स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ६६

विकिस्रोतः तः
Jump to navigation Jump to search


।। सनत्कुमार उवाच ।। ।।
भूयः शृणु परं व्यास तीर्थानामुत्तमं वरम् ।।।
तत्तीर्थं सर्वपापघ्नं नृसिंहस्य महात्मनः ।। १ ।।
यस्य दर्शनमात्रेण सर्वपापं समुत्तरेत् ।।
दैत्यराजः समाख्यातो हिरण्यकशिपुः पुरा ।। २ ।।
तेनेयं वसुधा सर्वा संप्राप्ता च दुरात्मना ।।
दुष्टदैत्यबलैर्व्याप्ता भाराक्रांता शुचार्दिता ।। ३ ।।
गौर्भूत्वाऽश्रुमुखी देवैर्ब्रह्माणं शरणं ययौ ।।
भाराक्रांतां धरां दृष्ट्वा ब्रह्मा लोकपितामहः ।। ४ ।।
उवाच श्लक्ष्णया वाचा तस्याः श्रमं व्यपोहितुम् ।।
श्रूयतां भोऽवने पुण्ये भवत्या उपकारकम् ।। ५ ।।
वचो वदामि ते तथ्यं देशकालोचितं तथा ।।
पुराऽनेन तपश्चीर्णं दुष्करं सर्वदेहिनाम् ।। ६ ।।
गायत्र्युपासना तेन कृता सुनियतात्मना ।।
मया चास्य वरो दत्तः प्रीतियुक्तेन चेतसा ।। ७ ।।
न दिवा न तथा रात्रौ नांतरिक्षे न भूतले ।।
नातिशुष्केण चार्द्रेण न चास्त्रशस्त्रघातनैः ।। ८ ।।
न देवासुर गंधर्वैर्न यक्षोरगकिन्नरैः ।।
पिशाचैर्गुह्यकाद्यैश्च राक्षसैर्न कदाचन ।। ९ ।।
मानवैः पक्षिजातैश्च न मे मृत्युर्भवेदिति ।।
एककरतलाघातैः सकुलबलवाहनम् ।। 5.1.66.१ ०।।
मारयिष्यति मां वीरः स मे मृत्युर्भविष्यति ।।
तथेत्युक्त्वाऽतिहृष्टात्मा तमहं च तदाऽवने ।।११।।
आगमं चैव लोकं स्वं स दैत्यो घोरशासनः ।।
बभूव सर्वलोकानां शास्ता चातुलविक्रमः ।। १२ ।।
तस्यैवाऽधिकृता लोके बभूवुर्विगतज्वराः ।।
त्रैलोक्यं बुभुजे नित्यं सर्वदैत्यजनेश्वरः।।१३।।
तस्माद्यूयं वनं यात महाकालं महेशितुः।।
तत्र तीर्थं महच्चासीत्सर्वतीर्थवरोतमम् ।।१४।।
संगमेश्वरस्य दक्षिणे कर्कराजोत्तरे तथा ।।
शिप्रातीरे शुभे देशे पूर्वं वैकुण्ठसन्निभम् ।। १५ ।।
नृसिंहाख्यं परं धाम तस्य तीर्थं प्रतिष्ठितम् ।।
तत्र गत्वा सुरश्रेष्ठाः स्नानदाना दिकाः क्रियाः ।। १६ ।।
कुरुत सत्वरं सर्वे पुनर्लोकानवाप्स्यथ ।।
ते तस्य वचनं श्रुत्वा देवा इन्द्रपुरोगमाः ।। १७ ।।
महाकालवनं प्राप्ता यत्र शिप्रा पयस्विनी ।।
नृसिंहतीर्थोपकूले उषित्वा शाश्वतीः समाः ।। १८ ।।
स्नानदानादिकं कृत्वा नृसिंहस्याऽर्चनं तथा ।।
एवं कृत्वा विधानेन परां सिद्धिमितो गताः ।। १९ ।।
नृसिंहस्य स्वरूपेण हतो दानवपुंगवः ।।
सभामध्ये तदा व्यास हरिणाऽमित्रघातिना ।। 5.1.66.२० ।।
करेणैकप्रहारेण हिर ण्यकशिपुर्हतः ।।
ततः सुरगणाः सर्वे स्वाधिकारान्ययुस्तदा ।। २१ ।।
तदारभ्य सुराः सर्वे मध्याह्नोह्नोपासनं सदा ।।
प्रकुर्वंति च तत्रैव यत्र तीर्थे हरिः परम् ।। २२ ।।
एवं तीर्थं परं व्यास अवंत्यां विद्यते भुवि ।।
अस्मिंस्तीर्थे द्विजश्रेष्ठ स्नानदानादिकाः क्रियाः ।। २३ ।।
ये कुर्वंति नराः पुण्यास्ते यांति परमां गतिम् ।।
सर्वदा सर्वकालेषु पुण्यदं तीर्थमुत्तमम् ।। २४ ।।
कदाचिन्नृसिंहतिथिं प्राप्य चैव चतुर्दशीम् ।।
स्नानं कृत्वाऽर्चनं तस्य नृसिंहस्य च धीमतः ।। २५।।
नृसिंहेश्वरदेवेशं पूजयेद्यः समाहितः ।।
तस्य हस्तगता लक्ष्मीर्भविष्यति न संशयः ।। २६ ।।
ततोऽगस्त्येश्वरं देवं यः पश्येत्युसमाहितः ।।
तस्य व्यास क्षितौ किंचिद्दुर्लभं नैव दृश्यते ।। २७ ।।
यत्र सिद्धिं परां प्राप्तो हनुमान्पवनात्मजः ।।
ब्रह्मचारी सदाचारो यतिः सर्वार्थसाधकः ।। २८ ।।
तिष्ठति परदैवज्ञः सर्वकामार्थसिद्धये ।।
यस्मिन्वटे पुरा तप्तं तपः परमदुश्चरम् ।। २९ ।।
मित्रावरुणपुत्रेण सिद्धिहेतोस्तपस्विना ।।
बोधी न्यग्रोध इत्याख्यो ह्यगस्तिवट एव च ।। 5.1.66.३० ।।
नरो नारीसमायुक्तः सावित्रीव्रतमाचरेत् ।।
सौभाग्यं लभते नित्यं सावित्र्याश्च परंतप ।।३१।।
यस्मिंस्तीर्थे नरः स्नात्वा दत्त्वा दानं च सौभगम् ।।
अष्टसौभाग्यसंपूर्णं वंशपात्रं सवासकम् ।। ।। ३२ ।।
सप्तधान्यसमोपेतं पंचरत्नपरिष्कृतम् ।।
सौगंध्यादीनि माल्यानि मौलिसूत्रसमायुतम् ।। ३३ ।।
सावित्रीं हाटकीं कृत्वा यथाशक्ति परंतप ।।
यो वै ददाति विप्राय वेदवेदांगधीमते ।। ३४ ।।
लभते विपुलां लक्ष्मीं बहुभोगकरीं शुभाम् ।।
भुक्त्वा वै विविधान्भोगान्पुनः स्वर्गमवाप्नुयात् ।। ३५ ।।
सावित्रीव्रतकृन्नारी जायते पतिवल्लभा ।।
पतिव्रता महाभागा विधवा न कदाचन ।। ३६ ।।
इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे अवन्तीक्षेत्रमाहात्म्ये नृसिंहतीर्थमहिमवर्णनंनाम षट्षष्टितमोऽध्यायः ।। ६६ ।। ।। सनत्कुमार उवाच ।। ।।