स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ६८

विकिस्रोतः तः

।। सनत्कुमार उवाच ।। ।।
शृणु व्यास महापुण्यं तीर्थं परमशोभनम् ।।
देवप्रयागमाख्यातं सर्वपापप्रणाशनम् ।। १ ।।
देवानां च परं स्थानं यत्र तीर्थं परंतप ।।
सोमतीर्थोत्तरे भागे प्रयागस्य च दक्षिणे ।। २ ।।
क्षिप्रायाः पूर्वभागे च तत्र तीर्थं प्रतिष्ठितम् ।।
तत्र तीर्थे नरः स्नात्वा पश्येच्चैव सुरोत्तमम् ।। ३ ।।
देवं माधवमित्याख्यं भुवि सर्वफलप्रदम् ।।
ददाति तस्य देवेंद्रो वांछितार्थं जगत्पतिः ।। ४ ।।
आनंदभैरवस्तत्र सर्वदेवनमस्कृतः ।।
यस्य दर्शनमात्रेण सर्वपापक्षयो भवेत् ।। ।। ५ ।।
न तस्य जायते व्यास यातना भैरवी कदा ।।
स्वर्गद्वारे सदा व्यास जायते निर्भयः पुमान् ।। ६ ।।
ज्येष्ठे मासे सिते पक्षे दशम्यां बुध हस्तयोः ।।
गरानन्दे व्यतीपाते कन्याचन्द्रे वृषे रवौ ।।
दशाला जायते वत्स गंगाजन्म परं शुचि ।।७।।
तद्दिने च नरः स्नात्वा सर्वतीर्थफलं लभेत्।।
अखण्डं च परं तीर्थं शृणु व्यास ह्यतः परम् ।।८।।
यस्य श्रवणमात्रेण व्रतभंगो न जायते ।।
एक एव पुरा ब्रह्मन्ब्राह्मणो ब्रह्मवित्तमः।।९।।।
धर्मशर्मेति विख्यातः सदाचाररतः शुचिः ।।
बहुव्रतधरो दांतो वेदवेदांगपारगः।। 5.1.68.१०।।
किंचिद्दोषप्रसंगेन व्रतपूर्तिर्न चाभवत् ।।
एवं बहुतिथे काले नारदो देवदर्श नः ।।११।।
तस्य गेहागतो ब्रह्मन्नातिथ्यार्थं महातपाः ।।
तदोत्थाय द्विजो नित्यं बहुमानपुरःसरम् ।।१२।।
सत्कृत्य नारदं भूमन्विधिदृष्टेन कर्मणा ।।
पूजयित्वा द्विजश्रेष्ठः पप्रच्छ मुनिसत्तम ।। १३ ।।
भगवन्भवता सर्वं विदितं ज्ञानचक्षुषा ।।
अस्माकं च परं दोषः किंचिज्जातः पुराऽनघ ।। १४ ।।
येन पापप्रसंगेन व्रतभंगोऽभवद्ध्रुवम् ।।
कारणं ब्रूहि मे नाथ किं दोषोऽत्र तु गण्यते ।। १५ ।।
।। नारद उवाच ।। ।।
श्रूयतां भो द्विजश्रेष्ठ भवद्भिश्च पुराकृतम् ।।
महाराष्ट्रे सुविख्यातो ब्राह्मणो धनसंचकः ।। १६ ।।
ब्रह्मदत्तेत्यसौ विप्रो वेदब्राह्मणनिंदकः ।।
धनलोभी पराक्रांतः सर्वधर्मबहिर्मुखः ।। ।। १७ ।।
नास्तिको देवतीर्थेषु परद्रव्यापहारकः ।।
परस्त्रीषु रतो नित्यं द्यूतवादी च तस्करः ।। १८ ।।
एवमायुःपरिक्षीणो धनहीनोऽभवत्तदा ।।
इतस्ततोऽभ्रमद्भ्रष्टो नदीतीरे सुविह्वलः ।। १९ ।।
गतश्चौर्यप्रसंगेन यात्रिकैः सह संगतः ।।
किंचित्कालेषु दुःशीलो मृतिं प्राप्तो रुजार्दितः ।। 5.1.68.२० ।।
नीतः संयमिनीं विप्रस्तत्कालं यमकिंकरैः ।।
यमराजपुरं प्राप्तो बहुपापकरो द्विजः ।।२१।।
दृष्टोऽसौ धर्मराजेन तदा पत्यपरायणः।।
निरीक्ष्य सहसोवाच धर्मपूर्वमिदं वचः ।।२२।।
शृणुध्वं किंकराः सर्वे यूयमेकाग्रमानसाः ।।
अनेनाचरितं सर्वं दुष्कर्म सर्वकिल्बिषम् ।। २३ ।।
गोदातीरे मृतः पापी तत्र नः कारणं न हि।।
तिस्रःकोट्योऽर्धकोटिश्च यानि तीर्थान्यहर्निशम् ।।२४।।
आयांति गौतमीतीरे सिंहस्थेऽपि बृहस्पतौ ।।
तेषां तु वायुसंस्पर्शो जातोस्यांते कलेवरे ।। २५ ।।
तेन पुण्यप्रभावेन नोऽस्माकं कारणं क्वचित् ।।
ग्राह्यो भवद्भिनैवायं मुच्यतां भोः पुरःसराः ।। २६ ।।
एवं तैर्मोचितो विप्रः पुनर्ब्रह्मगतिं गतः ।।
तेन पापप्रसंगेन व्रतभंगी गतो भुवि ।। २७ ।।
।। ब्राह्मण उवाच ।। ।।
ब्रह्मन्केन प्रकारेण सर्वपापक्षयो भवेत् ।।
किं तपः किं च दानं च किं तीर्थव्रतसेवनम् ।। २८ ।।
येन पुण्यप्रभावेन व्रतभंगो न जायते ।। २९ ।।
।। नारद उवाच ।। ।।
शृणु द्विजवरश्रेष्ठ महाकालवनं स्मृतम् ।।
यत्र रुद्रसरः प्रोक्तमृषिणा तत्त्वदर्शिना ।। 5.1.68.३० ।।
कोटिकोटिसुतीर्थानि वर्तंते द्विजसत्तम।।
कोटितीर्थेति विख्यातं तस्माद्द्विज सनातनम् ।। ३१ ।।
तत्तीर्थस्योत्तरे भागे सुतीर्थं सर्वकामदम् ।।
नाम्नाऽखंडसरः ख्यातमखंडेश्वरसन्निधौ ।। ३२ ।।
यस्य दर्शनमात्रेण सर्वयज्ञफलं लभेत् ।।
तस्माद्धि सर्वथा वत्स गच्छ त्वं तत्र मा चिरम् ।। ३३ ।।
इति तस्य वचः श्रुत्वा स द्विजोऽगात्कुमुद्वतीम् ।।
स्नात्वाऽखण्डसरे व्यास दृष्ट्वा देवं महेश्वरम् ।। ३४ ।।
सद्यः पुण्यवतांलोकान्प्राप्तो वै द्विजसत्तमः ।।
एवं व्यास महातीर्थमखंडेश्वरमुत्तमम् ।। ३५।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽखंडेश्वरमहिमवर्णननामाष्टषष्टितमोऽध्या यः ।। ६८।।