाज्ञयेन्द्रादिभिरवन्त्यां चामुण्डोपास्तिकरणम्, चामुण्डावचनाच्छिवेन दैत्यपराजयकरणम्. तत्र त्रिपुरदानवस्य उज्जितत्वादुज्जयिनीति नाम्ना तस्य पुरस्य प्रसिद्धिवर्णनम्, उज्जयिनीमाहात्म्यवर्णनम्.. -.... ..... ४५

४४ रत्नाभावाद्रत्नोत्पादनार्थं समुद्रमंथनं कृत्वा ततो निर्गतस्य पीयूषस्य ग्रहणार्थं देवासुरयोर्विवादे समुत्पन्ने भगवता मोहिनीरूपमास्थायामृतविभागे क्रियमाणे देवपंक्त्या कपटेन स्थितस्य राहोः शिरश्छेदकरणम्, तत्र राहुकेतुपीडानिरसनार्थं तीर्थनिर्मापणम्, राहुतीर्थमाहात्म्यवर्णनम्, रत्नकुण्डस्नानमाहात्म्यवर्णनम्, पद्मावतीपुरीनामवृत्तान्तवर्णनम् .......... ४७ १

४५ कुमुद्वतीपुरीशोभावर्णनम्, कुमुद्वतीप्रभावमाहात्म्यवर्णनं च.. .. - ४७ २

४६ महाकालवनवर्णने नंदनवनवर्णनम्, कामधेनुवर्णनम्, अमरावतीपुरीनामवृत्तान्तवर्णनम्. ... .... -.... .... .. ४८ २

४७ विशालाख्यापुरीमाहात्म्यवर्णनम...... ४९ १

४८ निमेषादारभ्य चतुरशीतिकल्पपर्यन्तं कालप्रमाणनियमवर्णनम्.... ५०. १

४९ कपालधारिणः शिवस्य वैकुण्ठे भिक्षार्थं गमनम्, भिक्षादानसमये विष्णोरंगुल्यां शिवेन शूलेन प्रहारे कृते विप्णोरंगुलितोऽसृक्प्रवाहनिर्गमनम्, तस्यैव प्रवाहस्य नदीरूपेण परिणतस्य शिप्रानाम्ना प्रसिद्धिकथनम्, बाणासुरकृष्णयुद्धवर्णनम्, तत्र शिवविष्ण्वोर्युद्धे मिथोस्त्रप्रेषणम्, शैवज्वरवैष्णवज्वरयोर्मध्ये शैवज्वरस्य पराभववर्णनम्, तस्य स्थानस्य ज्वरघ्नीति नाम्ना प्रसिद्धिवर्णनम, ज्वरघ्नीतीर्थमाहात्म्यवर्णनम्. -....... ... ......... ५१ १

५० पापनाशिनीतीर्थवर्णनप्रसङ्गेनाधर्मचारिणो दमनस्य राज्ञो मृगयार्थमरण्ये गमनम्, निशि वटवृक्षे घोटकं बद्ध्वा तत्रैव राज्ञो निद्राकरणम्, ततो राजमस्तके सर्पपत- । नम्, सर्पदंशनेन पीडितस्याग्रे यमदूतानामागमनम्, ततो यमलोकगतस्य राज्ञो यमयातनासमये वायसभक्षितस्य तच्छरीरमांसस्य शिप्रायां पतनम्, तेन पुण्येन दमनस्य शिवलोके गमनम्, यमयमदूतसंवादे शिप्रामाहात्म्यवर्णनम्-... ५२ १

५१ भिक्षार्थं शिवस्य नागलोके गमनम्, भिक्षालब्ध्यभावात्तत्रस्थैकविंशतिकुण्डस्थस्य सर्वामृतस्य प्राशनेन भीतैः पन्नगैर्वासुकिस्तवनम्, सर्वपन्नगैः शिप्रां गत्वा शिवस्तवनकरणम्, तेन तुष्टेनेशेन तत्राऽमृतोद्भवानाम्ना कुण्डस्थापनम्, अमृतोद्भवामाहात्म्यवर्णनम्... .. - ... -.. ५३ १

५२ हिरण्याक्षपीडितैरिंद्रादिभिर्ब्रह्मलोकं गत्त्वा ब्रह्मणे सर्ववृत्तान्तकथनम्, ब्रह्मदेवेन देवेभ्यो जयविजययोः शापकारणकथनम्, हिरण्याक्षहिरण्यकशिप्वोर्जन्मकर्मकथनम्, हिरण्याक्षवधाय वराहावतारवर्णनम्, वराहाङ्गतः शिप्राया उत्पत्ति- वर्णनम्, शिप्रानदीशोभावर्णनम्, शिप्रामाहात्म्यवर्णनम्...... ५४ १ ।।

५३ महाकालवने सुन्दराख्यतीर्थमाहात्म्यवर्णनम्, पिशाचमोचनतीर्थमाहात्म्यवर्णनम्, तत्र देवलद्विजस्य कथावर्णनम् ... .. ...... ५५ २ । ५४ नीलगंगामाहात्म्यवर्णनम्........ ५७ १

५५ रेवाजलनिमग्नां भूमिं दृष्ट्वा तदुद्धारार्थमगस्त्येन विन्ध्ये तपश्चरणम्, तत्तपःप्रसन्नाया विन्ध्यवासिन्या उज्जयिन्यां गमनम्, विन्ध्यवासिनीविमलोदतीर्थमाहात्म्यवर्णनम्...... ५७ २

