स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ६२

विकिस्रोतः तः
Jump to navigation Jump to search


।। व्यास उवाच ।।
गोमतीकुण्डं त्वया प्रोक्तं पुरा ब्रह्मन्सनातनम् ।।
कस्मिन्काले कदा जातं तन्नो वद सुविस्तरात् ।। १ ।।
।। सनत्कुमार उवाच ।।
शृणुष्व भो महाप्राज्ञ कथां पापहरां पराम् ।।
गोमतीकुण्डोद्भवां पुण्यां पुरा रुद्रेण भाषिताम् ।। २ ।।
नैमिषे च समासीना ऋषयः शौनकादयः ।।
कथयंति कथां पुण्यां सर्वतीर्थोद्भवां शुभाम् ।। ३ ।।
तस्मिन्नवसरे पुण्ये काशीमाहात्म्यमुत्तमम् ।।
कथितं नारदेनैव पवित्रं पापहारकम् ।। ४ ।।
ऊषरः पुण्य पापानां धन्या वाराणसी पुरी ।।
ध्रुवं लभंते मोक्षं च समं चंडालपंडिताः ।। ५।।
असीवरुणयोर्मध्ये पंचक्रोशी महाफलम् ।।
अमरा मरणमिच्छन्ति का कथा इतरे जनाः ।। ६ ।।
इति स्मृत्वा तदा व्यास स्वयंभूः प्रत्यभाषत ।।
शृण्वतां सर्वदेवानामृषीणां च परंतप ।। ७ ।।
नदी न गोमतीतुल्या कृष्णतुल्या न देवता ।।
सर्वपातालभूमध्ये न द्वारकासमा पुरी ।। ८ ।।
इति ते निश्चयं ज्ञात्वा ऋषयः शौनकादयः ।।
यत्र तत्र स्थिताः सर्वे प्रातःसंध्यामुपासितुम्।। ९ ।।
तत्रैव गोमतीतीरे चक्रुस्ते ला धृतव्रताः ।।
सांदीपनोऽपि तत्रैव प्रातःसंध्यां समाचरत् ।। 5.1.62.१० ।।
एवं बहुतिथे काले चरतस्तस्य वै व्रतम्।।
सांदीपनस्य वै व्यास ह्यवंतीपुरवासिनः।।११।।
तस्यैव कामपूर्त्यर्थं विद्यार्थिनौ रामजनार्दनौ ।।
समायातौ सुकुमारांगौ सततं ब्रह्मचारिणौ ।। १२ ।।
निवासं चक्रतुस्तस्य गुरोर्गेहे परंतप ।।
तस्य पाठयतः सम्यग्विद्यां सर्वश्रुतीः परम् ।। १३ ।।
उषस्युषसि तत्रैव दृश्यते न तदा गुरुः ।।
विद्योपदेशकालोऽयं क्व गतो नौ गुरुर्वरः ।। १४ ।।
इति पृष्टे तयोरेवं गुरुपत्नी ह्युवाच ह ।।
सदैव कुरुते वत्स प्रातःसंध्याद्युपास नम् ।। १५ ।।
तत्रैव याति वै नित्यं गुरुस्ते स्नानकारणात् ।।
गोमती वै सरिच्छ्रेष्ठा द्वारकायां च पावनी ।।१६।।
इति श्रुत्वा तदा कृष्णो रामेण सह संयुतः ।।
किं कर्तव्यमिहास्माभिरात्मनो हितमुत्तमम् ।। १७ ।।
गुरोरागमनं कांक्षे अत्रैव स्थितिकांक्षया ।।
एतस्मिन्नेव काले तु सांदीपनिरगा द्गृहम्।। १८ ।।
तत उत्थाय तौ वीरौ गुरोरावंदनं ततः ।।
प्रश्रयावनतौ कृत्वा ह्यब्रूतां वचनं गुरुम् ।। १९ ।।
श्रूयतां भो महायोगिन्नस्माकं वासकार णम्।।
