स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ६९
।। सनत्कुमार उवाच ।। ।।
भूयः शृणु परं तीर्थं सर्वतीर्थफलप्रदम् ।।
कीर्तितं ब्रह्मणा पूर्वं मार्कंडेयस्य पृच्छतः ।। १ ।।
शृणु वत्स महीपृष्ठे शिप्रा दिव्यतरा नदी ।।
तस्यास्तीरे वरं तीर्थं कर्कराजेतिविश्रुतम् ।। २ ।।
यस्य दर्शनमात्रेण महापापक्षयो भवेत् ।।
विकारा मानसाः सर्वे चंद्रो मानससंभवः।।३।।
तस्य स्थाने गतो भानुर्याम्यायनकरः परः।।
ऋतुत्रयं समाख्यातं विधूम्रार्चिस्तदुच्यते ।।४।।
तत्र मृताः प्रवर्तंते योगिनोऽपि परंतप।।
चातुर्मास्ये हरौ सुप्ते ये नरा व्रतवर्जिताः ।।५।।
न तेषां सद्गतिर्वत्स सत्यमेव ब्रवीमि ते ।।
चातुर्मास्ये मृता ये च ये मृता दक्षिणायने ।। ६ ।।
तेषामुद्धरणार्थाय तीर्थमेतद्विनिर्मितम् ।।
कर्कराज इति ख्यातं सर्वलोकेषु गीयते ।। ७ ।।
।। मार्कण्डेय उवाच ।। ।।
भगवन्भवता सर्वं निर्मितं विश्वमूर्तिना ।।
चराचरमिदं विश्वं जगत्सर्वं जगत्पते ।। ८ ।।
चातुमास्ये हरौ सुप्ते धर्माऽऽचारविधिः स्मृतः ।।
तदहं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ।। ९ ।।
।। ब्रह्मोवाच ।। ।।
शृणु वत्स परं पुण्यं चातुर्मास्यफलं शुभम् ।।
यच्छुत्वा भारते खण्डे नृणां मुक्तिर्न दुर्लभा ।। 5.1.69.१० ।।
मुक्तिप्रदोऽयं भगवान्संसारोत्तारकारणः ।।
यस्य स्मरणमात्रेण सर्वपापक्षयो भवेत् ।। ११ ।।
मानुष्यं दुर्लभं लोके तत्राऽपि च कुलीनता ।।
तत्राऽपि संयमित्वं च तत्र सत्संगमः शुभः ।। १२ ।।
सत्संगमो न यत्राऽस्ति विष्णुभक्तिर्व्रतानि न ।।
चातुर्मास्ये विशेषेण विष्णुव्रतकरः शुभः ।। १३ ।।
चातुर्मास्ये ऽव्रती यस्तु तस्य पुण्यं निरर्थकम्।।
सर्वतीर्थानि दानानि पुण्यान्यायतनानि च ।। १४ ।।
विष्णुमाश्रित्य तिष्ठंति चातुर्मास्ये समागते ।।
स विष्णुराश्रितो नित्यं कर्कराजं सुतीर्थकम्।। १५ ।।
सुपुष्टेन च देहेन जीवितं तस्य शोभनम् ।।
चातुर्मास्ये समायाते हरिर्येनाऽर्चितस्तदा ।। १६ ।।
कृतार्थास्तस्य विबुधा यावज्जीवं वरप्रदाः ।।
संप्राप्य मानुषं देहं चातुर्मास्ये पराङ्मुखः ।। १७ ।।
तस्य पापशतान्याहुर्देहस्थानि न संशयः ।।
मानुष्यं दुर्लभं लोके हरिभक्तिश्च दुर्लभा।।१८।।
चातुर्मास्ये विशेषेण सुप्ते देवे जनार्दने।।
चातुर्मास्ये नरः स्नात्वा कर्करात्रे द्विजोत्तम ।
देहशुद्धिं विधायाऽऽदौ मुक्तिमार्गमवाप्नुयात्।। १९।।
तत्राऽपि निर्झरे कूपे तडागे वा सरस्यपि।।
तस्मात्तदधिकं पुण्यं समाख्यातं सुरासुरैः।।5.1.69.२०।।
तेषु यः स्नाति वै नित्यं तस्य पापक्षयो भवेत्।। २२ ।।
तस्मान्नद्यधिका पुण्या समाख्याता सुरासुरैः ।।
पुष्करे च प्रयागे च यत्र क्वाऽपि महाजले ।।२३।।
चातुर्मास्ये तु यः स्नाति पुण्यसंख्या ततोऽधिका।। ।।
रेवायां भास्करे क्षेत्रे प्राच्यां सागरसंगमे ।। २४।।
एकाहमपि यः स्नाति चातुर्मास्ये न दुःखभाक्।।
दिनत्रयं च यः स्नाति नर्मदायां समाहितः।।२५।।
सुप्ते देवे जगन्नाथे पापं याति सहस्रधा।।
पक्षमेकं तु यः स्नाति गोदावर्यां दिनोदये।।२६।।
स भित्त्वा कर्मजं देहं याति विष्णोः सलोकताम्।।
अवंत्यां कर्कराजे तु साक्षाद्विष्णुर्भवेन्नरः।।
क्षणमेकं क्षणार्धं वा चातुर्मास्ये ऽतिलंघयेत् ।। २७ ।।
तिलोदकेनामलसंयुतेन बिल्वोदकेनापि च मज्जयेद्यः ।।
न तस्य जानामि फलाधिकं वै किं तस्य कीदृङ्मुनिभिः प्रणीतम् ।। २८ ।।
गंगां स्मरति यो नित्यमुदपानसमीपतः ।।