५६ मांधातृक्षेत्ररुद्रसरोमाहात्म्यवर्णनम्, क्षातासंगमतीर्थवर्णने सूर्यानुसूर्ययोर्विवाहा
नन्तरं यमयमुनयोरुत्पत्तिवर्णनम्, क्षातासंगमतीर्थमाहात्म्यम.. .. .. ५८ २

५७ गयातीर्थमाहात्म्यवर्णनम्, तत्र गयातीर्थप्रशंसायां तुहुण्डराक्षसपीडितानां सर्वेषां देवानां ब्रह्माग्रे गमनम, ब्रह्मादिभिर्विष्णुलोके गत्वा विष्णुस्तवनकरणम्, विष्ण्वनुज्ञया सर्वेषां गयातीर्थे गमनम् ... .... -. -.. -... ६० १

५८ गयातीर्थे समंत्रकविधानपूर्वकश्राद्धकर्ममाहात्म्यवर्णनम्...... -.. ६० २

५९ गयाक्षेत्रस्थफल्गुनदीमाहात्म्यवर्णनम्, आदिगयाबुद्धगयाविष्णुपदीगयाकोष्ठगदाधरवेदिकाऽक्षयवट प्रेतमुक्तिकरीशिलाऽच्छोदादितीर्थेषु स्नानदानफलमाहात्म्यम्, तत्र ऋषिपत्नीनारदसंवादे नारदेनर्षिपञ्चमीव्रतमाहात्म्यवर्णनम्.... ६२ १

६० पुरुषोत्तममाहात्म्यवर्णने द्ध्यक्ष्णीनारायणसंवादप्रसंगेन मलमासमाहात्म्यवर्णनम्, अधिमासे व्रतनियमादिविधिविधानकथनम्, मलिम्लुचमासे स्नानदानादिमाहात्म्यवर्णनम्-...... ...... ६२

६१ अधिमासे महाकालवनवासमाहात्म्यम्, पुरुषोत्तमपूजाक्रममाहात्म्यम्, जटेश्वरमहेश्वरतीर्थस्नानमाहात्म्यम, भार्गवरामतीर्थमाहात्म्यम , कौशिकीनदीमाहात्म्यम्, अधिमासे स्नानदानादिमाहात्म्यवर्णनम्............ ६४ १

६२ गोमतीकुण्डमाहात्म्यम, काशीमाहात्म्यम्, गोमतीकुण्डे स्नानादिपुण्यफलप्राप्तिवर्णनम् ..... ........ -... ६४

६३ कन्थडेश्वरखगर्तासंगमवीरेश्वरवामनतीर्थमाहात्म्यवर्णनम्, तत्र बलिपीडितैर्देवैर्ब्रह्मलोकं गत्वा सर्वबलिवृत्तनिवेदनम्, ब्रह्मणा विष्णोराराधनार्थमुपायकथनम्, तत्र ब्रह्मदेवेन्द्रादिदेवसंवादप्रसंगेन विष्णुसहस्रनामकथनम्, सहस्रनामफलश्रुतिकथनम्, वामनावतारादिकुण्डस्थापनवृत्तान्तमाहात्म्यवर्णनम्. -.. ६५ १

६४ वीरेश्वरकालभैरवतीर्थवर्णनम्, तत्र भैरवाष्टककथनम.. -... ७० २

६५ नागालयतीर्थप्रस्तावे जनमेजयास्तिककथानकम्, नवकुण्डनामनिदर्शनपूर्वकमाहात्म्यवर्णनम्, रमासरस्तीर्थमाहात्म्यम्...... ..७१

६६ नृसिंहजन्मकथावर्णनपूर्वकं नृसिंहतीर्थमाहात्म्यवर्णनम... -.. ... ७२ २

६७ कुटुम्बेश्वरमाहात्म्यवर्णने दक्षमहादेवादितपश्चर्यावर्णनम्... ... .. ७२ २

६८ देवप्रयागतीर्थमाहात्म्यवर्णनम्, आनन्दभैरवतीर्थमाहात्म्यम्, अखण्डेश्वरतीर्थवर्णने ब्रह्मदत्तस्य महापापिनोऽपि तत्र मरणाद्ब्रह्मलोकप्राप्तिवर्णनम्, नारदब्रह्मसंवाद-प्रसंगेनाखंडसरस्तीर्थमाहात्म्यवर्णनम्-. ..... ७३ २

६९ कर्कराजतीर्थमाहात्म्यम्, विधूम्रार्चिस्तीर्थवर्णनम्, चातुर्मास्यफलवर्णनम्... ७४ १

७० बिन्दुसरोरम्यसरस्तीर्थमाहात्म्यम्, तीर्थसंख्यापरिगणनपूर्वकं क्रमेण नामनिर्देशकर-
णम् , देवयात्रांतर्गृहीसर्वतीर्थयात्रानुक्रमणिकादिकथनम,.. ... ७५ १

७१ अवन्तीक्षेत्रमाहात्म्यफलश्रुतिवर्णनम, ग्रन्थोपसंहारवर्णनम,.... .. ७७ १

इत्यावन्त्यखण्डे प्रथममवन्तीक्षेत्रमाहात्म्यम् ।। (५-१) ।।