विद्यार्थिनाविह प्राप्तौ युष्माकं च गृहोत्तमे ।। 5.1.62.२० ।।
प्रातःकाले च ते ब्रह्मन्समयो नास्ति नौ प्रभो ।।
एतच्छुत्वा वचस्तस्य कृष्णस्य च बलस्य च ।। २१ ।।
उवाच भगवान्व्यास आत्मनो व्रतकारणम् ।।
अस्माकं परमं वत्स व्रतं वै शाश्वतं मतम् ।। २२ ।।
गोमतीस्नानं कर्तव्यं प्रातःकाले सदा बुधैः ।।
तत्रैवोपासनं पुण्यं संध्याया इति निश्चितम् ।। २३ ।।
इति निश्चित्य युष्माभिर्यद्योग्यं क्रियतां तथा ।।
तच्छ्रुत्वा भगवान्विष्णुर्मायामानुषरूपवान् ।। २४ ।।
गोमत्याराधनं चक्रे कुशस्थल्यां द्विजोत्तम ।।
यत्र शिवेश्वरो देवो यज्ञकुण्डमनुत्तमम् ।। २५ ।।
कंथडेश्वरस्योत्तरे भागे गोमती सा समागता ।।
पातालतलमाभेद्य सरस्वत्या सहागता ।। २६ ।।
प्रातरुत्थाय ते सर्वे गोमतीं सरितां वराम् ।।
ददृशुः सुचिरापांगीं व्यास स्वाश्रमगामिनीम् ।। २७ ।।
।। श्रीकृष्ण उवाच ।। ।।
अत्रैव चागता ब्रह्मन्गोमती सरितांवरा ।।
स्नानदानादिकं सर्वमत्रैव समुपासय।। २८ ।।
गोमत्यत्र समालीना यज्ञकुण्डे सरस्वती ।।
तदाप्रभृति लोकेऽस्मिन्गोमतीकुण्डमुच्यते ।। २९ ।।
सर्वेषामपि लोकानां मार्गोऽ त्रैव च विद्यते ।।
तस्माद्व्यास महापुण्यं भुवि तीर्थमनुत्तमम्।। 5.1.62.३० ।।
गोमतीकुण्डमाख्यातं सर्वपापप्रणानशनम् ।।
भाद्रे मास्यसिताऽष्टम्यां कृष्ण जन्मसमुद्भवम् ।। ३१।।
तत्र स्नात्वा नरो नित्यं रात्रौ जागरणं चरेत् ।।
उपोष्य विधिवद्व्यास सशिष्यं व्यासमर्चयेत् ।। ३२ ।।
वैष्णवांश्च नरांश्चैव कृष्णजन्मोत्सुकान्वरान्।।
नानासुगंधपुष्पाद्यैर्वस्त्रालंकारसंयुतैः ।। ३३ ।।
गोब्राह्मणानां पूजाश्च क्रियते यैः समाहितैः ।।
न तेषां दुर्लभं किंचित्सर्वलोकेषु विद्यते ।। ३४ ।।
गोमतीस्नानजात्पुण्याद्वासुदेवसमागमात् ।।
मनोरथफलप्राप्तिर्जायते नाऽत्र संशयः ।। ३५ ।।
तथा चैत्रसिते पक्षे यावच्चैकादशी भवेत् ।।
तद्दिने च नरः स्नात्वा गोमत्यां च विशेषतः ।। ३६ ।।
रात्रौ जागरणं कृत्वा विष्णुपूजां तथैव च ।।
आमलकीं ततो गत्वा प्रदक्षिणात्पदेपदे ।। ३७ ।।
गोसहस्रफलं तेषां प्राप्यते नाऽत्र संशयः ।।
ये शृण्वंति कथां पुण्यां पवित्रां पापहारिणीम् ।। ३८ ।।
सर्वपापविनिर्मुक्ता विष्णुलोकं प्रयांति ते ।। ३९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये गोमतीतीर्थकुण्डमाहात्म्यवर्णनंनाम द्विषष्टितमोऽध्यायः ।। ६२ ।।