स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ६७

विकिस्रोतः तः
Jump to navigation Jump to search


शृणु व्यास परं तीर्थं भुवि विख्यातमुत्तमम् ।।
कुटुम्बेश्वरेति विख्यातो नाम्ना चैव महेश्वरः ।। १ ।।
तस्य तीर्थवरं तीर्थं सर्वतीर्थफलप्रदम् ।।
यस्मिंस्तीर्थे नरः स्नात्वा कुटुम्बी जायते धुवम् ।। २ ।।
कुटुम्बार्थं तपस्तेपे पुरा दक्षः प्रजापतिः ।।
नारदेन पुरा व्यास पुत्रषष्टिर्विवासिता ।। ३ ।।
प्रजाकामः स धर्मात्मा सुचिरं व्रतमाचरत् ।।
सपत्नीको महातेजा निराहारो जितेन्द्रियः ।। ४ ।।
अस्मिंस्तीर्थे शुचिः स्नातो जपन्ब्रह्म सनातनम् ।।
वर्षाणामयुतं व्यास तपस्तेपे सुदारुणम् ।। ५ ।।
तेन तीर्थप्रसादेन लभेत्स बहुलां प्रजाम्।। प्र
जापतिरिति ख्यातो जातो दक्षः प्रतापवान्।। ६ ।।
ब्रह्माऽपि तत्र वै पश्चात्तपः कृत्वा सुदुष्करम् ।।
निष्कलं कमलं रूपं प्राप्तवांस्तत्क्षणाद्विधिः ।। ७ ।।
महादेवोऽपि तत्रैव प्राप्तवान्ब्रह्मणः पदम् ।।
चतुर्मुखधरं लिंगं दृश्यतेऽद्यापि सत्तम ।। ८ ।।
भद्रपीठधरा देवी भद्रकालीति विश्रुता ।।
तत्रैव च सदा व्यास क्रीडति स्म धृतव्रता ।। ९ ।।
द्वारे तिष्ठति तत्रैव भैरवः क्षेत्रपालकः ।।
पादेन खंजतां यातः पुरा दैत्यवरार्दितः ।। 5.1.67.१० ।।
पुत्रवत्पालितो देव्या सदा तिष्ठति तत्स्थले ।।
ये ते देवगणाः सर्वे तस्मिंस्तीर्थे प्रतिष्ठिताः ।। ११ ।।
ऋषयोऽपि महाभागाः सदा पर्वणिपर्वणि ।।
आयांति चैव संध्यार्थं बहुपुत्रप्रदे सरे ।। १२ ।।
अस्मिंस्तीर्थे सदाचाराः स्नानं कुर्वन्ति ये नराः ।।
न तेषां दुर्लभं किंचिज्जायते जन्मजन्मनि ।। १३ ।।
महाबाधासु घोरासु महामारीषु तत्परैः ।।
हवनं क्रियते नित्यं सर्षपै राजिकैर्यवैः ।। १४ ।।
पायसै र्विविधैर्भोगैस्तेषां दोषो न जायते ।।
दुर्भिक्षे राज्यभ्रंशे च संग्रामे भृशदारुणे ।। १५ ।।
पूजयेत्क्षेत्त्रपालं च सर्वाऽऽपदि समाहितः ।।
सर्वदुःखवि निर्मुक्तो जायते नाऽत्र संशयः ।। १६ ।।
स्नात्वा कुटुंबके तीर्थे पूजयित्वा महेश्वरम् ।।
दानं कूष्मांडकं दद्याद्ब्राह्मणाय तपस्विने ।।१७।।
सौवर्णमणि मुक्ताभिर्वासोऽलंकारसंयुतम् ।।
धनधान्यसमायुक्तः कुटुंबी जायते नरः ।। १८ ।।
फाल्गुने च सिते पक्षे या वै चतुर्दशी भवेत् ।।
त्रयोदशीयुता व्यास शिवरात्रिस्तथोच्यते ।। १९ ।।
तद्दिने च नरः स्नात्वा रात्रौ जागरणं चरेत् ।।
बिल्वोदकेन गंधेन बहुपुष्पफलैस्तथा ।। 5.1.67.२० ।।
धूपैर्दीपैश्च नैवेद्यैर्वासोऽलंकारकादिभिः ।।
पूजयेद्यो नरो भक्त्या गिरीशं सगणं परम् ।। २१ ।।
तस्य पापं क्षयं याति शिवलोके महीयते ।।
द्वादशैकादशीपुण्यं लभते भुवि मानवः ।। २२ ।।
अश्वमेधफलं तस्य जागरे च क्षणेक्षणे ।।
ततस्तु प्रातरुत्थाय स्नानदानादिकाः क्रियाः ।। २३ ।।
कृत्वा तु विधिवद्व्यास शिवपूजाऽर्चनं तथा ।।
विप्रांश्च भोजयेत्सप्त तस्य पुण्यफलं शृणु ।। २४ ।।
कपिलानां सवत्सानां सहस्राणि चतुर्दश ।।
वाजपेय सहस्रस्य फलं प्राप्नोति नान्यथा ।। २५ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्र माहात्म्ये कुटुंबेश्वरमाहात्म्यवर्णनंनाम सप्तषष्टितमोऽध्यायः ।। ६७ ।। ।। ।। छ ।।