तद्गांगेयजलं जातं तेन स्नानं समाचरेत् ।। २९ ।।
गंगाऽपि देवदेवस्य चरणांऽगुष्ठवाहिनी ।।
पापहा सा सदा प्रोक्ता चातुर्मास्ये विशेषतः।। 5.1.69.३० ।।
चातुर्मास्ये जलगतो देवो नारायणो भवेत् ।।
सर्वतीर्थाऽधिकं स्नानं विष्णुतेजोंऽशसंगतम् ।।३१।।
स्नानं दशविधं कार्यं विष्णुनाम्ना महाफलम् ।।
सुप्ते देवे विशेषेण नरो देवत्वमाप्नुयात् ।। ३२ ।।
विना स्नानं तु यत्कर्म पुण्यकार्यमयं शुभ म् ।।
क्रियते विफलं ब्रह्मंस्तद्गृह्णन्ति हि राक्षसाः ।। ३३ ।।
स्नानेन सत्यमाप्नोति सत्ये धर्मः सनातनः ।।
धर्मान्मोक्षपथं प्राप्य पुनर्नैवावसीदति ।। ।। ३४ ।।
ये चाध्यात्मविदः पुण्या ये च वेदांतपारगाः ।।
सर्वदानप्रदाने च तेषां स्नानेन शुध्यति ।। ३५ ।।
कृतस्नानस्य हि हरिर्देहमाश्रित्य तिष्ठ ति ।।
सर्वक्रियाफलं येषु संपूर्णफलदं भवेत् ।। ३६ ।।
सर्वपापविनाशाय देवतातोषणाय च ।।
चातुर्मास्ये जलस्नानं सर्वपापक्षयावहम् ।। ३७ ।।
निशायां चैव न स्नायात्संध्यायां ग्रहणं विना ।।
उष्णोदकेन न स्नायाद्रात्रौ शुद्धिर्न जायते ।। ३८ ।।
भानुसंदर्शनाच्छुद्धिर्विहिता सर्वकर्मसु ।।
चातुर्मास्ये विशेषेण जलशुद्धिस्तु भाविनी ।। ३९ ।।
अशक्त्यां तु शरीरस्य भस्मस्नानेन शुध्यति ।।
मंत्रस्नानेन विप्रेंद्र विष्षुपादोदकेन वा ।। 5.1.69.४० ।।
नारायणाऽग्रतः स्नानं क्षेत्रे तीर्थे नदीषु च ।।
विशेषतोऽपि शिप्रायां तीर्थे कर्काभिधे वरे ।। ४१ ।।
यश्च स्नाति नरो नित्यं स याति वैष्णवं पदम्।।
तस्मात्त्वं भार्गवश्रेष्ठ तत्र गच्छस्व मा चिरम् ।। ४२ ।।
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ।।
तानि सर्वाणि तिष्ठंति कर्कराजजले सदा ।। ४३ ।।
कर्कस्थे च दिवानाथे स्नानं कुर्वंति ये नरा ।।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।। ४४ ।।
चातुर्मास्यं समासाद्य तत्रैव निवसाम्य हम् ।।
नास्ति रेवासमा पुण्या नदी ब्रह्मांडभूतले ।। ४५ ।।
महेशान्नाऽपरो देवो मुक्तिदो न जनार्दनात् ।।
उज्जयिनीसमा नास्ति पुरी कामवर प्रदा ।। ४६ ।।
कर्कराजसमं तीर्थं नास्ति वत्स महीतले ।।
यस्य दर्शनमात्रेण मुक्तिभागी भवेन्नरः ।। ४७ ।।
एवं व्यास समाख्यातं ब्रह्मणा भार्ग वाय च ।।
तस्मात्सर्वप्रयत्नेन महाकालवनं व्रज ।। ४८ ।।
अस्माकं चाऽपि तत्रैव स्थानं परमशोभनम् ।।
चातुर्मास्ये हरौ सुप्ते यावद्यायात्प्रबो धिनी ।। ४९ ।।
तावत्कालं हि तत्रैव मुक्तिरेव न संशयः ।।
चातुर्मास्ये हरौ सुप्ते जहाति चेत्कलेवरम् ।। 5.1.69.५० ।।
यमलोके चिरं वासो जायते नाऽत्र संशयः ।।
तस्मात्तुलसिकाभागे शालिग्रामे सुरालये ।। ५१ ।।
आत्मानं हि पणीकृत्य तत्रैव संनियोजयेत् ।।
यावत्प्रबोधिनी चैति द्वादशी द्विज्सत्तम ।।५२।।
पश्चाद्घृतसुवर्णेन मोचयित्वा स्वकं नयेत् ।।
चातुर्मास्योद्भवं दोषं बाधते न च मानवम् ।।५३।।
यस्य शिप्रोदके स्नानं कर्कराजेऽनुजायते ।।
एवं व्यास वरं तीर्थं सर्वतीर्थफलप्रदम् ।। ५४ ।।
पृथिव्यां यानि तीर्थानि सरितः सागराश्च ये ।।
ते सर्वे च समायांति चातुर्मास्ये द्विजोत्तम।। ५५ ।।
तस्माच्च तद्वरं तीर्थं कर्कराज इति स्मृतम् ।। ५६ ।।
य एतां वै कथां पुण्यां शृण्वंति श्रावयंति च ।।
न तेषां जायते दोषश्चातुर्मा स्योद्भवः कदा ।। ५७ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये कर्कराजतीर्थ महिमवर्णनंनामैकोनसप्ततितमोऽध्यायः ।। ६९ ।। ।। छ ।।